SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ णाण 1947- अभिधानराजेन्द्रः भाग - 4 णाण इति कोमलाऽऽमन्त्रणे, अहो ! श्रोत्रेन्द्रियद्वारोत्पन्ना अवग्रहेहाऽऽ-दयो बुद्धिर्मतिज्ञानं न प्राप्नुवन्ति, तदुपलब्धेः सर्वस्याऽपि श्रुत-त्वेनावधारणात्।मा भूव॑स्ते मतिज्ञानम् , किं नः सूयते ? इति चे-त्, नैवम्। तथा सति तस्य वक्ष्यमाणाष्टाविंशतिभेदभिन्नत्वहानेः / अथैतद्दोषभयाद् बुद्धिस्तेऽभ्युपगम्यन्ते, ततस्तर्हि न ते श्रुतम् , तथा च सति-" सोइंदिओवलद्धी, होइ सुयं ' (117) इत्यसङ्गतं प्राप्नोति / अथोभयदोषपरिहारार्थम् ,' उभयं बुद्धिश्च श्रुतं च ते इष्यन्ते, तर्हि एवं सत्येकस्थानमीलितक्षीरनीरयोरिव संकरः, संकीर्णता मतिश्रुतयोराप्नोति, न पृथग्भावः / अथवा-'यदेव मतिः, तदेव च श्रुतं, यदेव च श्रुतं तदेव मतिः, इत्येवमभेदोऽप्यनयोः स्याद्, इति स्वयमेव द्रष्टव्यम्। भेदश्चेह तयोः प्रतिपादयितुं प्रस्तुतः, तदेतत् शान्तिकरणप्रवृत्तस्य वेतालोत्थानमिति प्रेरकगाथार्थः / / 118 // तदेतत्प्रेर्य केचित यथा परिहरन्ति, तथा तावद्दर्शयन्नाहकेई वेंतस्स सुयं, सद्दो सुणओ मइत्ति तं न भवे / जं सव्वो चिय सद्दो, दव्वसुयं तस्स को भेदो ? || 116 // " सोइंदियोवलद्धी" (117) इत्यत्र श्रोत्रेन्द्रियेणोपलब्धिर्य-स्येति केवलबहुव्रीह्याश्रयणात् श्रोत्रेन्द्रियोपलब्धिः शब्द एवेति केचिन्मन्यन्ते, स च प्रज्ञापकस्य बुवतः श्रूयत इति कृत्वा श्रुतम्, शृण्वतस्तु श्रोतुरवग्रहहापायाऽऽदिरूपेण मन्यते ज्ञायत इति मतिः / एवं च सत्युभयमुपपन्नं भवति, श्रोत्रगतावग्रहाऽऽदीनां च श्रुत-त्वं परिहृत भवति / आचार्यः प्राऽऽह-' तं न भवेति' तदेतत् केषाश्चिद् मतं युक्तं न भवति। कुतः ? इत्याह-यद्यस्मात् कारणात युवतः श्रोतुश्च संबन्धी सर्व एव शब्दो द्रव्यश्रुतम् द्रव्यश्रुतमात्रत्वेन च सर्वत्र तुल्यस्य सतस्तस्य शब्दस्य को भेदः को विशेषः ? येनासौ वक्तरि श्रुतम् , श्रोतरितु मतिः स्यात् / यदपि श्रूयत इति श्रुतम् , मन्यते इति मतिः / उच्यते-तत्रापि धात्वन्तरमात्रकृत एव विशेषः, शब्दस्तुस एव श्रूयते स एव मन्यते, इति न क्वचिदुभयं दृश्यते / इति गाथाऽर्थः // 116 / / दूषणान्तरमप्याहकिं वा णाणेऽहिगए, सद्देणं जइय सहविन्नाणं / गहियं तो को भेदो, भणओ सुणओ व जो तस्स? / / 120 // | यदि वा ज्ञाने ज्ञानविचारे अधिकृते किं पुद्गलसंघातरूपेण शब्देन गृहीतेन कार्यम् , अप्रस्तुतत्वात् ? अथ श्रोत्रेन्द्रियोपलब्धिशब्देन शब्दविज्ञानं गृह्यत इति / अत्राऽऽह-(जइ येत्यादि) यदि च श्रोत्रेन्द्रियोपलब्धेः शब्दस्य कारणभूतत्वात् कार्यभूतत्वाचोपचारतो वक्तृगतं श्रोतृगतं च शब्दविज्ञान श्रोत्रेन्द्रियोपलब्धिशब्दवाच्यत्वेन गृहीतम् , तच ब्रुवतः श्रुतं, शृण्वतस्तुमतिरित्युच्यते। हन्त!तत-स्तर्हि तस्य विज्ञानस्य ब्रुवतः शृण्वतो वा यो भेदो विशेषः, स कः ?इति कथ्यता, येन तद्वक्तुः श्रुतं, श्रोतुश्च मतिः स्यात् ? इति नास्त्यसौ विशेषः, शब्दज्ञानत्वाविशेषादिति भावः। किं च-एवं सति श्रोतुरपि कदाचित् श्रुत्यनन्तरमेव ब्रुवतः सैव शब्दजनिता तन्मतिरवशिष्टा श्रुतं प्रसजति, "वेतस्स, सुय' (११६)"सु-णओ मइ"(११६) इत्यभ्युपगमात्; ततश्च तदेवैकत्व मतिश्रुतयोः, इति कोऽतिशयः कृतः स्याद् ? इति। किंच-वदि-शृण्वतः सर्वदैव मतिरित्ययमेकान्तः, तर्हि यदेतद् व्यक्तं सर्वत्रोच्यते-आ- I चार्यपारम्पर्येणेदं श्रुतमायातमिति, तदसत् प्राप्नोति, तीर्थकरा-दर्वाक् सर्वेषामपि श्रोतृत्वेन मतिज्ञानस्यैवोपपत्तेः / अथ नैवम् , तहोकत्वं मतिश्रुतयोरिति गाथाऽर्थः / / 120 // तदेवम्-" केई वेतस्स सुयं "(190) इत्यादि दूषयित्वा प्रस्तुतप्रकरणोपसंहारव्याजेन परमेव शिक्षयन्नाहभणओ सुणओ व सुयं, तं जमिह सुयाणुसारिविन्नाणं / दोण्हं पि सुयाईयं, जं विन्नाणं तयं बुद्धी॥ 121 / / तस्माद्ब्रुवतः श्रुतम् ,शृण्वतस्तुमतिः,इत्येतन्नयुक्तम् , उक्त-दूषणाद्, अनागमिकत्वाच्च। किंतर्हि युक्तम् ? इति चेत्। उच्यते-भणतः शृण्वतो वा यत्किमपि श्रुतानुसारि परोपदेशाहद्वचनानुसारि विज्ञानम् , तदिह सर्व श्रुतम्, यत्पुनर्द्वयोरपि वक्तृश्रोत्रोः श्रुतातीत हृषीकमनोमात्रनिमित्तमवग्रहाऽऽदिरूपं विज्ञानम् , तत्सर्वं बुद्धि-मतिज्ञानमित्यर्थः / तदेव द्वयोरपि वक्तृश्रोत्रोः प्रत्येक मतिश्रुते यथो-क्तस्वरूपे अभ्युपगन्तव्ये, न पुनरेकैकस्यैकैकमिति भावः / इति गाथाऽर्थः 11 121 // भवत्वेवम् , किंतु-" सोओवलद्धिजइ सुयं, न नाम सोउग्गहादओ बुद्धी" (118) इत्यादिना यः परेण पूर्व-पक्षोऽभ्यधायि, तस्य तर्हि कः परिहारः? इत्याशङ्कय भाष्यकार एवेदानीम् " सोइंदिओवलद्धी, होइ सुयं" (117) इत्यादिमूलगा थां विवृण्वन्नाहसोइंदियोवलद्धी, चेव सुयं न उतई सुयं चेव। सोइंदिओवलद्धी, विकाइ जम्हा मइन्नाणं / / 122 / / इह श्रोत्रेन्द्रियोपलब्धिशब्दस्य तृतीयाषष्ठीसमासः, बहुव्रीहिश्च; आद्यसमासद्वयेन भावश्रुतम् , बहुव्रीहिणातुभावश्रुतानुपयुक्तस्यवदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु ब्रुवत उभयश्रुतं गृहीतमिति प्राग्वृत्तौ दर्शितं सर्वं द्रष्टव्यम् / अवधारणविधिमपि प्रागुपदर्शितमाह-श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम् , इत्येवमवधारणीयम्। ( न उ तइ ति) न पुनः सा श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति। कुतो नैवमवधा-यंते ? इत्याह-यस्मात् श्रोत्रेन्द्रियोपलब्धिरपि काचित् श्रुतानुसा-रिणी अवग्रहेहाऽऽदिमात्ररूपा मतिज्ञानमेव, अतः ' श्रोत्रेन्द्रियोप-लब्धिः श्रुतमेव ' इति नावधार्यत इतिभावः। एवं च सति" न नाम सोउग्गहादओ बुद्धी "(118) इत्यादि परेण यत्प्रेरितम् , तत्परि-हृतं भवति, श्रोत्रावग्रहाऽऽदीनामपि बुद्धिरूपतायाः समर्थितत्वा-दिति गाथाऽर्थः // 122 / / तदेवमवधारणविधिना श्रोत्रावग्रहाऽऽदीना मतित्वं समर्थितं, यदि वा" सेसयं तुमइनाणं" (117) इत्यत्र योऽसौ तुशब्दः, ततोऽपि तेषां तत्स मर्थ्यते इति दर्शयन्नाहतुसमुचयवयणाओ, व काइ सोइंदिओवलद्धी वि। मइरेवं सइ सोउ-ग्गहादओ हुंति मइभेया / / 123 / / " से सयं तु मइनाणं ' (117) इत्यत्र यो ऽसौ तुशब्दः समुचयवचनः, ततश्च कि मुक्तं भवति ?- शेषकं मतिज्ञानम् , काचिदनपेक्षितपरोपदेशाहद्वचना श्रोत्रेन्द्रियो पलब्धिश्च मति
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy