________________ णाण 1956 - अभिधानराजेन्द्रः भाग - 4 णाण ष्कमपि त्वदभिप्रायेण श्रुतनिश्रितमायातम् , न चैतदस्ति, आगमेऽश्रुतनिश्रितत्वेन तस्याभिधानात् / तस्माद्देवानां प्रियेणाद्यापि श्रुतनिश्रितम्य स्वरूपमेव नावगम्यते; तत् किं वय ब्रूमः ? इति गाथाऽर्थः / / 167 // तदेवं श्रुतनिश्रितवचनश्रवणमात्राद्विभ्रान्तस्तत्स्वरूपमजा नानः परो युक्तिभिर्निराकृतोऽपि विलक्षीभूतः प्राऽऽहजइ तं सुएण न तओ, जाणइ सुयनिस्सियं कहं भणियं ? जं सुयकओवयारं, पुटिव इण्हि तयणवेक्खं / / 168 / / यदितस्थाणुपुरुषाऽऽदिपर्यायविवेकसंघातं श्रुतेन न जानाति सकोऽसौ | ज्ञानी, तर्हि श्रुतनिश्रितमेवावग्रहाऽऽदिकं सूत्रे कथं केन प्रकारेण भणितम् ?-मतिः स्वयमनक्षरैव, यस्त्विहाक्षरोपलम्भः स यदि श्रुतनिश्रितो नेष्यते, तर्हि कथमन्यथाऽसौ अटिष्यते ? इति विस्मयभयाऽऽपूरितहृदयस्य परस्याऽयं प्रश्न इति भावः। अत्रोच्यतेननुभवानेव प्रष्टव्यो योऽसमीक्षितमित्थं प्रभाषतेयोऽक्षरोपलम्भः स सर्वोऽपि श्रुतनिश्रय इति / अथ न ज्ञायते भवता, तर्हि वयमेवं ब्रूमः, श्रूयतम् (ज | सुए इत्यादि) श्रुतं द्विविधम्-परोपदेशः, आगमग्रन्थश्च व्यवहारकालात् पूर्व तेन श्रुतेन कृत उपकारः संस्काराऽऽधानरूपो यस्य तत् कृतश्रुतोपकारम् , यद् ज्ञानमिदीनी तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराऽऽधायकश्रुतस्यानपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते, न त्वक्षराभिलापयुक्तत्वमात्रेणेति भावः / इति गाथाऽर्थः / / 168 // एतदेव भावयन्नाहपुव्वं सुयपरिकम्मिय-मइस्स जं संपयं सुयाऽऽईयं / तं निस्सियमियरं पुण, अणिस्सिअंमइच उक्कं तं // 166 / / व्यवहारकालात्पूर्व यथोक्तरूपेण श्रुतेन परिकर्मिता-आहित-संस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यन्साम्प्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तच्छुतनिश्रितमवग्रहाऽऽदिक सिद्धान्ते प्रतिपादितम् / इतरत्पुनरश्रुतनिश्रितम् , तचौत्पत्तिक्यादिमतिचतुष्क द्रष्टव्यम् , श्रुतसंस्कारानपेक्षया सहजत्वात् तस्य / अत्राऽऽहननु" भरनित्थरणसमत्था, तिवग्गसुत्तत्थ-गहियपेयाला। उभयलोगे फलवई, विणयसमुत्था हवइ बुद्धी॥१॥" इत्यादिवचनात् तत्राऽपि मतिचतुष्के वैनयिकी मतिः श्रुत-निश्रिता समस्ति। सत्यम् , किंतु सकृत् श्रुतनिश्रित्वे सत्यपि बाहुल्यमङ्गीकृत्याश्रुतनिश्रितंतदुच्यते इत्यदोषः। (इममेवाऽभिप्राय नन्दध्ययने अस्या एव गाथाया विवरणस्थले श्रीमन्मलयगिरिसूरिरप्याह। तथाहि-" नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभि-प्रेताः, ततो यद्यस्यास्त्रिवर्गसूत्रार्थगृहीतसारत्वम्, ततोऽश्रुतनि-श्रित्वे नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति। अत्रोच्यते-इह प्रायो वृत्तिमाश्रित्याऽश्रुतनिश्रितत्वमुक्तम्, ततः स्वल्पश्रुतभावेऽपिन कश्चिद्दोषः " इति।। "इहातिगुरुकार्य दुर्निर्बहत्वाद् भर इव भरस्तन्निस्तरणे समर्था भरनिस्तरणसमर्थाः, वयो वर्गास्त्रिवर्गा लोकरूढ्याश्धर्मार्थकामास्तदर्जनोपायप्रतिपादक यत् सूत्र यश्चतदर्थस्तौ त्रिवर्गसूत्रार्था, तयोगृहीत 'पेयाल 'प्रमाणं सारो वा यथा सा तथाविधा / " इति नन्दिटीकायां / व्याख्यातोऽख्या अर्थः।) तस्माद् यदुक्तम्- "ज मइनाणमणक्खर मियरं सुयनाणमिति' (162) तदयुक्तम् , मतेरनक्षरत्वेस्थाणुपुरुषाऽऽदिपर्यायविवेकाभावप्रसङ्गात्, श्रुतनिश्रितत्वस्य चान्यथा समर्थितत्वादिति स्थितम् / इति गाथाऽर्थः / / 166 / / यद्यनक्षरा मतिर्न भवति, तर्हि " लक्खणभेया हेऊ, फलभावओ (67)" इत्यादिगाथायां प्रतिज्ञातोऽक्षरानक्षरभेदाद मतिश्रुतयो र्भेदः कथं गमनीयः ? इत्याहउभयं भावऽक्खरओ, अणक्खरं होज्ज वंजणऽक्खरओ। मइनाणं सुत्तं पुण, उभयं पि अणक्खरऽक्खरओ।। 170 / / इहाक्षरं तावद् द्विविधम-द्रव्याक्षरम् , भावाक्षरं च / तत्र द्रव्याक्षरं पुस्तकाऽऽदिन्यस्ताऽऽकाराऽऽदिरूपम् , ताल्वादिकारणजन्यः शब्दो वा; एतच व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते / भावाक्षर त्वन्तःस्फुन्दकाराऽऽदिवर्णज्ञानरूपम् / एवं च सति (भाव-क्खरओ त्ति) भावाक्षरमाश्रित्य मतिज्ञानं भवेत् / कथंभूतम् ? इत्याह-(उभयं ति) उभयरूपम्-अक्षरवत्, अनक्षरं चेत्यर्थः; मतिज्ञानभेदे ह्यवग्रहे भावाक्षरं नास्तीति तदनक्षरमुच्यते, ईहाऽऽदिषु तु तद्भेदेषु तदस्तीति मतिज्ञानमक्षरवत् प्रतिपाद्यत इति भावः। (अणक्खरं होज वंजणऽक्खरओ ति) व्यञ्जनाक्षरं द्रव्याक्षरमित्यनर्यान्तरम्, तदाश्रित्य मतिज्ञानमनक्षरं भवेत् , न हि मतिज्ञाने पुस्तकाऽऽदिन्यस्ताकाराऽऽदिकं शब्दो वा व्यञ्जनाक्षरं विद्यते, तस्य द्रव्यश्रुतत्वेन रूढत्वात्, द्रव्यमतित्वेनाप्रसिद्धत्वादिति। (सुत्तं पुणेत्यादि) सूत्रं श्रुतज्ञानम् , पुनरुभयमपिद्रव्यश्रुतम् , भावश्रुतं च इत्यर्थः, प्रत्येकमनक्षरतः, अक्षरतश्च भवेत्। इद-मुक्त भवति-"ऊससिय नीससियं, निच्छूट खासियं च छीयं च। निरिंसघियमनुसार, अणक्खर छेलियाईयं" // 1 // इत्यादि-वचनाद् द्रव्यश्रुतमनक्षरम्-पुस्तकाऽऽदिन्यस्ताक्षररूपम्, शब्दरूपं च तदेव साक्षरं भावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानऽऽत्मकत्वात्साक्षरम्, पुस्तकाऽऽदिन्यस्ताकाराऽऽद्यक्षररहितत्वात् शब्दाभावाच तदेवानक्षरम्, पुस्तकाऽऽदिन्यस्ताक्षरस्य शब्दस्य चद्रव्यश्रुतान्तःपातित्वेन भावश्रुतेऽसत्त्वात; तदेवं मतेविश्रुतस्य च साक्षरानक्षरकृतो नास्तिविशेषः; प्रत्येक द्वयोरप्यक्षरानक्षररूपत्वेनोक्तत्वात्; केवलं सामान्येन' श्रुतम् ' इत्युक्ते तन्मध्ये द्रव्यश्रुतं लभ्यत इति कृत्वा तत्रद्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति, मतौ तु तन्नास्ति, तस्या द्रव्यमतित्वेनाऽऽरूढत्वादिति। एवमनयोर्द्रव्याक्षरापेक्षया साक्षरानक्षरत्वकृतो भेदः / इति गाथाऽर्थः / / 170 / / तदेवमक्षरेतरभेदाद मतिश्रुतयोर्भेदमभिधाय मूकेतर भेदात्तमभिधित्सुराहसपरप्पचायणओ, भेओ मूएयराण वाऽमिहिओ। जं मूयं मइनाणं, सपरप्पच्चायगं सुत्तं / / 171 // अन्यैस्तु कैश्चिदाचार्यः स्वपरप्रत्यायनतो मतिश्रुतयोर्भेदोऽभिहितः। कयोरिव ? इत्याह-मूकेतरयोरिव, यथा हि मूकः स्वमात्मानमेव प्रत्याययति प्रतीतिपथं नयति, न तु परम्, तत्प्रत्यायनहेतुवचनाभावाद; इतरस्त्वमूकः स्वं परं च प्रत्याययति, वचनसद्भावात्। तथा सति यथा मूक मुखरयोर्भेदः, एवं मतिश्रुतयोरपि, यद् यस्मात् परप्रत्यायनहेतुद्रव्याक्षराभावाद् मूकं मतिज्ञानम् , मुखरं तु श्रुतज्ञानम्,