________________ णाण 1942 - अभिधानराजेन्द्रः भाग - 4 णाण - शब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य' घटो घट: ' इत्याद्यन्तजल्पाकारमन्तःशब्दोल्लेखान्वितमिन्द्रियाऽऽदिनिमित्तं यज्ज्ञान-मुदेति तच्छुतज्ञानमिति / तच कथं भूतम् ? इत्याह-' निजकाऽोक्तिसमर्थमिति निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटाऽऽदिरर्थः तस्योक्तिः परस्मै प्रतिपादनं तत्र समर्थ क्षम निजकार्योक्तिसमर्थम् / अयमिह भावार्थ:-शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति, तेन च परः प्रत्याय्यते, इत्येवं निजकार्योक्तिसमर्थमिदं भवति, अभिलाप्यवस्तुविषयमिति यावत्। स्वरूपविशेषणं चैतत्, शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्योक्तिसामर्थ्याऽव्यभिचारादिति। (मइसेसं ति) शेषमिन्द्रियमनोनिमित्तश्रुतानुसारेण यदवग्रहाऽऽदिज्ञानं तन्मतिज्ञानमित्यर्थः / अत्राऽऽह कश्चित्-ननु यदिशब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेषं तु मतिज्ञानम्, तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात्, न पुनरीहापायाऽऽदयः, तेषां शब्दोल्लेखसहितत्वात् ; मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदोषः ? कथं च न मतिज्ञानस्याव्याप्तिप्रसङ्गः ? अपरं च-अङ्गानङ्गप्रविष्टाऽऽदिषु " अक्खर सन्नो सम्म, साईयं खलु सपज्जवसियं च / '' इत्यादिषु च श्रुतभेदेषु मतिज्ञानभेदस्व-रूपाणामवग्रहेहाऽऽदीनां सद्भावात् सर्वस्याऽपि तस्य मतिज्ञानत्वप्रसङ्गात्, मतिज्ञानभेदानांचेहापायाऽऽदीनां साभिलापत्वेन श्रुतज्ञानत्वप्राप्तेरुभयलक्षणसंकीर्णतादोषश्च स्यात् / अत्रोच्यतेयत्तावदुक्तम्-अवग्रह एव मतिज्ञानं स्यात्, न त्वीहाऽऽदयः, तेषां शब्दोल्लेखसहितत्वात् / तदयुक्तम् / यतो यद्यपि ईहाऽऽदयः साभिलापाः, तथाऽपि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात्। अथावग्रहाऽऽदयः श्रुतनिष्ठिता एव सिद्धा-न्ते प्रोक्ताः, युक्तितोऽपि चे हाऽऽदिषु शब्दाभिलापः सके तकालाऽऽधाकर्णितशब्दानुसरणमन्तरेण न संगच्छते, अतः कथं न तेषां श्रुतानुसारित्वम् ? तदयुक्तम्। पूर्व श्रुतपरिकर्मितमतेरेवैते समुप-जायन्त इति श्रुतनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति। वक्ष्यते च-" पुव्वं सुयपरिकम्मिय-मइस्स जं संपयं सुयाऽऽईयं / तं सुयनिस्सियं" इत्यादि। यदपि युक्तितोऽपि चेत्याधुक्तम्, तदपि न समीचीनम् , संकेतकालाऽऽद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणाऽपि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात्, न हि पूर्वप्रवृत्तसंकेताः, अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते-एतच्छब्दवाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवंरूप संकेतम् , तथाऽमुकस्मिन् ग्रन्थे एतदित्थमभिहितमित्येवं श्रुतग्रन्थं चाऽनुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः / यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते। तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहापायधारणानां सामस्त्येन मतिज्ञानत्वान्न मतिज्ञानलक्षणस्याव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साऽभिलापज्ञानविशेषेषु भावाद्न श्रुतज्ञानलक्षणस्याऽतिव्याप्तिकृतो दोषः / अपरं च-अङ्गाऽनङ्गप्रविष्टाऽऽदिश्रुतभेदेषु मतिपूर्वमेव श्रुतम् ' इति वक्ष्यमाणवचनात्प्रथम शब्दाऽऽद्यवग्रहणकालेऽवग्रहाऽऽदयः समुपजायन्ते, एते चाश्रुतानुसारित्वान्मतिज्ञानम्, यस्तु तेष्वङ्गानङ्गप्रविष्ट श्रुतभेदेषु श्रुताऽनुसारी / ज्ञानविशेषः स श्रुतज्ञानम् / ततश्च-अङ्गानङ्गप्रविष्टाऽऽदिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावाद् , ईहाऽऽदिषु च मतिभेदेषु श्रुताऽनुसारित्वाभावेन श्रुतज्ञानत्वाऽसंभवान्नोभयलक्ष-णसंकीर्णतादोषोऽप्युपपद्यत इति सर्व सुस्थम्।नचेह मतिश्रुतयोः परमाणुकरिणोरिवाऽऽत्यस्तिको भेदः समन्वेषणीयः, यतःप्रागिहैवोक्तम्-विशिष्टः कश्चिन्मतिविशेष एव श्रुतं, पुरस्तादपि च वक्ष्यते-वल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपे श्रुतज्ञानम् , न च वल्कशुम्बयोः परमाणुकुञ्जरवदात्यन्तिको भेदः, किं तु कारण-कार्यभावकृत एव, स चेहाऽपि विद्यते, मतेः कारणत्वेन, श्रुतस्य तुकार्यत्वेनाभिधास्यमानत्वात्।नच कार्यकारणयोरैकान्तिको भेदः; कनककुण्डलाऽऽदिषु, मृत्पिण्डकुण्डाऽऽदिषु च तथाऽदर्शनात्। तस्मात्तदवग्रहापेक्षयाऽनमिलापत्वाद् , ईहाऽऽद्यपेक्षया तु साभिलापत्वात् साभिलापानभिलापं मतिज्ञानम् , अश्रुतानुसारि च सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिनो वा शब्दस्य व्यवहार-काले अननुसरणात् / श्रुतज्ञानं तु साभिलापमेव, श्रुतानुसार्येव च, सङ्के तकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिनो वा शब्दरूपस्य श्रुतस्य व्यवहारकालेऽवश्यमनुसरणादिति स्थितमिति गाथार्थः // 10 // अथ श्रुतज्ञानलक्षणस्याऽव्याप्तिदोषमुद्भावयन्नाह परःजइ सुयलक्खणमेयं, तो न तमेगिंदियाण संभवइ / दव्वसुयाणुभावम्मि वि, भावसुयं सुत्तजइणो व्व // 101 / / यदि श्रुतज्ञानस्येदमनन्तरगाथोक्तं लक्षणमिष्यते-श्रुतानुसारि ज्ञानं यदि श्रुतमभ्युपगम्यत इत्यर्थः, तदा तदेकेन्द्रियाणां नसंभवतिन घटते, शब्दानुसारित्वस्य तेष्वसंभवात्; तदसंभवश्व मनः-प्रभृतिसामग्रयभावात्। इष्यते चाऽऽगमे-" एगिदिया नियमं दुयण्णाणी / तं जहा-मइअण्णाणी य, सुयअन्नाणी य" इति वचनादेके न्द्रियाणामपि श्रुतमात्रम् . इत्यव्यापकमैवेतद् लक्षणम्। अत्रो-तरमाह-(दव्वसुयेत्यादि) द्रव्यश्रुत शब्दस्तस्याभावेऽप्येकेन्द्रियाणां भावश्रुतमभ्युपगन्तव्यम् , सुप्तयतेरिव। इदमुक्तं भवति-यद्य-प्येकेन्द्रियाणां कारणवैकल्या द्रव्यश्रुतं नास्ति, तथाऽपि स्वापा-ऽऽद्यवस्थायां साध्वादेरिवाशब्दकारणम्, अशब्दकार्य च श्रुताऽऽ-वरणक्षयोपशममात्ररूयं भाव श्रुतं केवलिदृष्टममीषां मन्तव्यम्; न हि स्वापाऽऽद्यवस्थायां साध्वादिः शब्दं न शृणोति, न विकल्पयतीत्येतावन्मात्रेण तस्य श्रुतज्ञानाभावो व्यवस्थाप्यते, किं तु स्वापाऽऽद्यवस्थोत्तरकालं व्यक्तीभवद्भावश्रुतं दृष्ट्वा पयसि सर्पि-रिव प्रागपि तस्य तदासीदिति व्यवहियते, एवमे के न्द्रियाणामपि सामग्रीवैकल्याद्यद्यपि द्रव्यश्रुताभावः, तथाऽप्यावरणक्षयोपश-मरूपं भावश्रुतमवसेयम्, परमयोगिभिर्दृष्टत्वाद् वल्ल्यादिष्वाहारभयपरिग्रहमैथुनसंज्ञाऽऽदेस्तल्लिङ्गस्य दर्शनाचेति। आहननु सुप्तयतिलक्षण दृष्टान्तेऽपि तावद्भावश्रुतं नावगच्छामः / तथाहि-श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतं, श्रूयते तदिति वा श्रुत-मित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसाधोः श्रुतमभ्युपगम्यते? तत्रा-ऽऽद्यपक्षो न युक्तः, सुप्तस्य श्रुतोपयोगासंभवात्। द्वितीयोऽपि न संगतः, तत्र शब्दस्य वाच्यत्वात् . तस्यापि च स्वपतोऽसंभवादि-ति। सत्यम्। किं तु शृणोत्यनेन, अस्माद, अस्मिन्वेति व्युत्पत्ति-रिहाश्रीयते, एवं च श्रुतज्ञानाऽऽवरणक्षयोपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चास्तीति न किञ्चित्परिहीयते / इति गाथार्थः / / 101 / /