SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ णाण 1955 - अभिधानराजेन्द्रः भाग - 4 णाण तं तम्मयं ति भण्णइ, तो मइपुव्वं जओ भणियं / / 160 // / भावसुयं तेण मई, वग्गसमा सुंबसरिसयं तं च। जं चिंतिऊण य तया, तो सुयपरिवाडिमणुसरइ // 161 / / अथोपचारः क्रियते-उपचारविधिराश्रयिते, ततश्चार्थान्तरमपि यद् यस्मात् प्रभवति तत्तन्मयमिति भण्यते, यथा-'तदपथ्यमियन्तं विक्रियाविस्तरमुपगतम्' 'तदेकं वचनमेतावन्तं विपाकमापन्नम्' इत्यादि, ततश्चातन्मयेऽपि ध्वनौ मतिगता ज्ञानमयतोपचर्यते। तथा च सति वल्कशुम्बसादृश्येन मतिश्रुतयोरयं भेदः सिद्धो भवति / एवमुक्ते आचार्यः सुहृद् भूत्वा परं शिक्षयति-(तो मइपुव्वं इत्यादि) हन्त ! यधुपचारवादी भवान्, ततो मतिपूर्व भावश्रुतं यस्मादागमे भणितम, तेन कारणेन मतिर्वल्कसमा, तच भावश्रुतं शुम्बसदृशम् , इत्येवं दृष्टान्तोपनयं कुरु, येनोपचारमन्तरेणाऽपि सर्व सुस्थं भवति, यथा हि वल्काः शुम्बकारणम् तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं वल्कानां कार्य तथा भावश्रुतमपि मतेः / कुतः? इत्याह-यद् यस्मात् कारणात् तया मत्या चिन्तयित्वा ततः श्रुतपरिपाटीमनुसरति-वाच्यवाचकभावेन परोपदेशश्रुतग्रन्थयोजनां वस्तुनि करोति; तस्मान्मतिश्रुतयोर्वल्कशुम्बयोरिव कार्यकारणभावाद् भेदसिद्धिः, इत्येवं दृष्टान्तोपनयो युक्ति संसहते, न तु परोक्तप्रकारेणेति गाथाऽर्थः / / 160 / / 161 / / तदेवं वल्कशुम्बोदाहरणादप्पभिहितो मतिश्रुतयोर्भेदः; साम्प्रतं त्वक्षरानक्षरभेदात्तमभिधित्सुः पराभिप्रायं तावदुपन्यस्यन्नाहअण्णे अणक्खरऽक्खर-विसेसओ मइसुयाइँ भिंदंति। जं मइनाणमणक्खर-मक्खरमियरं च सुयनाणं // 162 // अन्ये केचनाऽपि सूरयोऽनक्षराक्षरवद्विशेषतो मतिश्रुते भिन्दन्ति, यद् यस्मात् किल मतिज्ञानमनक्षरम्, श्रुतज्ञान त्वक्षरवद्भवति, इतरचानक्षरवदुच्छवसितादीत्यर्थः / इति गाथाऽर्थः / / 162 // अत्राऽऽचार्यो दुषणमाहजइ मइरणक्खर चिय, भविज नेहाऽऽदओ निरभिलप्पे। थाणुपुरिसाइपज्जायविवेगो किह णु होजाहि? / / 163 / / यदि हन्त ! मतिरनक्षरैव स्यात्-अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्ये प्रतिभासमानाऽभिलापे स्थाण्यादिके वस्तुनि ईहाऽऽदयो न प्रवर्तेरन् / ततः किम् ? इत्युच्यतेतस्यां मतावनक्षरत्वेन स्थाण्वादिविकल्पाभावात् ' स्थाणुरयं पुरुषो वा ' इत्यादि-पर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्य-तिरेकाऽऽदिना परिच्छेदो न स्यात् / तथाहि-यदनक्षरं ज्ञानं न तत्र स्थाणुपुरुषपर्यायाऽऽदिविवेकः, यथाऽवग्रहे, तथा चेहाऽऽदयः, तस्मात्तेष्वपि नासौ प्राप्नोतीति गाथाऽर्थः / / 163 // अथ विभ्रान्तस्य परस्योत्तरमाहसुयणिस्सियवयणाओ, अह सो सुयओ मओ न बुद्धीओ। जइ सो सुयवावारो, तओ किमन्नं मइन्नाणं? / / 164 // आगमे मतिज्ञानं द्विधा प्रोक्तम्-श्रुतनिःश्रितमवग्रहेहाऽऽदिचतुष्कम् , अश्रुतनिश्रितं चौत्पत्तिक्यादिबुद्धिचतुष्टयम् / ततश्च सूरिरित्थं पराभिप्रायमाशङ्कते-अथैवं परो ब्रूयात्-आगमे श्रुतनिःश्रितत्वेनाऽपि मतिज्ञानस्य भणनात् श्रुतात् श्रुततोऽक्षराऽऽत्मकादसौ स्थाणुपुरुषा ऽऽदिपर्यायविवेकः मतः, न बुद्धेर्न मतेः सकाशात्, तस्याः स्वयमनक्षररूपत्वात्। अत्रोत्तरमाह-(जइ सो इत्यादि) यदि हन्त! स स्थाणुपुरुषाऽऽदिपर्यायविवेकः श्रुतव्यापारस्तविग्रह मुक्त्वा किमन्यमतिज्ञान ? न किञ्चिदित्यर्थः / यदि स्थाणुपुरुषाऽऽदिपर्यायविवेकोऽक्षराऽऽत्मकत्वात् श्रुतव्यापार इष्यते, तदेहाऽपायाऽऽदयो मतिभेदाः सर्वेऽप्यक्षराऽऽत्मकत्वात् श्रुतत्वमापन्नाः, इत्यतोऽक्षराभिलापरहितमवग्रह मक्त्वाऽशेषस्येहाऽऽदिभेदभिन्नस्य सर्वस्याऽपि मतिज्ञानस्याभावप्रसङ्गः। इति गाथाऽर्थः // 164 // अथाऽन्यथा परस्य वचनमाशक्य दूषयितुमाहअह सुयओ वि विवेगं, कुणओ न तयं सुयं सुयं नत्थि। जो जो सुयवावारो, अन्नो वितओ मई जम्हा।। 165 // अथ श्रुतादपि स्थाणुपुरुषाऽऽदिविवेकं कुर्वतः प्रमातुर्न तत् श्रुत-म् , कि तु मत्यभावभीत्या मतित्वेनाभ्युपगम्यते, हन्त ! तय कत्र सन्धिल्सतोऽन्यतः प्रच्यवते, यत एवं सति श्रुतं क्वचिदपि नास्तिश्रुताभावः प्राप्नोतीत्यर्थः / कुतः? इत्याह-यो यश्चरणकरणाऽऽदिप्रतिपादनलक्षणोऽन्योऽपि श्रुतस्याऽऽचाराऽऽदेव्यापारः सकोऽसौ यस्मान्मतिज्ञानमेव, अक्षराऽऽत्मकत्वात्, स्थाणुपुरुषाऽऽदिपर्यायविवेकवदिति गाथाऽर्थः / / 165 // अथ स्थाणुपुरुषाऽऽदिपर्यायविवेको मतिश्च श्रुतं च भविष्यति; अतो नैकस्याप्यभावप्रसङ्ग इत्याहमइकाले वि जइ सुयं, तो जुगवं मइसुओवओगा ते। अह नेवं एगयरं, पवजओ जुज्जए न सुयं // 166 / / स्थाणुपुरुषाऽऽदिपर्यायविवेकलक्षणे मतिकालेऽपि यदि श्रुत-व्यापार इष्यते, ततो युगपदेव मतिश्रुतोपयोगौ ते तव प्रसज्जते, न चैतत् युक्तम् , समकालं ज्ञानद्वयोपयोगस्य निषिद्धत्वात् / अथैतदोषभयाद् नैयमुपयोगद्वयं युगपदभ्युपगम्यते, त.कतरं प्रतिपद्यमानस्य स्थाणुपुरुषाऽऽदिपर्यायविवेककाले मतिज्ञानं, श्रुतज्ञानं वा इच्छतो भवत इत्यर्थः, किम् ? इत्याह-(जुद्धए नसुयं ति) श्रुतमिह प्रतिपत्तुंनयुज्यते. किंतु मतिज्ञानमेव। इदमुक्तं भवति-" सावकाशानवकाशयोरनवकाशो विधिर्बलवान " इति न्याया-दन्यत्रानवकाशं मतिज्ञानमेवैकं तवैकतरं प्रतिपद्यमानस्येह प्रतिपत्तुं युज्यते; न तु श्रुतं, तस्याऽन्यत्र श्रुतानुसारिण्याचाराऽऽदिज्ञानविशेष सावकाशत्वात्। एवं च सति स्थाणुपुरुषाऽऽदिपर्यायविवेको मतेरेव, न तु श्रुतात्, स चाऽक्षराभिलापसमनुगत एव, इति नैकान्तेन मतिज्ञानमनक्षरमिति भावः / इति गाथाऽर्थः / / 166 / / किं च-अक्षरानुगतत्वमात्रभुपलभ्य स्थाणुपुरुषाऽऽदिपर्यायविवेको भवता श्रुतनिश्रित उक्तः,एव चा तिप्रसङ्गःप्राप्नोतीति दर्शयतिजइ सुयनिस्सियमक्खरमणुसरओ तेण मइचउक्कं पि। सुयनिस्सियमावन्नं, तुह तं पि जमक्खरप्पभवं / / 167 // यदि स्थाणुपुरुषाऽऽदिपर्यायविवेकविधानेनाक्षरमनु सरतः प्रमातुनि श्रुतनिश्रितं भवता प्रोच्यते, तेन तत्पित्तिक्यादिमतिचतुष्क मपि तव श्रुतनिश्रितमापन्नम्, यस्मात्तदप्यक्षरप्रभवं वर्णाऽऽलिङ्गितमित्यर्थः / तदपि हि नेहाऽऽदिविरहेण जायते, ईहा5ऽदयश्च न वर्णाऽभिलापमन्तरेण संभवन्ति; तस्मान्मतिचतु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy