________________ णाण 1941 - अभिधानराजेन्द्रः भाग-४ णाण स्वामित्वाऽऽदिभिर्विशेषाभावान्मतिश्रुतयोरेकतैव प्राप्ता, न भेदः स्यात्; तथा च न ज्ञानपञ्चकसिद्धिः, धर्मभेदे हि वस्तूना भेदः स्यात; तदभेदे तु घटतत्स्वरूपयोरिवाभेद एव श्रेयानिति भावः। अत्राऽऽचार्यः प्रत्युत्तरमाह(लक्खणेत्यादि) तेषां स्वामित्वाऽऽदीनामविशेषस्तदविशेषस्तत्र सत्यपि मतिश्रुतयो नात्वं भिन्नत्वमस्ति। किंकृतम् ? इत्याह-लक्षणभेदाऽऽदिकृतम् , आदिशब्दाद् वक्ष्यमाणकार्यकारणभावाऽऽदिपरिग्रहः / इदमुक्तं भवति-यद्यपि स्वामिकालाऽऽदिभिर्मतिश्रुतयोरेकत्वम्, तथाऽपि लक्षणकार्यकारणभावाऽऽदिभिर्नानात्वमस्त्येव, घटाऽऽकाशाऽऽदीनामपि हि सत्त्वप्रमेयत्वार्थक्रियाकारित्वाऽऽदिभिः साम्येऽपिलक्षणाऽऽदिभेदाभेद एव / यदि पुनर्बहुभिर्धमै दे सत्यपि कियधर्मसाम्यमात्रादेवार्थानामेकत्वं प्रेर्यते, तदा सर्व विश्वमेकं स्यात; किं हि नाम तद्दस्त्वस्ति यस्य वस्त्वन्तरैः सह कैश्चिद्धर्मन साम्यमस्ति? तरमात्स्वाम्यादिभिस्तुल्यत्वेऽपिलक्षणाऽऽदिभिर्मतिश्रुतयोर्भेदः। इति गाथार्थः / / 66 तान्येव लक्षणाऽऽदीनि पुरतो विस्तराभिधेयात्सपि ण्ड्यैकगाथया दर्शयतिलक्खणभेया हेऊ-फलभावओ मेयइंदियविभागा। वागऽक्खरमूएयर-भेया भेओ मइसुयाणं / / 67 // लक्षणभेदाद्भिन्नलक्षणत्वाद् मतिश्रुतयोर्भेदः / तथा-मतिज्ञानं हेतुः, श्रुतं तु तत्फलं तत्कार्यम् : इति हेतुफलभावात्तयोर्भेदः। तथा-(भेय त्ति) विभागशब्दोऽत्रापि योज्यते, ततश्च भेदानां विभागो विशेषो भिन्नत्वं भेदविभागः, तस्मादपि मतिश्रुतयोर्भेदः, अवग्रहा-ऽऽदिभेदादष्टाविंशत्यादिभेदं हि मतिज्ञानं वक्ष्यते "अक्खर सण्णी सम्म" इत्यादिवक्ष्यमाणवचनाचतुर्दशाऽऽदिभेदं च श्रुतज्ञानमिति भेदविभागात्तयोर्भेद इति भावः / (इंदियविभाग त्ति) तत्त्वतः श्रोत्रविषयमेव श्रुतज्ञानम् , शेषेन्द्रियविषयमपि मतिज्ञानम् , इत्येवं वक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः। (वागेत्यादि) वल्काश्चाक्षरं च मूकं च वल्काऽऽदिप्रतिपक्षभूतानीतराणि च वल्काक्षरमूकेत-राणि, तैर्योऽसौ भेदः तस्मादपि मतिश्रुतयोर्भेद इत्यर्थः / तथाहि-" अन्ने मग्गति मई, वग्गसमा सुबसरिसयंतुसुयं। (154)" इत्यादिना ग्रन्थेन कारणत्वावल्कसदृश मतिज्ञानं, शुम्बसदृशं तु श्रुत-ज्ञानम् , कार्यत्वादित्यत्रैव वक्ष्यते। तत्र वल्कः पलाशाऽऽदित्वग्रन्थः, शुम्बं तु इतरशब्देनेहोपात्तं तज्जनिता दवरिकोच्यते / तत-श्चायमभिप्रायः-यथा वलनाऽऽदिसंस्कृतो विशिष्टावस्थाऽऽपन्नः सन्वल्को दवरिकेत्युच्यते, तथा परोपदेशार्हद्वचनसंस्कृतं विशि-ष्टावस्थाप्राप्तं सद् मतिज्ञानं श्रुतमभिधीयते, इत्येवं वल्केतरभेदाद् मतिश्रुतयोर्भेदः / तथा-"अन्ने अणक्खरऽक्खरविसेसओ मइसुयाइँ भिंदंति / जं मइनाणमणक्खर-मक्खरमियरं च सुयनाणं // 161 // इत्यादि ग्रन्थेन वक्ष्यमाणादक्षरेतरभेदात्तयोर्भेदः। तथा-" सपरप्पचायणओ, भेओ मूएयराण वाऽभिहिओ। जं तु सुयं, मइनाणं, सपरप्पचायगं सुत्तं " / / 171 / / इत्याद्यभिधास्यमानवचनान्मूकेतरभेदान्मतिश्रुतयोर्भेदः। इति गाथासंक्षेपार्थः। विस्तारार्थ तु भाष्यकार: स्वत एव वक्ष्यति। इयं च गाथा बहुष्वादशेषु न दृश्यते, केवलं क्वचिदादर्शेऽपि दृष्टा, अतीव सोपयोगा च, इत्यस्माभिः किश्चिद् व्याख्यातेति / / 67 // तत्र" यथोद्देशं निर्देशः " इति कृत्वा लक्षणभेदं तावदाहजममिनिबुज्झइ तमभिनि-बोहो जं सुणइ तं सुयं भणियं / सदं सुणइ जइ तओ, नाणं तो नाऽऽयभावो तं / / 18| यज्ज्ञानं कर्तृ, वस्तु कर्मताऽऽपन्नमभिनिबुध्यते अवगच्छति, तज्ज्ञानमभिनिबोधः तदाभिनिबोधिकं तन्मतिज्ञानमिति यावत् / (जं सुणइ इत्यादि) यत्पुनर्जीवः शृणोति तच्छुत्तमः इत्येवं सूत्रोक्तलक्षणभेदान्मतिश्रुतयोर्भदः। तथा च सूत्रम्-" जइ वि सामित्ता-ईहिं अविसेसो, तह वि पुणोऽत्थाऽऽयरिया णाणत्तं पण्णणवयंति। तं जहाअभिबुज्झइत्ति आभिणिबोहियं, सुणेइ ति सुयं।" इत्या-दि। अत्राऽऽह प्रेरक:-यदि नाम यदात्मा शृणोति तत् श्रुतमिति श्रुतज्ञानस्य लक्षणमुच्यते, हन्त ! तर्हि शब्दमेव शृणोति जीव इति सकलजगत्प्रतीतमेव / ततः किं भूयते ? इत्याह-(जइ तओ इत्यादि) यदि च सकः स शब्दो ज्ञानं श्रुतरूपम् . (तो त्ति) ततो नाऽऽत्मनो जीवस्य भावः परिणामः तच्छुतं प्राप्नोति, शब्दस्य श्रुतत्वेनेष्टत्वात् , तस्य च पौद्गलिकत्वेन मूर्तत्वात् , आत्मनस्त्वमूर्तत्वाद् , मूर्तस्य चामूर्तपरिणामत्वायोगाद् , आत्मनः परिणामश्च श्रुतज्ञानमिष्यते तीर्थकराऽऽदिभिः, इति कथं न विरोधः ? इति भावः। इति गाथार्थः / / 68 / / अत्राऽऽचार्यः प्रत्युत्तरयतिसुयकारणं जओ सो, सुयं च तकारणं ति तो तम्मि। कीरइ सुओवयारो, सुयं तु परमत्थओ जीवो / / 66 || यतो यस्मात् कारणात् स शब्दो वक्त्राऽभिधीयमानः श्रोतृगतस्य श्रुतज्ञानस्य कारणं निमित्तं भवति, श्रुतं च वक्तृगतश्रुतोपयोगरूपं व्याख्यानकरणाऽऽदौ तस्य वक्त्राऽभिधीयमानस्य शब्दस्य कारणं जायते, इत्यतः तस्मिन् श्रुतज्ञानस्य कारणभूते कार्यभूते वा शब्दे श्रुतोपचारः क्रियते। ततो न परमार्थतः शब्दः श्रुतं, किं तूपचारत् इत्यदोषः / परमार्थतस्तहिं किं श्रुतम् ? इत्याह-(सुयं त्वित्यादि) परमार्थतस्तु जीवः श्रुतं, ज्ञानज्ञानिनोरनन्यभूतत्वात् / तथा च पूर्वमभिहितम्-शृणोतीति श्रुतमात्मैवैति। तरमाच्छूयत इति श्रुत-मिति कर्मसाधनपक्षे द्रव्यश्रुतमेवाऽभिधीयते, शृणोतीति श्रुतमिति: कर्तृसाधनपक्षे तु भाव श्रुतमात्मैव, इति न काचिदनात्मभावता श्रुतज्ञानस्य। इति गाथार्थः / / 66 | (8) अथ प्रकारान्तरेणाऽपि मतिश्रुतयोर्लक्षणभेदमाहइंदियमणोनिमित्तं, जं विण्णाणं सुयाणुसारेणं। निययत्युत्तिसमत्थं, तं भावसुयं मई सेसं / / 100 / / इन्द्रियाणि च स्पर्शनाऽऽदीनि, मनश्च, इन्द्रियमनांसि, तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम् , इन्द्रियमनोद्वारेण यद्विज्ञानमुपजायत इत्यर्थः / तत् किम् ? इत्याह-तद्भाव श्रुतं श्रुतज्ञानमित्यर्थः / इन्द्रियमनोनिमित्तं च मतिज्ञानमपि भवति, अतस्तद्व्यवच्छेदार्थमाह-श्रुतानुसारेणेति श्रूयत इति श्रुतम् / द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च सङ्केतविषयपरोपदेशरूपः श्रुतग्रन्थाऽऽत्मकश्वेह गृह्यते, तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञान, नान्यत् / इदमुक्तं भवति-सङ्केतकालप्रवृत्त, श्रुतगन्थसंबन्धिनं वा घटाऽऽदि