SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ णाण 1957 - अभिधानराजेन्द्रः भाग - 4 णाण कुतः ? स्वपरप्रत्यायकत्वाद्-द्रव्याक्षरसद्भावेन परप्रत्यायक-त्वस्यापि तत्र लभ्यमानत्वादिति भावः / इति गाथाऽर्थः / / 171 / / एतदाचार्यो मतिश्रुतयोस्तुल्यताऽऽपादनेन किश्चिद् दूषयितु-माहसुयकारणं ति सद्दो, सुयमिह सो य परबोहणं कुणइ। मइहेयवो वि हि परं, बोहिंति कराइचेट्ठाओ / / 172 / / इह तावद्भवन्तं पृच्छामः-हन्त ! शब्दः श्रुतमुच्यते, उपलक्षणत्वात्पुस्तकाऽऽदिन्यस्ताक्षरविन्यासश्च श्रुतमभिधीयते (सुयकारण ति) श्रुतकारणत्वात्-कारणे कार्योपचारादिति भावः / स च शब्दः, पुस्तकाऽऽदिन्यस्ताक्षरविन्यासश्च परबोधनं परप्रत्यायनं करो-तीत्येव परतः श्रुतज्ञानं परप्रत्यायकमुच्यते, न तु स्वतः; इति तावद्भवतोऽभिप्रायः। एतच मतिज्ञानेनाऽपि समानम्। कुतः? इत्याह-हि यस्मान्मतिहेतवोऽपि मतिजनका अपि कराऽऽदिचेष्टाविशेषाः पर बोधयन्त्येव / तथाहि-अक्षराऽऽत्मकत्वात् किलशब्दः, पुस्तकाऽऽदिन्यस्ताक्षरविन्यासश्च श्रुतस्य कारणं, करशीर्षाऽऽदिचेष्टास्त्वक्षररहितत्वात् किल मतिज्ञानस्य हेतवः-करवक्त्रसंयोगे हि कृते भुजिक्रियाविषया किल मतिरुत्पद्यते, शीर्षेचधूनिते निवृत्तिप्रवृत्तिविषयासा समुपजायते, इत्येवं मतिहेतवः कराऽऽदिचेष्टाऽपि परप्रबोधिका एवेति माथाऽर्थः / / 172 / / यदि मतिहेतवोऽपि परं प्रबोधयन्ति, ततः किम् ? इत्याहन परप्पबोहयाई, जं दो विसरूवओ मइसुयाइं। तकारणाई दोण्ह वि, बोहेति तओ न भेओ सिं / / 173 / / मतिहेतूनामपि परप्रबोधकत्वे सतिन (भेओ सिं) अनयोर्मतिश्रुतयोर्न भेदः / कुतः ? इत्याह-(तउ त्ति) ततस्तस्मात् कारणात्। करभात् ? इत्याह-यद् यस्माद् द्वे अप्येते मतिश्रुते स्वरूपतो विज्ञानाऽऽत्मना न परप्रबोधके, विज्ञानस्य मूकत्वेन परप्रबोधकत्वायोगात् , अवध्यादिवदिति। अथ श्रुतस्य यत्कारणं शब्दाऽऽदिकं तत्परप्रबोधकम् इत्येतावता मतिज्ञानाद् विशिष्यते श्रुतज्ञानम् / नन्वेतद् मतिज्ञानेऽपि समानम् , तत्कारणस्याऽपि करचेष्टाऽऽदेः परावबोधकत्वादिति / एतदेवाऽऽहतानि चतानि पूर्वोक्तरूपाणि कारणानि च तत्कारणानि द्वयोरपि मतिश्रुतज्ञानयोर्यथासंख्यं शब्दाऽऽदीनि, कर चेष्टाऽऽदीनि च परं बोधयन्त्येव, इति कोऽनयोर्विशेषः ? न कश्चिदित्यर्थः / इति किमुच्यतेमूकेतरभेदाद् भेदः ? इति गाथार्थः / / 173 / / तदेवं परोक्ते व्यभिचारिते ततो निरुत्तरं विलक्षीभूत तूष्णीभावमापन्नं परमवलोक्य संजातकारुण्यः स्वयमेव सूरिरुत्तरमाहदव्वसुयमसाहारण-कारणओ परविबोहयं होजा। रूढं ति व दव्वसुयं, सुयं ति रूढा ण दव्वमई / / 174 / / द्रव्यश्रुतं पुस्तकन्यस्ताक्षरशब्दरूप श्रुतज्ञानस्यैव कारणम् , नतुमतेः. इति श्रुतज्ञानं प्रत्यसाधारणकारणत्वाद् द्रव्यश्रुतं परप्रबोधकं भवेत, न तु कराऽऽदिचेष्टाः, तासां मतिश्रुतोभयकारणत्वेन साधारणकारणत्वादिति भावः / इदमुक्तं भवति-पुस्तकाऽऽदिन्यस्ताक्षररूप, शब्दाऽऽत्मकं च द्रव्यश्रुतम्, श्रुतज्ञानस्य मतिपूर्वकत्वाद्यधप्यानन्तर्येणावग्रहेहाऽऽदीन् | जनयति, तथाऽप्यक्षररूपत्वाद् मुख्यतया श्रुतज्ञानस्यैव किलासाधारणं कारणमुच्यते, कारणत्वेनोपचारतः श्रुतज्ञानेऽन्तर्भवति, परप्रबोधकत्वेन च तत्सर्वस्यापि विदितमिति / एवं कारणस्य परप्रबोधकत्वात् श्रुतज्ञानं परप्रबोधक घटते, कराऽऽदिचेष्टास्तु मतिज्ञानस्यासाधारणकारणं न भवन्ति, श्रुतज्ञानहेतुत्वादपि करवक्त्रसंयोगाऽऽदिकायां हि करचेष्टायां दृष्टात्वं न केवलं तद्विषयाऽवग्रहाऽऽदय उत्पद्यन्ते, किंतु-''भोक्तुमिच्छत्ययम्" इत्यादिश्रुतानुसारिविकल्पाऽऽत्मकं श्रुतज्ञानभप्युपजायते इति। अतोऽसाधारणकारणत्वाभावात् कराऽऽदिचेष्टाः परमार्थतो मतिज्ञानस्य कारणमेव न संभवन्ति, ततश्च न तत्रान्तर्भवन्ति; तथा च सति न मतिज्ञानं परप्रबोधकम्। अथवा-(दव्वसुयमसाहारणकारणओ त्ति) द्रव्यश्रुतं पुस्तकाऽऽदिन्यस्ताऽऽचाराऽऽदिग्रन्थाक्षररूपम् , गुरुजनोदीरितदेशनाशब्दस्वरूपं च परप्रबोधकंभवेत्। कुतः ? इत्याहअसा-धारणस्य मोक्ष प्रत्यनन्यसाधारणकारणस्य क्षायिकज्ञानदर्शनचारित्रलक्षणस्य वस्तुकलापस्य कारणत्वाद् हेतुत्वात् ; ततश्च तद्द्वारेण श्रुतज्ञानमपि परप्रबोधकं घटते, कराऽऽदिचेष्टास्तु यद्यपि मतिज्ञानस्य कारणम् , तथाऽपि यथोक्तो विशिष्टः परप्रबोधस्तासु प्रायो न संभवति, अतो विशिष्टपरप्रबोधाभावाद् न ताः परप्रबो-धिकाः, तथा च सति न तद्द्वारेणापि मतिज्ञानं परप्रबोधकम् / इति सूत्रस्य सूचकत्वात् सोपस्कारः पूर्वार्द्धस्यार्थोऽवसेयः। अथोत्तरार्द्धस्य व्याख्या प्रस्तूयते(रूढं ति वेत्यादि) वेत्यथवा, भवतु मतिज्ञानस्य कारणं कराऽऽदिचेष्टा, तथापि सा ' द्रव्यमतिः ' इत्ये-वमागमे क्वचिदपि न रूढाः; द्रव्यश्रुतं पुनः पूर्वोक्तस्वरूपं ' श्रुतम् ' इत्येवं सर्वत्र रूढम् / ततश्च यद्यपि कराऽऽदिचेष्टा मतिज्ञानस्य कारणम् , परप्रबोधिका च; तथापि द्रव्यमतित्वेनाऽऽरूढत्वात् कारणे कार्योपचारतो मतिरूपतया नव्यवहियते। अतो मतिज्ञानात्त-स्याः पृथग्भूतत्वाद् न तद्द्वारेण तस्य परप्रबोधकत्वम् , द्रव्यश्रुतंतुकारणे कार्योपचारतः श्रुतज्ञानत्वेन प्ररूप्यते, इति तद्द्वारेणास्यपरप्रबोधकमुपपद्यते एव। इति युक्तो मूकेतरभेदामतिश्रुतयो-मैदः / ततश्च-" तक्कारणाई दोण्ह, वि बोहिंति तओन भेओ सिं।" (173) इत्येतदपास्तं भवतीति गाथाऽर्थः / / 174 / / (11) तदेवं कराऽऽदिचेष्टाया मतिकारणत्वमभ्युपगम्योक्तम् , साम्प्रतं सा मतेः कारणमेव न भवति, किंतु श्रुतस्येति दर्शयन्नाहसा वा सद्दत्थो चिय, तया विजं तम्मि पच्चओ होइ। कत्ता वि हु तदभावे, तदभिप्पाओ कुणइ चिटुं / / 175 / / यदि वा सा कराऽऽदिचेष्टा करवक्त्रसंयोगाऽऽदिलक्षणा / किम् ? इत्याह-शब्दार्थ एव शब्दो वक्तृसमुदीरितवचनरूपः, तस्यार्थः शब्दार्थः श्रोतृगतज्ञाने प्रतिभासमानतदभिधेयवस्तुरूपः श्रुतज्ञानमिति तात्पर्यम् / किमित्यसौ शब्दार्थ एव ? इत्याह-यद्यस्मात्ः कारणात् तयाऽपि का विहितया तस्मिन् शब्दार्थेभोजनेच्छाऽऽदिलक्षणे प्रतिपत्तुः प्रत्ययो भवति / तथा कर्ताऽपि तदभावे शब्दाभावे जिह्वारोगाऽऽदिसद्भावात् शब्दोदीरणसााभाव इत्यर्थः / (तदभिप्पाउ ति) तस्मिन् शब्दार्थ भोजनेच्छाऽऽदिलक्षणे परस्मै प्रतिपादयितव्येऽभिप्रायो मनोविकल्पो यस्यासौ तदभिप्रायः करोति चेष्टां करवक्त्रसंयोगाऽऽदि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy