SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ णाण 1948 - अभिधानराजेन्द्रः भाग - 4 णाण ज्ञानमित्येवं वा श्रोत्रावग्रहाऽऽदयो भवन्ति मतिभेदाः / तथा च सति मतेरष्टाविंशतिभेदत्वंन परिहीयते. ततश्च"न नाम सोउग्गहादयो बुद्धी' (118) इत्यादि परप्रेर्य प्रतिक्षिप्तमेवेति गाथार्थः / / 123 / / मूलगाथाया व्याख्यातशेषं व्याख्यानयन्नाहपत्ताइगयं सुयका-रणं ति सद्दो व्व तेण दव्वसुयं / भावसुयमक्खराणं, लाभो सेसं मइन्नाणं / / 124 // मूलगाथायां' श्रोत्रावग्रहाऽऽदयः,शेषकं चमतिज्ञानम् ' इत्युक्ते शेषस्य सर्वस्यापि उत्सर्गतो मतित्वे प्राप्ते, अपवादः-"मोत्तूणं दव्वसुयं ति" (117) इत्युक्तम् / तत्र किं तद् द्रव्यश्रुतं यदिह वय॑ते ? इत्याह भाष्यकार:-पत्राऽऽदिगतं पुस्तकपत्राऽऽदिलिखितम् , तेन कारणेन द्रव्यश्रुतम् ; येन किम् ? इत्याह-श्रुतकारण-मिति। किंचद् ? इत्याहशब्दवदिति यथा भावश्रुतकारणत्वात् शब्दो द्रव्य श्रुतम्, तथा-पुस्तकपत्राऽऽदिन्यस्तमपि तत्कारणत्वाद् द्रव्यश्रुतमित्यर्थः / तन्मुक्त्वा शेषचक्षुरादीन्द्रियोपलब्धिरूपं मतिज्ञानम्। (भावस्सुयमक्खराणमित्यादि) न केवल श्रोत्रेन्द्रियो-पलब्धिः श्रुतम् , यश्च श्रुतानुसारित्वाद् भावश्रुतं भावश्रुतरूपः, शेषेषु चक्षुरादीन्द्रियेष्वक्षराणां लाभः परोपदेशार्हद्वचनानुसारिण्य-क्षरोपलब्धिरित्यर्थः, सोऽपि श्रुतम् इत्येवं मूलगाथायां संबन्धः कार्यइति हृदयम्, सवप्रागवृत्तौ कृतएवातस्माचाक्षरलाभाचक्षुरादीन्द्रियेषु यच्छेषमश्रुतानुसार्यवग्रहे हाऽऽद्युपल-ब्धिरूपम् , तन्मतिज्ञानम् , इत्येवमिहाप्येतत्संबध्यते। इति गाथाऽर्थः।। 124 // अथ परः पूर्वापरविरोधमुद्भावयन्नाहजइ सुयमक्खरलाभो, न नाम सोओवलतिरेव सुयं / सोओवलद्धिरेव-क्खराइँ सुइसंभवाओ त्ति।। 125 / / इयमपि प्राग मूलगाथावृत्तौ दर्शिताथैव, तथाऽपि विस्मरणशीलानामनुग्रहार्थ किञ्चिद्व्याख्यायते-ननु यद्युक्तन्यायेन शेषे-न्द्रियाक्षरलाभोऽपि श्रुतम् , तर्हि श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम् , इति यदवधारणं कृतम् . तदसङ्गतंप्राप्नोति, शेषेन्द्रियाक्षरलाभ-स्यापि श्रुतत्वात्। अत्रोत्तरमाह"सोओवलद्धिरेवेत्यादि।" यद्यसौ शेषेन्द्रियाक्षरलाभोऽपि श्रोत्रेन्द्रियोपलब्धिर्न स्यात् , तदा स्यादेवावधारणमसङ्गतम् , तच नास्ति, यतः शेषेन्द्रियद्वाराऽऽयातज्ञानेऽपि प्रतिभासमानान्यक्षराणि श्रोत्रेन्द्रियोपलब्धिरेव / अहो ! महदाश्चर्यम् , यतो यदि शेषेन्द्रियाक्षरलाभः, कथं श्रोत्रोपलब्धिः?, साचेत्, कथं शेषेन्द्रियाक्षरलाभः? इत्याशङ्कयाऽऽह(सुइसंभवाओ त्ति) शेषेन्द्रियज्ञानप्रतिभासभाज्यक्षराणि श्रोत्रोपलब्धिरेव। कुतः? इत्याह-तेषां श्रुतेः श्रवणस्य संभवात्। इद-मुक्त भवति-अभिलापरूपाणि हि एतानि अक्षराणि, अभिलापश्च तस्मिन् वा विवक्षिते काले, अन्यदा वा; तत्र वा विवक्षिते पुरुष, अन्यत्र वा श्रवणयोग्यत्वात् श्रोत्रेणोपलभ्यते / अतः श्रोत्रोपलम्भ-योग्यत्वेन श्रुतिसंभवात सर्वोऽप्यभिलापः श्रोत्रोपलब्धिरेव; इति न किश्चिदवधारण विरुध्यते। इति गाथाऽर्थः / / 125 / / किं सर्वोऽपि शेषेन्द्रियाक्षरलाभः श्रुतम् , आहोस्वित्क चिदेव ? इत्याहसो वि हु सुयऽक्खराणं, जो लाभो तं सुयं मई सेसा। जइ वा अणक्खर चिय, सा सव्वा न प्पवत्तेज्जा / / 126 // सोऽपि च शेषेन्द्रियाक्षरलाभः स एव श्रुतम् , यः किम् ? इत्याह-यः श्रुताक्षराणा लाभः, न सर्वः, यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलाभः, स एव श्रुतम् , न त्वश्रुतानुसारी, ईहाऽपायाऽऽदिषु परिस्फुरदक्षरलाभमात्रमित्यर्थः / (जइ वत्ति) यदि पुनरक्षरलाभस्य सर्वस्याऽपि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्येत तदा सा यथाऽवग्रहेहाऽपायधारणरूपा सिद्धान्तेप्रोक्ता, तथा सर्वाऽपि न प्रवर्तेत, सर्वाऽपि मतित्वं नानुभवेदित्यर्थः, किं त्वनक्षरत्वादवग्रहमात्रमेव मतिः स्यात् , न त्वीहाऽऽदयः, तेषामक्षरलाभाऽऽत्मकत्वात्। तस्मात् श्रुतानुसार्यवा-क्षरलाभः श्रुतम् , शेष तु मतिज्ञानमिति गाथाऽर्थः // 126 // तदेवं व्याख्याता भाष्यकृताऽपि " सोइंदिओवलद्धी ' (117) इत्यादिगाथा, साम्प्रतं त्वस्यां यः श्रुतविषयः पर्यवसितोऽर्थः प्रोक्तो भवति, तं संपिण्ड्योपदर्शयतिदव्वसुयं भावसुयं, उभयं वा किं कहं व होज ति। को वा भावसुयं सो, दव्वाइसुयं परिणमेज्जा ? / / 127 / / इह " सोइदियोवलद्धी" (117) इत्येतस्यां गाथायां " मोत्तूणं दव्वसुयं " (117) इत्यनेन पुस्तकाऽऽदिन्यस्तं द्रव्यश्रुतमुक्तम् , अक्षरलाभवचनात्तु भावश्रुतम् , श्रोत्रेन्द्रियोपलब्धिवचनेन तु शब्दः, तद् विज्ञानं चेत्युभयश्रुतमुक्तम् / तत्रानन्तरवक्ष्यमाणपूर्वगतगाथायामेतच्चिन्त्यते-किं तद् द्रव्याऽऽदिश्रुतम् ? कथं वा तद्भवति ? को वा कियान वा इत्यर्थः, भाव श्रुतस्यांशो भागो द्रव्यश्रुतं द्रव्यश्रुत-रूपतया, आदिशब्दादुभयश्रुतरूपतया वा परिणमेदिति गाथाऽ-र्थः / / 127 / / का पुनरसौ पूर्वगतगाथा ? इत्याहबुद्धिद्दिढे अत्थे, जे भासइ तं सुयं मईसहियं / इयरत्थ वि होज सुयं, उवलब्धिसमं जइ भणेज्जा / / 128 // मतिश्रुतयोर्भेदोऽत्र विचार्यत्वेन प्रस्तुतः, इत्यतः केचिदेनां गाथा तदनुयायित्वेन व्याख्यानयन्ति; भाष्यकारस्तुतेना- पि प्रकारेण पश्चाद् व्याख्यास्यति, साम्प्रतं प्रस्तावानुयायित्वेन तावद् व्याख्यायते-तत्र बुद्धिः श्रुतरूपेह गृह्यते, तया दृष्टा गृहीताः पर्यालोचिता बुद्धिदृष्टा अभिलाप्या अर्थाः पदार्थाः, ते च बहवः सन्ति, अतस्तन्मध्याद वक्ता यान् भाषते वक्ति तद् श्रुतम् / कथं यान् भाषते ? इत्याह-मतिः श्रुतोपयोगरूपात-त्सहितं यथा भवति / एवं यान् भावान् भाषते तत् श्रुतमुभय- रूपमित्यर्थः / इदमुक्तं भवति-श्रुताऽऽत्मकबुद्रुपलब्धानर्थान् तदुपयुक्तस्यैव वदतो द्रव्यश्रुतभावश्रुतरूपमुभयश्रुतं भ- वति, तत् श्रुतमित्युक्तेऽपि सामर्थ्यादुभयश्रुतं लभ्यते " जे भा-सइ " इत्यनेन शब्दरूपस्य द्रव्यश्रुतस्य सूचितत्वात् ' बुद्धिदिढे अत्थे " इत्यनेन " मइसहिय" इत्यनेन च भावश्रुतस्याऽभिधित्सितत्वादिति / तदेतावता ''सोइंदिओवलद्धी (117) इत्यादिगाथोक्तस्य उभयश्रुतस्य स्वरूप-मुक्तम्; यान् पुनः प्रथमं श्रुतबुद्ध्या दृष्टामपि पश्चादभ्यासबलादेवानुपयुक्तो वक्ति, तद् द्रव्य श्रुतम्, इत्येतावद्गाथायामनुक्तमपि सामर्थ्याद् गम्यते; तथा यान् श्रुतबुद्ध्या पश्यत्येव, नतुमनसि स्फुरतोऽपि भाषतेतद्भाव श्रुतम् , इतीदमपिस्व
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy