________________ गाण 1943 - अभिधानराजेन्द्रः भाग - 4 णाण अथ दृष्टान्तदान्तिकयोर्वेषम्याऽऽपादनेनैकेन्द्रियाणां श्रुतसद्भाव विघटयन्नाहभावसुयं भासासोयलद्धिणो जुञ्जए न इयरस्स। भासाऽभिमुहस्स जयं, सोऊण य जं हवेजाहि // 102 / / भावश्रुतं युज्यत इति संबन्धः / कस्य युज्यते ? इत्याह-भाषाश्रोत्रलब्धिमतः-भाषालब्धिमतः, श्रवणेन्द्रियलब्धिमतश्चेत्य- र्थः / कथंभूतं यद्भावश्रुतम् ? इत्याह-भाषाऽभिमुखस्य शब्द-मभिधित्सोः 'प्रथममेव मध्ये एतत्प्रतिपादयामि' इत्युपयोगरूपं यद्भवेत् श्रुत्वा वा परोदीरिता भाषां यद्भवेद् 'एतदनेन प्रतिपादितमिति।' इह च यथासंख्यमवगन्तव्यम्-भाषालब्धिमतः प्रथमं भवेत, श्रवणेन्द्रियलब्धिमतस्तु द्वितीयं भवेदिति। (न इयरस्स ति) इतरस्य तु भाषाश्रोत्रलब्धिरहितस्य भावश्रुतं न युज्यते। अयमभिप्रायः-यस्य सुप्तसाधोर्भाषाश्रोत्रलब्धिरस्ति, तस्योत्थितस्य परप्रतिपादनपरोदीरितशब्दश्रवणाऽऽदिलक्षणं भावश्रुतकार्य दृश्यते, तद्दर्शनाच सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽसीदित्यनुमीयते, यस्य त्वेकेन्द्रियस्य भाषाश्रोत्रलब्धिरहितत्वेन कदाचिदपि भावश्रुतकार्यं नोपलभ्यते, तस्य कथं तदस्तीति प्रतीयेत? इति गाथाऽर्थः / / 102 / / अत्रोत्तरमाहजह सुहमं भाविंदिय-नाणं दटिवदियावरोहे वि! तह दव्वसुयाभावे, भावसुयं पत्थिवाइणं / / 103 / / इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोकबहुबहुतरबहुतमाऽऽदितारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपञ्चकाऽऽवरणक्षयोपपशमः समस्त्येवेति परममुनिवचनम्। ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां श्रोत्रचक्षु-णिरसनलक्षणाना प्रत्येक निवृत्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्माऽऽवृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं श्रोत्राऽऽदि भावेन्द्रियज्ञानं भवति, लब्धीन्द्रिया-ऽऽवरणक्षयोपशमसंभूताणीयसी ज्ञानशक्तिर्भवतीत्यर्थः। तथा तेनैव प्रकारेण द्रव्यश्रुतस्य द्रव्येन्द्रियस्थानीयस्याभावेऽपि भाव श्रुतं भावेन्द्रियज्ञान कल्पं पृथिव्यादीनां भवतीतिप्रतिपत्तव्यमेव / इदमुक्तं भवति-एकेन्द्रियाणां तावच्छ्रोत्राऽऽदिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यते एव, वनस्पत्यादिषु स्पष्टतल्लिङ्गो-पलम्भात् / तथाहि-कलकण्ठोद्गीर्णमधुरपश्चमोद्गारश्रवणात्सद्यः कुसुमपल्लवाऽऽदिप्रसवो विरहकवृक्षाssदिषु श्रवणेन्द्रिय-ज्ञानस्य व्यक्तं लिङ्गमवलोक्यते। तिलकाऽऽदितरुषु पुनः कमनी-यकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाऽऽद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य, चम्पकाऽऽद्यहिपेषु तु विविधिसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकातत्प्रकटनं घ्राणेन्द्रियज्ञानस्य, बकुलाऽऽदिभूराहेषु तु रम्भाऽतिशायिप्रवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूषाऽऽस्वादनात तदाविष्करणं रसनेन्द्रियज्ञानस्य, कुरबकाऽऽदिविटपिष्वशोकाऽऽदिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणत्कङ्कणाऽऽभरणभूषितभव्यभामिनीभुजलताऽवगूहसुखान्निष्पिष्ट पारागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झगिति प्रसुनपल्लवाऽऽदिप्र-भवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते / ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद्भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्ध-मस्ति, तथा द्रव्य श्रुताभावे भाव श्रुतमपि भविष्यति / दृश्यते हि जलाऽऽद्याहारोपजीवनाद्वनस्पत्यादीनामाहारसंज्ञा, संकोचनवल्ल्यादीनां तु हस्तस्पर्शाऽऽदिभीत्याऽवयवसंकोचनाऽऽदिभ्यो भयसंज्ञा, विरहकतिलकचम्पककेशराशोकाऽऽदीनां तु मैथुन-संज्ञा दर्शितैव, विल्वपलाशाऽऽदीनां तु निधानीकृतद्रविणोपरि पादमोचनाऽऽदिभ्यः परिग्रहसंज्ञा / न चैताः संज्ञाः भाव श्रुतमन्तरेणोपपद्यन्ते / तस्माद्भावेन्द्रियपञ्चकाऽऽवरणक्षयोपशमाद्भावे-न्द्रियपञ्चकज्ञानवद्भावश्रुताऽऽवरणक्षयोपशमसद्भावाद् द्रव्य-श्रुताभावेऽपि यच यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणाम् , इत्यलं विस्तरेण / तर्हि-'" जं विन्नाणं सुयानुसारेणं "(100) इति श्रुत-ज्ञानलक्षणं व्यभिचारि प्राप्नोति, श्रुतानुसारित्वमन्तरेणाऽप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेत्। नैवम्, अभिप्रायापरिज्ञानात्, शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम्, यत्त्वेकेन्द्रियाणामौधिकमविशिष्टभावश्रुतमात्रं तदावरण-क्षयोपशमस्वरूपम् , तच्छुतानुसारित्वमन्तरेणाऽपि यदि भवति, तथाऽपि न कश्चिद् व्यभिचारः / इति गाथार्थः 11 103 / / पुनरप्याह परःएवं सव्वपसंगो, न तदावरणाणमक्खओवसमा। मइसुयनाणाऽऽवरण-क्ख ओवसमओ मइसुयाइं / / 104 / / यदि भाषाश्रोत्रलब्धिरहितानामपि काष्ठकल्पानां पृथिव्यायेकेन्द्रियाणां स्पष्ट किमप्यनुलभ्यमानमपि केनाऽपि वागाडम्बरमात्रेण ज्ञानं व्यवस्थाप्यते, तर्हि सर्वेषामपि केवलज्ञानपर्यन्तानां पञ्चाना-मपि ज्ञानानां प्रसङ्गः सद्भावस्तेषां प्राप्नोतीत्यर्थः / पञ्चापि ज्ञानानि एकेन्द्रियाणां सन्ति, इत्येतदपि कस्मान्नोच्यते ? स्पष्टानुपलम्भस्य विशेषाभावादिति भावः / अत्रोत्तरमाह-तदेतन्न / कुतः ? इत्याहतदावरणानामवधिमनःपर्यायकेवलज्ञानाऽऽवारक-कर्मणामक्षयोपशमादिति, अक्षयाचेति स्वयमपि द्रष्टव्यम्। इदमुक्तं भवति-केवलज्ञानं तावत् स्वावारककर्मणः क्षय एव जायते, अव-धिमनःपर्यायज्ञानेतुतस्य क्षयोपशमे भवतः, एतचैकेन्द्रियाणां नास्ति, तत्कार्यादर्शनाद , आगमेऽनुक्तत्वाच; इति न सर्वज्ञानप्रसङ्गः। मतिश्रुतेऽपि तर्हि मा भूताम्, इति चेत् / इत्यत्राऽऽह-(मईत्यादि) मतिश्रुतज्ञानाऽऽवरणक्षयोपशमस्त्वेकेन्द्रियाणामस्त्येव, तत्कार्यदर्शनात्, सिद्धान्तेऽभिहितत्वाचाततश्व तत्क्षयोपशमसद्भावन्मतिश्रुते भवत एव तेषाम्। इतिगाथाऽर्थः / / 104 / / तदेव सप्रसङ्गः प्रदर्शितो लक्षणभेदा मतिश्रुतयोर्भेदः, साम्प्रतं हेतुफलभावात्तमुपदर्शयन्नाहमइपुव्वं सुयमुत्तं, न मई सुयपुब्विया विसेसोऽयं / पुव्वं पूरणपालण-भावाओ जं मई तस्स / / 105 / / " मइपुव्वर्ग सुत्तं " इति वचनादागमे मतिः पूर्व यस्य तद् मतिपूर्व श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका, इत्यनयोरयं विशेषः / यदि होकत्वं मतिश्रुतयोर्भवेत् , तदा एवंभूतो नियमेन पूर्वपश्चाद्भावो घटतत्स्वरूपयोरिव न स्याद् , अस्ति चाऽयम् , ततो भेद इति भावः / किमिति पुनर्मतिपूर्वमेव श्रुतमुक्तम् ? इत्याह-यद् यस्मात् कारणात् तस्य श्रुतस्य भतिः पूर्व प्रथममेवोपपद्य