SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ णाण 1945 - अभिधानराजेन्द्रः भाग - 4 णाण भावसुयस्साभावो, पावइ तेसिंनय विसेसो॥१११॥ (केइ त्ति) मतिपूर्व श्रुतमित्यत्राऽऽगमवचने केचिदेवं व्याचक्षते। किम् ? | इत्याह-द्रव्यश्रुतं शब्दरूपं मतिपूर्वम, न भावश्रुतम् / तत्र युक्तिमाह- / (भासइ जं नाविचिंतिय ति) यद् यस्मात् कारणादविचि-न्तितम् अविवक्षितं न कोऽपि भाषते न शब्दमुदीरयति, यच्च विव-क्षाज्ञानं तत् किल मतिरिति तेषामभिप्रायः, ततश्च मतिपूर्व द्रव्य-श्रुतं सिद्धं भवति। एतस्मिन् व्याख्याने दोषमाह-तेषामेवं व्याख्या-तृणां भावश्रुतस्य सर्वथैवाभावः प्राप्नोति, यतो वक्तृगत विवक्षोप-योगज्ञानं तैरेव मतित्वेन व्याख्यातम् , अन्यथा शब्दस्य मतिपूर्य-कत्वाभावात् , श्रोतुरपि शब्द श्रुत्वा प्रथमं यदवग्रहाऽऽदिज्ञानं तत्तावन्मतिरेव, ऊर्ध्वमपि च तस्या भावश्रुतं नाभ्यपगन्तव्यम्, मति-पूर्वं भावभुतमित्यस्मत्पक्षवर्तित्वप्रसङ्गात् / यदशृण्वतोऽभाषमाणस्य चानुप्रेक्षाऽऽदिष्वन्तर्जल्पारूपितं ज्ञानं विपरिवर्तते तद्भाव-श्रुतं भविष्यतीति चेत्। तदयुक्तम् , यतस्तदपि यद्यवग्रहाऽऽद्यात्मकमतिपूर्वं तदा भावश्रुतं नेष्टव्यम् , अस्मत्पक्षाभ्युपगमप्राप्तेरेव। अथ मतिपूर्व तन्नेष्यते, तथाऽपि तत्सविकल्पकत्वेन मतिरेव, शब्द-विवक्षाज्ञानवत् ; शब्दविवक्षाज्ञानेऽपि हि शब्दविकल्पोऽस्ति, तमन्तरेण शब्दाभिधानासंभवात्। न चाऽसौ भावश्रुतत्वेनेष्टः; तस्माद् मतेरनन्तरं सर्वत्र शब्दमात्रस्यैवोत्थानम्, न भावश्रुतस्य: अस्मत्पक्षाङ्गीकरणप्रसङ्गात्। विकल्पज्ञानानि च विवक्षाज्ञानवन्मतित्वेनोक्तान्येव, इति सर्वत्र भावश्रुताभावः प्रसजति। भवतु स तर्हि, इति चेत्। इत्याह-(नय विसेसो त्ति) भावश्रुताभावे मति-श्रुतयोर्विशेषो भेदश्चिन्तयितव्यो न स्यात्, स हि द्वयोरेवोपपद्यते। यदा च मतिरेवाऽस्ति, न भावश्रुतम् , तदा तस्याः केन सह भेदचिन्ता युज्येत? इति भावः / द्रव्यश्रुतरूपेण शब्देन सह मतेर्भेदचिन्ता भविष्यतीति चेत् / तदयुक्तम् / ज्ञानपञ्चकविचारस्य इहा-धिकृतत्वात् , तदधिकारे च शब्देन सह भेदचिन्ताया अप्रस्तुतत्वात्। चिन्त्यता वा मतिपूर्व द्रव्यश्रुतम् इत्येवंमतेः शब्देनापि सह विशेषः, किंतु सोऽपि न घटते। इति गाथाऽर्थः / / 111 // कुतो नघटते ? इत्याहदव्वसुयं बुद्धीओ, सा वि तओ जमविसेसओ तम्हा। भावसुयं मइपुव्वं, दव्वसुयं लक्खणं तस्स // 112 // यदिति यस्मात् कारणाद् यथा द्रव्यश्रुतं शब्दो बुद्धेर्मतेः सकाशाद् भवतीति भवद्भिः प्रतिपाद्यते, तथा हन्त ! साऽपि बुद्धिस्ततः शब्दात् श्रोतुर्भवत्येव / ततश्च ''मइपुव्वं सुयमुत्तं, न मई सुयपुट्विया विसेसोऽयं / " (105) इति मतिश्रुतयोर्भेदप्रतिपादनार्थ योऽसौ विशेषोऽत्र प्रतिपादयितुं प्रस्तुतः, स द्वयोरप्यन्योन्यं पूर्वभावितायाः समानत्वान्न प्राप्नोति, इत्यनन्तरगाथापर्यन्तावयवेन संबन्धः / तस्मात्तेषां मतेऽविशेषतः कारणाद्यदस्माभिः प्राक् समर्थितम्भावश्रुतं मतिपूर्वमिति, तदेव युक्तियुक्तम्।शब्दलक्षणं तुद्रव्यश्रुतंतस्य भावश्रुतस्य लक्ष्यते गम्यतेऽनेनेति लक्षणं लिङ्गमिति गाथाऽर्थः / / 112 / / कुतस्तत्तस्य लक्षणम् ? इत्याहसुयविन्नाणप्पभवं, दव्वसुयमियं जओ विचिंतेउं। पुव्वं पच्छा भासइ, लक्खिज्जइ तेण भावसुयं / / 113 / / श्रुतविज्ञानप्रभवं सविकल्पकविवक्षाज्ञानकार्य शब्दरूपं द्रव्यश्रुतमिदं यत्परैर्मतिपूर्वत्वेन इष्यते, कथं पुनस्तद्भावश्रुतप्रभवं विज्ञायते ? इत्याह-यतः सर्वोऽपि पूर्व विचिन्त्य वक्तव्यमर्थं चित्ते विकल्प्य पश्चात् शब्द भाषते, यच तचिन्ताज्ञानं तत् श्रुतानुसारित्वाद् भावश्रुतम् इति भावश्रुतप्रभवता द्रव्यश्रुतस्य विज्ञायते; यच यस्मात्प्रभवति तत्तस्य कार्यम्, यतस्तेन कार्यभूतेन द्रव्यश्रुतेनस्वकारणभूतंभावश्रुतंलक्ष्यतइतितत्तस्य लक्षणमुक्तम् . अस्तिभावश्रुतमत्र, तत्कार्यस्य शब्दस्य श्रवणाद्, इत्येवंतेन भावश्रुतस्य लक्ष्यमाणत्वादिति / द्रव्यश्रुतस्य च भाव श्रुतलक्षणता मतान्तरवादिनां विपर्यस्तत्यप्रतिपादनार्थमुपदर्शिता, भावश्रुतप्रभवस्याऽपि शब्दस्य तैर्मतिपूर्वत्वप्रतिपादनादिति गाथाऽर्थः // 113 // अथ यथा मतिश्रुतयोः कार्यकारणभावद् भेदः, तथा तयोः प्रत्येक स्वस्थानेऽपि सम्यक्त्वमिथ्यात्वपरिग्रहाद् भेद एवेत्यनुषगतो दर्शयितु नन्द्यध्ययनाऽऽगमे मतिश्रुतयोः कार्यकारणभावेन भेदप्रतिपादनानन्तरमिदं सूत्रमस्ति। तद्यथा" अविसेलिया मई-मइनाणं च, मइअन्नाणं च / विसेसिया मईसम्मदिद्विस्स मई मइनाणं, मिच्छादिट्ठिरस मई मइअनाणं / एवं अविसेसिय सुर्य सुयनाणं, सुयअन्नाणं च, विसेसियं सुयं-सम्मदि-विस्स सुयं सुयनाणं, मिच्छादिहिस्स सुयं सुयअन्नाणं! " सम्यग्दृष्टिमिथ्यादृष्टिसंबन्धतोऽविशेषितेन मतिशब्देन मतिज्ञानं, मत्यज्ञानं च द्वे अपि प्रतिपाद्येते, सम्यग्दृष्टित्वविशेषितेन तुमति-ध्वनिना मतिज्ञानमेवोच्यते, मिथ्यादृष्टित्वविशेषितेन तु तेनैव मत्यज्ञानमेवाभिधीयते, एवं श्रुतेऽपि वाच्यमिति सूत्रभावार्थः। तदेतदानुषङ्गिक सूत्रोक्तमनुवर्तमानो भाष्यका रोऽप्याहअविसेसिया मइ चिय, सम्मद्दिहिस्स सा मइन्नाणं। मइअण्णाणं मिच्छा-दिहिस्स सुर्य पि एमेव / / 114 / / सम्यग्दृष्टिमिथ्यादृष्टिभावेनाविशेषिता मतिर्मतिरेवोच्यते, नतुमतिज्ञानं मत्यज्ञानं चेति निर्धाय व्यपदिश्यते, सामान्यरूपायां तस्यां ज्ञानाज्ञानविशेषयोर्द्वयोरप्यन्तर्भावाद् / यदा तु सम्यग्दृष्टिरेव संबन्धिनी सा मतिबिंवक्ष्यते, तदा मतिज्ञानमिति निर्दिश्यते / यदा तु मिथ्यादृष्टिसंबन्धिनी तदा मत्यज्ञानम्। एवं श्रुतमप्यविशेषितं श्रुतमेव, विशेषितं तु सम्यग्दृष्टेः श्रुतज्ञानम् , मिथ्यादृष्टस्तुश्रुता-ज्ञानम्, सम्यग्दृष्टिसंबन्धिनो बोधस्य सर्वस्यापि ज्ञानत्वात् ; मिथ्यादृष्टिसत्कस्य त्वज्ञानत्वादिति गाथाऽर्थः // 114 // ननु यथा मतिश्रुताभ्यां सम्यग्दृष्टिर्घटाऽऽदिकं जानीते, व्यवहरति च तथा मिथ्यादृष्टिरपि, तत्किमति तस्य सत्कं सर्वमप्यज्ञान-मुच्यते ? इत्याशङ्कयाऽऽहसदसदविसेसणाओ, भवहेउजदिच्छिओवलंभाओ। नाणफलाभावाओ, मिच्छद्दिहिस्स अन्नाणं / / 115 / / सवासच सदसती, तयोरविशेषणमविशेषतः, तस्माद्धेतो:,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy