________________ णाण 1940 - अभिधानराजेन्द्रः भाग - 4 वरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् / उभयस्यापि सर्वद्रव्या- | ऽऽदिविषयत्वाद् विषयतुल्यता। परनिमित्तत्वाच परोक्षत्वसमता। ननु यद्येवमनयोः परस्परंतुल्यता, तह:कत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् ? इत्याह-(तभावे इत्यादि) तद्भावे मतिश्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीनि ज्ञानान्यवाप्यन्ते, नाऽन्यथा, न हि स कश्चित् प्राणी भूतपूर्वः, अस्ति, भविष्यति वा, यो मतिश्रुतज्ञाने अनासाद्य प्रथममेवाऽवध्यादीनि शेषज्ञानानि प्राप्तवान् , प्राप्नोति, प्राप्स्यति वेति भावः / ततस्तदवाप्तौ शेषज्ञानावाप्तेश्चाऽऽदौ मतिश्रुतोपन्यासः इति गाथाऽर्थः / / 85|| भवतु तादौ मति-श्रुतोपादानं, केवलं पूर्व मतिः, पश्चात्तु श्रुत-मित्यत्र किं कारणं, यावता विपर्ययोऽपि कस्मान्न भवति ? इत्याहमइपुट्वं जेण मुयं, तेणाईए मइ विसिट्ठो वा। मइभेओ चेव सुयं, तो मइसमणंतरं भणियं / / 86 // मतिः पूर्व प्रथममस्येति मतिपूर्व, येन कारणेन श्रुतज्ञानं, तेन श्रुतस्याऽऽदौ मतिः तीर्थकर-गणधरैरुक्तेति शेषः।नावग्रहाऽऽदिरूपे मतिज्ञाने पूर्वमप्रवृत्ते क्वापि श्रुतप्रवृत्तिरस्तीति भावः / (विसिट्टो वा, मइभेओ चेव सुयं ति) यदि वा इन्द्रियानिन्द्रियनिमित्तद्वारेणोपजायमानं सर्व मतिज्ञानमेव, केवलं परोपदेशादागमवचनत्वाच्च भवन् विशिष्टः कश्चिन्मतिभेद एव श्रुतं, नान्यत्। ततो मूलभूताया मतेरादौ विन्यासः, तभेदरूपं तु श्रुतज्ञान तत्समनन्तरं भणितमित्यदोषः।" मइपुव्वं जेण सुयं। "इत्यादिकश्वार्थः पुरतः प्रपञ्चेन भणिष्यते। इतिगाथार्थः।। 86 / / अथ मतिश्रुतानन्तरमवधेस्तत्समनन्तरं च मनःपर्यायज्ञानस्योपन्यासे कारणमाहकालविवजयसामि-त्तलाभसाहम्मओऽवही तत्तो। माणसमित्तो छउमत्थविसयभावादिसामण्णा।।७।। ततो मतिश्रुताभ्यामनन्तरमवधिनिर्दिष्टः / कुतः ? इत्याह-कालविपर्ययस्वामित्वलाभसाधात् / तत्र नानाजीवापेक्षया, एकजीवापेक्षया च मतिश्रुताभ्यां सहावधेः समानस्थितिकालत्वात् कालसाधर्म्यम्। यथा च मिथ्यात्वोदये मतिश्रुतज्ञाने अज्ञानरूपं विपर्ययं प्रतिपद्येते, तथाऽवधिरपि, इति विपर्ययसाधर्म्यम्। य एव च मतिश्रुतयोः स्वामी, स एवावधेरपीति स्वामिसाधर्म्यम् / लाभोऽपि कदाचित्कस्यचिदमीषा त्रयाणामपि ज्ञानानां युगपदेव भवती-ति लाभसाधर्म्यम् / (माणसमित्तो इत्यादि) इतोऽवधेरनन्तरं मनोविषयत्वान्मनसि भवं मानसं मनःपर्यायज्ञानं युक्तम् / कुतः ? इत्याह-छद्मस्थविषयभावाऽऽदिसामान्यात् ; आदिशब्दात् प्रत्य-क्षत्वाऽऽदिसामान्य गृह्यते, समानस्य भावः सामान्यं, साम्य, तस्मादित्यर्थः / तत्र यथाऽवधिज्ञानं छद्मस्थस्यैव भवति, तथा मनःपर्यायज्ञानमपीति छद्मस्थसाम्यम् / उभयोरपि पुद्गलमात्रविषयत्वाद् विषयसाम्यम्, द्वयोरपि क्षायोपश- 1 मिकभाववृत्तित्वाद्भावासाम्यम्, द्वितयस्यापि साक्षाद्दर्शित्वात् प्रत्यक्षत्वसाम्यम् / एवमन्याऽपि प्रत्यासत्तिरभ्युह्येति गाथाऽर्थः / / 87 // अथ केवलज्ञानस्य सर्वोपरि निर्देशे कारणमाहअंते केवलमुत्तम-जइसामित्तावसाणलाभाओ। इत्थं च मइसुयाइं, परोक्खमियरं च पञ्चक्खं / / 88 / / अन्ते सर्वज्ञानानामुपरि केवलज्ञानमभिहितम् / कुतः ? इत्याहभावप्रधानत्वान्निर्देशस्य उत्तमत्वात्, सर्वोत्तम हि केवलज्ञानम् , अतीतानागतवर्तमाननिःशेषज्ञेयस्वरूपाऽवभासित्वादिति / यथा च मनःपर्यायज्ञानस्य यतिरेव स्वामी, तथा केवलज्ञानस्यापि, ततो यतिस्वामित्वसाम्याद्मनःपर्यायज्ञानाऽनन्तरं केवलज्ञानमभिहि-तम् / तथा समस्ताऽपरज्ञानानामवसान एवाऽस्य लाभादवसान एव निर्देश इति / तदेवमुपन्यासक्रमे समर्थित सत्याह कश्चित्-नन्वेतानि पक्ष ज्ञानानि किं परोक्षस्वरूपाणि, आहोश्वित् प्रत्यक्षाणि ? इति। अत्राऽऽह(इत्थं चेत्यादि) एतेषु पञ्चसु ज्ञानेषु मध्ये मतिश्रुते परोक्षे, इतरत्ववध्यादिज्ञानत्रयं प्रत्यक्षमिति गाथार्थः / / 88 // विशे०। (5) तथा चाऽऽगमःदुविहे णाणे पण्णत्ते / तं जहा-पचक्खे चेव, परोक्खे चेव / पच्चक्खणाणे दुविहे पण्णत्ते / तं जहा-केवलणाणे चेव, णो केवलणाणे चेव। ज्ञानं विशेषावबोधः, अश्नाति भुङ्क्ते, अश्नुते वा व्याप्नोति ज्ञानेनार्थानित्यक्ष आत्मा, तं प्रति यद्वर्तते इन्द्रियमनोनिरपेक्षत्वेन तत्प्रत्यक्षमव्यवहितत्वेनार्थसाक्षात्करणादक्षमिति। आह च-" अक्खो जीवो अत्थ-व्वावणभोयणगुणन्निओ जेणं। तंपइ वट्टइनाणं, जपचक्खं तमिह तिविहं " / / 1 // इति / परेभ्योऽक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य जीवस्य यत्तत्परोक्ष निरुक्तिवशादिति / आह च-" अक्खस्स पोग्गलकया, जं दविदियमणापरा तेण / तेहिंतो जं णाणं, परोक्खमिह तमणुमाणं वा"||१|| इति। अथवा-परैरक्षं संबन्धन जन्यजनकभावलक्षणमस्येति परोक्षम्। इन्द्रियमनोव्यवधानेनाऽऽत्मनोऽर्थप्रत्ययकर्मसाक्षात्कारीत्यर्थः / स्था० 2 ठा०१3०। (प्रत्यक्षज्ञानभेदाः 'पचक्ख'शब्देवक्ष्यते) प्रत्यक्षं द्विविधं-केवलज्ञानं, नो केवलज्ञानं च। (केवल-ज्ञानभेदाः केवलणाण' शब्दे तृतीयभागे 647 पृष्ठे गताः) (6) केवलणाणे दुविहे पण्णत्ते / ओहिणाणे चेव, मणपजवणाणे चेव // स्था०२ ठा०१ उ०। आ० म०। आव० / संथा। कर्म०। सम्म०। (अवधिज्ञानभेदः ' ओहि' शब्दे तृतीयभागे 140 पृष्ठे गतः) (मनःपर्यायज्ञानभेदाः 'मणपज्जवणाण' शब्दे वक्ष्यन्ते) परोक्खणाणे दुविहे पण्णत्ते / तं जहा-आमिणिबोहियणाणे चेव, सुयणाणे चेव। (परोक्षज्ञानभेदाः ' परोक्खणाण' शब्दे वक्ष्यन्ते) (7) स्वाम्यादिभेदामतिश्रुतभेदः / साम्प्रतं "जंसामिकाल-कारणविसय-परोक्खत्तणेहिँतुल्लाइं। (85)" इति यदुक्तं प्राक्, तदुपजीव्य परः प्राऽऽहसामित्ताइविसेसा-भावाओ मइसुएगया नाम। लक्खणभेयादिकयं, नाणत्तं तयविसेसे वि।। 66|| परः प्राऽऽह-ननु पूर्वं मतिश्रुतयोः स्वामिकालाऽऽदिभिः तुल्यत्वमभिदधानैर्भवद्भिः स्वहस्ताङ्काराऽऽकर्षणमनुष्ठितम्, यत एवं सति