________________ णाण 1950 - अभिधानराजेन्द्रः भाग - 4 णाण ह-(न वा उभयं, जुतं ति) नैव यथोक्तमुभयं समुदितमपि भावश्रुतं युक्तम्, प्रत्येकावस्थायां तद्भावाभावात्, न हि प्रत्येक सिकता-कणेषु असत्तैलं समुदितावस्थायामपि भवतीति भावः। तदेवमुभय-स्य स्वतन्त्रस्याऽस्वतन्त्रस्य वा भावश्रुतत्वेनाभावे सति तद्भाव-श्रुतं क्व शब्दाऽऽदौ? किं वा तत् ? न किञ्चिदिति भावः / इति गाथाऽर्थः / / 133 // अथ भाषापरिणतिकाले मतेः किमप्याधिक्यमुपजायते, इति उभयस्य श्रुतत्वं न विरुध्यते, इत्याहभासापरिणइकाले, मईऐं किमहियमहऽण्णहत्तं वा। भासासंकप्पविसे-समेत्तओ वा सुयमजुत्तं / / 134 / / मतेरन्तर्विज्ञानविशेषस्य भाषापरिणतिकाले शब्दप्रारम्भवेलायां पूर्वावस्थानः किमधिकं रूपं संपद्यते? येनोभयावस्थायां सा ज्ञानान्तर स्यात् , श्रुतव्यपदेशः स्यादित्यर्थः। (अहऽण्णहत्तं वेति) अथवाअन्यथात्वं किंमतेर्भाषापरिणतिकाले निर्मूलत एव अन्य-थाभावः कः, येन श्रुतत्वं स्यात् ? न कश्चिदिति भावः / भाषाऽऽ-रम्भ एवात्र विशेषः, इति चेत् ? इत्याह-(भासेत्यादि) भाषायाः संकल्पः प्रारम्भः, स एव विशेषमात्रम् , मात्रशब्दो मनागपि विकार-भवननिषधार्थः, तस्माद् भाषासंकल्पविशेषमात्राद् मतेः श्रुतत्व-मयुक्तम् / एतदुक्तं भवतिअन्तर्विज्ञानस्य स्वयमविशिष्टस्य बाह्य-क्रियाऽऽरम्भादत्यन्तजातिभेदाभ्युपगमे धावनवल्गनकराऽऽस्फोटनाऽऽदिबाह्यक्रियाऽऽनन्त्यान्मतेरानन्त्यमेव स्यात्, स्वयं चाऽनुपजातविशेषाणां ज्ञानानां शब्दपरिणतिसन्निधानमात्रत एव ज्ञानान्तरत्वेऽतिप्रसङ्गः स्यात, अवध्यादिष्वपि तथाप्राप्तेरिति गाथाऽर्थः / / 134 / / तदेवं कैश्चिद्विहितं मूलगाथायाः पूर्वार्द्धव्याख्यानं दूषितम् . अथोत्तरार्द्धव्याख्यानमुपदर्थ्य दूषयितुमाहइयरत्थ वि मइनाणे, होज सुयं ति किह तं सुयं होइ? किह व सुयं होइ मई, सलक्खणाऽऽवरणभेयाओ॥ 135 / / "बुद्धिदिखे अत्थे" (128) इत्यत्र बुद्धिर्मतिज्ञान व्याख्या-तम् . तन्मतेन" इयरत्थ वि होज सुयं, उवलद्धिसमं जइ भणे-जा।" (128) इत्युत्तरार्द्धगतस्य इतरत्रशब्दस्य मतिज्ञानमेव वाच्यम् , शब्दसहितमतेर्द्रव्यभावश्रुतत्वेनोक्तत्वात् , तदितरस्य मतिज्ञानस्यैव तत्र संभवात् / ततश्च तद्व्याख्यानमनूध दूषयति-इतरत्रापि मतिज्ञाने श्रुतं भवेद्यधुपलब्धिसमं भाषेत, इति यत्तै-रुच्यते, तदयुक्तम् , यतो हन्त! यन्मतिज्ञानम् , तत्कथं श्रुतं भवि-तुमर्हति ? श्रुतं चेत् , कथं वा तन्मतिर्भवत् ? कुतः पुनरित्य न भवति? इत्याह-मतिश्रुतयोर्यत् स्वकीयं लक्षणम् , कर्म चाऽऽ-वारकम् , तयोर्भेदेनाऽऽगमे प्रतिपादनात्। यदि च यदेव मतिज्ञानं तदेव श्रुतम् यदेव च श्रुतं तदेव मतिज्ञानं स्यात् , तदा लक्षणाऽऽ-वरणभेदोऽपि तयोर्न स्यादिति गाथाऽर्थः / / 135 / / तदेवम्-"बुद्धिद्दिढे अत्थे,जे भासइ" (128) इत्यादि मूल-गाथा मतिश्रुतभेदप्रतिपादनपरतया व्याचिख्यासोः परस्य मति-भविश्रुतं न युज्यत इति प्रतिपादितम् / यदि तु द्रव्यश्रुतं साऽभ्यु-पगम्यते तदा न दोषः, इत्युपदर्शयन्नाहअहव मई दव्वसुय-त्तमेउ भावेण सा विरुज्झेजा। जो असुयक्खरलाभो, तं मइसहिओ पभासेजा।। 136 // | अथवा मतिर्द्रव्यश्रुतत्वमेतु आगच्छतु, न तत्र वयं निषेद्धारः, केवलमेतदेव निर्बन्धेनाभिदध्मो यदुत-भावेन भावश्रुतत्वेन सा मतिविरुध्येत दर्शितन्यायेन विरोधमनुभवेत् / इदमुक्तं भवति-" केई बुद्धिद्दिडे, मइसहिए भासओ सुयं " (132) इत्यत्र गाथार्द्ध योऽसौ श्रुतशब्दः स यदि द्रव्यश्रुतवाचित्वेन व्याख्यायते तदा विरोधो न भवति। कथम् ? इति चेत् / उच्यते-बुद्धिर्म तिस्तदृष्टान् मत्युपयोगसहितानर्थान् भावमाणस्य सा मतिः शब्दलक्षणस्य द्रव्यश्रुत-स्य कारणत्वाद्रव्यश्रुतम् , अभाषमाणस्य तु मतिज्ञानम् , इत्येवं मतिद्रव्यश्रुतयोर्भेदः प्रोक्तो भवति, न तु मतिश्रुतज्ञानयोः केवलं विरोधपरिहारमात्रमित्थमुपकल्पितं भवति। अत्राऽऽह कश्चित्-ननुयदि मत्युपयोगे वर्तमानो भाषेत कश्चित् तदा द्रव्यश्रुतकारणत्वाद्मतिः स्याद् द्रव्य श्रुतम् , एतच न भविष्यति, इत्याह-(जो असुये-त्यादि) योऽश्रुतानुसार्यक्षरलाभः, तं मत्युपयोगे वर्तमानो भाषेत वक्ता, नाऽव कश्चित् संदेहः, यस्तु श्रुतानुसार्यक्षरलाभस्ते श्रुतोप-योगे एव वर्तमानो भाषेत, अतो न तच्छब्दस्य मतिः कारणम् , श्रुतपूर्वत्वात्तस्येति भावः। इदमुक्तं भवति-यः परोपदेशार्हद्वचन-लक्षणं श्रुतमनुश्रित्याक्षरलाभोऽन्तः स्फुरतितं श्रुतोपयोगे एव वर्त-मानो भाषेत, यस्त्वश्रुतानुसारी स्वमत्यैव पर्यालोचित ईहाऽपायेषु स्फुरत्यक्षरलाभः, तंयदा मत्युपयोगसहित एव भाषते, तदा तस्य शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वाद् भवत्येव मतिर्द्रव्यश्रुतम्। इति गाथाऽर्थः // 136 // अथारिमन्नेव मतेर्द्रव्यश्रुतत्वपक्षे" इयरत्थ विहोज सुयं" (128) इत्यादौ मूलगाथाया उत्तरार्द्ध योऽर्थः संपद्यते, तमाचार्यः प्रदर्शयन्नाहइयरम्मि वि मइनाणे, होञ्ज तयं तस्समं जइ भणेजा। न य तरइ तत्तियं सो, जमणेगगुणं तयं तत्तो / / 137 // भाषमाणस्य मतिद्रव्यश्रुतमित्युक्तम् , अतोऽभाषमाणावस्था-भावि मतिज्ञानमितरत्र शब्दवाच्यं भवति। ततश्चेतरत्राप्यभाष-माणावस्थाभाविनि मतिज्ञाने भवेत् तद् द्रव्यश्रुतं यदितत्सम मतिज्ञानोपलब्धिसमं भणेत् , यावद् मतिज्ञानेनोपलभतेतावत्सर्व वदेदित्यर्थः एतच नास्ति। कुतः? इत्याह-(न च) नैव तरति शक्नोति स यावन्मतिज्ञानेनोपलभते तावद् वक्तुम्। कुतः? इत्याह-यद्यस्मात् ततो वक्तुं शक्यातत्सर्वमपि मतिज्ञानोपलब्धमनेकगुणमनन्तगुणमिति गाथाऽर्थः / / 137 / / अत्र विनेया प्राऽऽहकह मइसुओवलद्धा, तीरंति न भासिउं बहुत्ताओ। सव्वेण जीविएण वि, भासइजमणंतभागं सो।। 138 // नन्वनन्तरगाथायां मत्युपलब्धाः सर्वेऽपि वक्तुं न शक्यन्त इत्युक्तम्, पूर्व तु श्रुतोपलब्धा अपि सर्वेऽभिधातुं न पार्यन्त इत्यभिहि-तम् : तदेतत्कथम् , यन्मतिश्रुतोपलब्धा भावा न तीर्यन्ते भाषि-तुम् ? अत्राऽऽह-बहुत्वात्-प्राचुर्यात्। तत्रैतत् स्यात्-कुतः पुनरे-तावद्बहुत्वं तेषां निश्चितम् ? इत्याह-यद्यस्मात् कारणात् सर्वे-णाऽप्यायुषा सः मतिश्रुतज्ञानी समुपलब्धानामर्थानामनन्ततम-मेव भाग भाषत इत्यागमे निर्णीतम् , तरमाद् बहुत्वावगमः। इति गाथाऽर्थः / / 138 / /