SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ णाण 1946 - अभिधानराजेन्द्रः भाग - 4 णाण यमेवावगन्तव्यम् / तदेतावता किं तद् द्रव्याऽऽदिश्रुतम् ? कथं वा तद्भवति? इत्येवं चिन्तितम्। अथ-" को वा भावसुयं सो ' (127) इत्यादि चिन्त्यते-तत्र भावश्रुतमुभयश्रुताद् द्रव्यश्रुताचा-नन्तगुणम् , एतस्मात् तु उभय श्रुतं द्रव्यश्रुतं चानन्ततमे भागे वर्तत इति भावनीयम्, वाचः क्रमवर्तित्वात् , आयुषश्च परिमितत्वात् सर्वेषामपि भावश्रुतविषयभूतानामर्थानामनन्ततममेव भागं वक्ता भाषत इति भावः / ततश्च भावश्रुतस्यानन्ततम एव भागो द्रव्यश्रुत-त्वेन उभयश्रुतत्वेन च परिणमतीत्युक्तं भवति / एतच्च सर्वमनन्तर-मेव भाष्यकारः स्वयमेव विस्तरतो भणिष्यति, इत्यलं विस्तरेण। आह-ननु यानुपयुक्तो भाषते तदुभयश्रुतम् ,याँस्त्वनुपयुक्तो वक्ति तद् द्रव्यश्रुतमित्युक्तम् , याँस्तर्हि न भाषते, केवलं श्रुतबुद्ध्या पश्य-त्येव, तत्राऽपि द्रव्यश्रुतरूपता, उभयश्रुतरूपता च किमिति नेष्य-ते ? इत्याशङ्कयाऽऽह- " इयरत्थ वि" इत्याद्युत्तरार्द्धम्।'" जे भासइ तं च सुयं " इत्युक्ते तत्प्रतियोगिस्वरूपमभाषमाणावस्था-भावि भावश्रुतमेव इतरत्र शब्दवाच्यं भवति। ततश्चायमर्थ:-द्रव्य-श्रुतोभयश्रुताभ्यामितरत्राऽपि भावश्रुते भवेत् श्रुतम्-द्रव्यश्रुतरूप-ता, उभयश्रुतरूपता वा भवेदित्यर्थः / यदि किं स्याद् ? इत्याह-उपलम्भनमुपलब्धिः, तत्सम तत्प्रमाणं यदि भणेत्-यावद्वस्तुनि-कुरम्बमुपलभते तावत्सर्वमुपयुक्तोऽनुपयुक्तो वा यदि वदेदित्यर्थः / एतच नास्ति, श्रुतोपलव्ध्या उपलब्धानामर्थानामनन्तत्वात् , वाचः क्रमवर्तित्वाद् , आयुषश्च परिमितत्वादिति / तस्मादभिला-प्यानां श्रुतोपलब्ध्या समुपलब्धानां भावानां मध्यात् सर्वेणापि जन्मना अनन्ततममेव भागं भाषते वक्ता, अतस्तत्रैवानुपयुक्तस्य वदतो द्रव्यश्रुतरूपता, उपयुक्तस्य तु वदत उभयश्रुतरूपता भवेत् , नेतरत्र भाव श्रुते, भाषणस्यैवासंभवात् / इति पूर्वगतगाथाऽर्थः / / 128!! तदेवं व्याख्याताऽस्माभिरियं गाथा, सा म्प्रतं भाष्यकारस्तव्याख्यानमाहजे सुयबुद्धिद्दिढे, सुयमइसहिओ पभासई भावे / तं उभयसुयं भन्नइ, दव्वसुयं जे अणुवउत्तो ! 126 / / गतार्थव / नवरं सुखार्थं किञ्चिद् व्याख्यायते- श्रुतरूपा यका बुद्धिस्तया दृष्टाः पर्यालोचिता ये भावास्तन्मध्याद् ' मइसहियं " (128) इत्यस्यतात्पर्यव्याख्यानमाह-श्रुताऽऽत्मकमतिसहितः, श्रुतोपयुक्त इति यावत्।यान् भावान् प्रभाषते तद्रव्यभावरूप-मुभयश्रुतं भण्यते। यान् पुनरनुपयुक्तो भाषतेतद्रव्यश्रुतं, शब्द-मात्रमेवेत्यर्थः / याँस्तु श्रुतबुद्ध्या पर्यालोचयत्येव केवलम् , न तु भाषते, तद्भावश्रुतमित्यर्थाद् गम्यते। इति गाथाऽर्थः / / 126 // उत्तरार्द्धव्याख्यानमाहइयरत्थ विभावसुए, होज तय तस्सम जइ भणिज्जा। नय तरइ तत्तियं सो, जमणेगगुणं तयं तत्तो / / 130 / / यद्भाषते तदुभयश्रुतं, द्रव्यश्रुतं वेत्युक्ते भावश्रुतमेवेतरत्र शब्द-वाच्य गम्यते। ततश्चेतरत्रापि भावश्रुते भवेत् तद् द्रव्यश्रुतमुभयश्रुतं वा, यदि तत्सममुपलब्धिसम भणेत् , तच नास्ति, यस्माच्छुत-ज्ञानी स्वबुध्या यावदुपलभते तावद्वक्तुं 'न तरति न शक्नोति। कुतः? इत्याह-यद् यस्मात् कारणात् ततो भाषाविषयीकृतात् श्रुतात् तदशक्यभाषणक्रिय भावश्रुतमनेकगुणमनन्तगुणम् , अतो नोपलब्धिसम भणतीति गाथाऽर्थः / / 130 // उपलब्धिसममित्येतस्य समासविधिमाहसह उवलद्धीए वा, उवलद्धिसमं तथा व जंतुल्लं / जं तस्समकालं वा, न सव्वहा तरइवोत्तुं जे / / 131 / / यद् भाषणमुपलब्ध्या सह वर्तने तदुपलब्धिसमम् , प्राकृतशैलीनिपातनात् सहस्य समभावः, या या श्रुतोपलब्धिस्तया तया सह यद्भाषणं तदुपलब्धिसममित्यर्थः। (तया व जंतुल्ल ति) तया चोपलब्ध्या यत् तुल्यं समान तदुपलब्धिसमम्-यावती काचित् श्रुतोपलब्धिस्तत्तुल्यं तत्संख्यं यद्भाषणं तद्वोपलब्धिसममित्यर्थः / (जं तस्समकालं वेति) तया उपलब्ध्या समकालं वा यद्- भाषणं तदुपलब्धिसमम् / यथा मध्ये शूलं वेदयतस्तत्समकाल-मेवान्यस्मै तद्व्यथाकथनम, एवमन्तः सर्वामपि श्रुतोपलब्धिमनु-भवतस्तत्समकालमेव यद्भाषणं तद्वा उपलब्धिसममिति भावः। किं बहुना? सर्वथा सर्वस्मिन्नपि समासविधावयं तात्पर्यार्थः कः? इत्याह-श्रुतज्ञानी यावत् श्रुतबुद्ध्या समुपलभते. तावत्सर्वं न तरति न शक्नोति वक्तुं (जे इति) अलङ्कारमात्रे / इति गाथा-ऽर्थः / / 131 // (E) अथ कथं पुनरन्ये एतां गाथा मतिश्रुतभेदार्थे व्याख्यानयन्ति? इत्याहकेई बुद्धिदिटे, महसहिए भासओ सुयं तत्थ। किं सद्दो मइरुभयं, भावसुयं सव्वहा जुत्तं / / 132 / / इह केचनाप्याचार्या मतिश्रुतयोर्भेदं प्रतिपिपादविषयो'" बुद्धि-द्दिष्टे अत्थे, जे भासइ" (128) इत्यादि मूलगाथायां बुद्धिः श्रुत-बुद्धिरिति न व्याख्यानयन्ति, किं तु 'बुद्धिर्मतिरिति व्याचक्षते। ततश्च बुद्ध्या मत्या दृष्टेषु बहुवर्थेषु मध्ये काँश्चित् तदृष्टानान्मतिसहितान् भाषमाणस्य श्रुतं भवति / आह-ननु मतिज्ञान्येव मतिसहितो भवति, तत्कथमर्थानां मतिसहितत्वं विशेषणम् ? स-त्यम् , किंतु मूलगाथायां " मइसहियं " (128) इति वचनान्म-त्युपयोगे वर्तमानोऽत्र वक्ता गृह्यते, अतस्तस्य मत्युपयोगसहित-त्वादर्थानामप्युपचारस्ततस्तत्सहितत्वमुच्यते। तस्मान्मतिज्ञान-दृष्टानर्थान् तदुपयुक्तस्यैव भाषमाणस्य श्रुतं भवतीति तात्पर्यम् / अनुपयुक्तस्य तु वदतो द्रव्य श्रुतम् , पारिशेष्यादभाषमाणस्य पदा-र्थपर्यालोचनमात्ररूपं मतिज्ञानम् , इति मतिश्रुतयोर्भेदः / तदेवं कैश्चिन्मूलगाथायाः पूर्वार्द्ध व्याख्याते सूरिर्दूषणमाह-(तत्थ किं-सट्टो इत्यादि) तत्रं तैरेवं व्याख्याते भावश्रुतं सर्वथैवायुक्तं स्यात् सर्वथा तदभावः प्राप्नोतीत्यर्थः / तथाहि-किं भाष्यमाणः शब्दो भाव श्रुतम् , मतिर्वा, उभयं वा ? इति त्रयी गतिः। अस्य च त्रितयस्य मध्ये नैकमपि भावश्रुतंयुक्तमिति भावः। इति गाथाऽर्थः / / 132 // कथम् ? इत्याहसद्दो वा दव्वसुयं, मइराभिणिबोहियं न वा उभयं / जुत्तं उभयाभावे, भावसुयं कत्थं तं किं वा ? / / 133 / / मत्युपयुक्तस्य शब्दमुदीरयतो यस्तावत् शब्दः स द्रव्यश्रुतमेव, इति कथं भावश्रुतं स्यात् ? मतिस्त्वाभिनिबोधिकज्ञानम्। भवतु तर्हि मतिशब्दलक्षणमुभयं समुदित भावश्रुतम् , इत्या
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy