________________ णाण 1944 - अमिधानराजेन्द्रः भाग - 4 णाण - ते कुतः ? इत्याह-पूरणेत्यादि' पृ' धातुः पालनपूरणयोरर्थरयोः पठ्यते, तस्य च पिपर्तीति पूर्वमिति निपात्यते। ततश्च शतस्य पूरणात् पालनाच मतिर्यस्मात्पूर्वभव युज्यते, तस्मान्मतिपूर्वमेव श्रुतमुक्तम्, पूर्वशब्दश्वायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात्." सम्यग्ज्ञानपूर्विका पुरुषार्थसिद्धिः " इत्यादौ तथादर्शनाच। ततश्च मतिपूर्व श्रुतमिति कोऽर्थः ? श्रुतज्ञानं कार्यम्, मतिस्तु तत्कारणम् , कार्यकारणयोश्व मृत्पिण्डघटयोरिव कथ-ञ्चिद् भेदः प्रतीत एवेति भावः / इति गाथाऽर्थः / / 105 // पूरणाऽऽदिधर्मानव मतेवियन्नाहपूरिजइ पाविजइ, दिज्जइ वा जं मईए नाऽमइणा। पालिज्जइय मईए, गहियं इहरा पणस्सेज्जा / / 106 / / अनुप्रेक्षाऽऽदिकाले अभ्यूह्य श्रुतपर्यायवर्द्धनेन मत्यैव श्रुतज्ञानं पूर्यते पोष्यते पुष्टिं नीयत इत्यर्थः, तथा मत्यैवान्यतः तत् प्राप्यते गृह्यते, तथा मत्यैव तदन्यस्मै दीयते व्याख्यायते, नामत्या न मति-मन्तरेणेत्यर्थः, प्राकृतत्वात्पुंल्लिङ्गनिर्देशः। तथा गृहीतं सदेत-त्परावर्तनचिन्तनद्वारेण मत्यैव पाल्यते स्थिरीक्रियते, इतरथा मत्यभावे तद् गृहीतमपि प्रणश्येदेवेत्यर्थः / श्रुतज्ञानस्यैतं पूरणाऽऽदयोऽर्था विशिष्टाभ्यूहधारणाऽऽदीनन्तरेण कर्तुनशक्यन्ते, अभ्यूहाऽऽदयश्चमतिज्ञानमेव, इति सर्वथा श्रुतस्य मतिरेव कारणम् , श्रुतं तु कार्यम् , कार्यकारणभावश्च भेदे सत्येवोपपद्यते, अभेदे पटतत्स्वरूपयोरिव तदनुपपत्तेः / तस्मात् कारणकार्यरूपत्वाद् मतिश्रुतयोर्भेदः / इति गाथाऽर्थः / / 106 / / अथ श्रुतस्य मतिपूर्वतां विघटयन्नाहणाणाणऽण्णाणाणि य, समकालाई जओ मइसुयाइं। तो न सयं मइपुव्वं, मइणाणे वा सुयन्नाणं / / 107 / / इत मतिश्रुते वक्ष्यमाणयुक्त्या द्विविधे-सम्यग्दृष्टे िनस्वरूपे, मिथ्यादृष्टस्त्वज्ञानस्वभावे। तत्रज्ञाने अज्ञाने चैते प्रत्येक समकाल-मेव भवतः, तत्क्षयोपशमलाभस्यापगमे युगपदेव निर्देशात् / यत-चैते ज्ञाने अज्ञाने चमतिश्रुते पृथक् समकाले भवतः, ततो न श्रुतं मतिपूर्व युज्यते, न हि सममेवोत्पन्नयोः सव्येतरगोविषाणयोरिवपूर्वपश्चाद्भावः सङ्गच्छते। अथोत्सूत्रोऽप्यसदाग्रहवशात्स न त्यज्यते, इत्याह-(मइनाणे वा इत्यादि) इदमुक्तं भवतिमतिज्ञाने समुत्पन्ने तत्समकालं च श्रुतज्ञानेऽनभ्युपगम्यमाने श्रुताऽज्ञाने जीवस्य प्रसज्यते, श्रुतज्ञानानुत्पादेऽद्यापि तदनिवृत्तेः, न च ज्ञानाऽज्ञानयोः समकालमवस्थितिरागमे क्वचिदप्यनुमन्यते, विरोधात्-ज्ञानस्य सम्यग्दृष्टिसंभावित्वात्, अज्ञानस्य तु मिथ्या-दृष्टिभावित्वादिति गाथार्थः / / 107 / / अत्र प्रतिविधानमाहइह लद्धिमइसुयाई, समकालाई न तूवओगो सिं। मइपुव्वं सुयमिह पुण, सुओवओगो मइप्पभवो / / 108 ! ननु ध्यानध्यविजृम्भितमिदं परस्य, अभिप्रायापरिज्ञानात्। त-थाहि | द्विविधे मतिश्रुते तदावरणक्षयोपशमरूपलब्धितः, उप-योगतश्च। तत्रेह | लब्धितो ये भतिश्रुते से एवं समकालं भवतः, यस्त्व-नयोरुपयोगः स युगपन्न भवत्येव, किं तु केवलज्ञानदर्शनयोरिव तथास्वाभाव्यात्क्रमेणैव प्रवर्तते। अत्र तर्हि लब्धिमङ्गीकृत्य मति-पूर्वता श्रुतस्योक्ता भविष्यतीति चेत् / नैवम् , इत्याह-मतिपूर्व श्रुतम् , इह तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः / श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाऽऽकारं श्रुतानुसारि ज्ञानमभिधीयते, तचावग्रहेहाऽऽदीनन्तरेणाऽऽकस्मिकं न भवति, अवग्रहाऽऽदयश्च मतिरेव, इति तत्पूर्वता श्रुतस्य न विरुध्यते / इति गाथार्थः / / 108 / / तदेवं मतिपूर्व श्रुतमिति समर्थितम् , परस्तुमतेरपि श्रुतपूर्वताऽऽपादनेनाऽविशेषमुद्भावयन्नाहसोऊण जा मई भे, सा सुयपुव्व त्ति तेण न विसेसो। सा दव्वसुयप्पभवा, भावसुयाओ मई नत्थि // 106 / / परस्माच्छब्दं श्रुत्वा तद्विषया (भे) भवतामपि या मतिरुत्पद्यते सा श्रुतपूर्वा श्रुतकारणैव, शब्दस्य श्रुतत्वेन प्रागुक्तत्वात् , तस्याश्च मतेः तत्प्रभवत्येन भवतामपि सिद्धत्वात् / ततश्च (न विसेसो त्ति) अन्योऽन्यपूर्वभावितायां मतिश्रुतयोर्न विशेष इत्यर्थः। तथा च सति"न मई सुयपुध्विय त्ति " यदुक्तं प्राक् , तदयुक्तं प्राप्नोतीति भा-वः / अत्रोत्तरमाह-परस्माच्छब्दमाकर्ण्य या मतिरुत्पद्यते, साह-न्त ! शब्दस्य द्रव्यश्रुतमात्रत्वाद् द्रव्यश्रुतप्रभवा, न भावश्रुतकारणा, एतत्तु न केनाऽपि वार्यते, किं त्वेतदेव वयं बूमो यदुत-भावश्रुताद् मतिर्नास्ति, भावश्रुतपूर्विका मतिर्न भवतीत्यर्थः, द्रव्यश्रुतप्रभवा तु भवतु; को दोष ? इति गाथाऽर्थः / / 106 / / ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ? इत्याहकज्जतया न उ कमसो, कमेण को वा मई निवारेइ ? जं तत्थावत्थाणं, सुयस्स सुत्तोवओगाओ॥ 110 // भावश्रुताद् मतिः कार्यतयैव नास्तीत्यनन्तरोक्तगाथाऽवयवेन संबन्धः (न उ कमसो त्ति) क्रमशस्तु मतिनास्तीत्येवं न, किं तर्हि ? क्रमशः साऽस्ति, इत्येतत् सर्वोऽपि मन्यते, अन्यथा आम-रणावधि श्रुतमात्रोपयोगप्रसङ्गात् / यदि क्रमशः साऽस्ति, तर्हि क्रमेण भवन्त्यास्तस्या भवन्तः किं कुर्वन्ति? इत्याह-(कमेणे-त्यादि) वाशब्दः पातनार्थे, सा च कृतैव, क्रमेण भवन्तीं मति को निवारयति? मत्या श्रुतोपयोगो जन्यते, तदुपरमे तु निजकारण-कलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते, पुनस्तथैव श्रुतम् , तथैव च मतिः, इत्येवं क्रमेण भवन्त्या मतेनिषेधका वयं न भवाम इत्यर्थः / किमिति ? इत्याह-यद् यस्मात् कारणात् तत्र तस्यां मतौ अवस्थानं स्थितिर्भवति, श्रुतोपयोगात् च्युतस्य ततः क्रमेण मतिं न निषेधयामः / इदमुक्तं भवति-यथा सामान्यभूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणाडलीयकाऽऽदयो जन्यन्ते, अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्णं त्वतज्जन्यत्वात् तत्कार्यतया न व्यवह्रियते, तस्य कारणान्तरेभ्यः सिद्धत्वात् , कङ्कणाऽऽदिविशेषोपरमे तु सुवर्णावस्थानं क्रमेण न निवार्यते; एवं मत्याऽपि सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्य स उच्यते, मतिस्त्वतजन्यत्वात्तत्कार्यतया न व्यपदिश्यते, तस्या हेत्वन्तरात् सदा सिद्धत्वात् , स्वविशेषभूतश्रुतोपयोगपरमे तु क्रमाऽऽयातं मत्यवस्थानं न निवार्यते, आमरणान्तं के वलश्रुतोपयोगप्रसङ्गादिति गाथार्थः / / 110 // तदेवं भावश्रुतं मतिपूर्व व्यवस्थाप्य मतान्तरमुपदर्शयन्नाहदव्वसुयं मइपुव्वं, भासइ जं नाऽविचिंतियं केइ।