________________ णाण 1936 - अमिधानराजेन्द्रः भाग - 4 णाण भावता किं सामान्यतो भवताऽभ्युपगम्यते, विशेषतो वा ? तत्र न तावदाद्यः पक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य बाधकत्वायोगात्। बोधरूपतारूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्मा-भिरेकमभ्युपगम्यत एव, ततः का नो हानिरिति ? अथ द्वितीयः पक्षः, तदयुक्तम् , असिद्धत्वात्। न हि नामविशेषतोऽपि ज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदनप्रत्यक्षेणोत्कर्षदर्शनात्। अथयधुत्कर्षापकर्षमात्रभेददर्शनाद् ज्ञानभेदस्तर्हितावुत्कर्षापकर्षा प्रतिप्राणि देशकालापेक्षया शतसहस्रशो भिद्येते, ततः कथं पञ्चरूपता? नैष दोषः / परिस्थूरनिमित्तभेदतः पक्षधात्वस्य प्रतिपादनात् / तथाहि-सकलघातिक्षयो निमित्त केवलज्ञानस्य, मनः-पर्यायज्ञानस्य त्वामर्षांषध्यादिलब्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य विशिष्टो विशिष्टाध्यवसायानुगतोऽप्रमादः, "तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमतो।" इतिवचनप्रामाण्यात् / अवधिज्ञानस्य पुनस्तथाविधानीन्द्रियरूपिद्रव्य - साक्षादवगम-निबन्धनं क्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदाऽऽदिकं तथाऽग्रे वक्ष्यते। उक्तंच" नन्नेगसहावतं, ओहेण विसेसओ पुण असिद्ध / एगततस्सहाव-तणे उ कह हाणिवुड्डीओ? // 1 // जं अविचलियसहावे, तत्ते एगन तस्सहावत्तं। नयतं तहोवलद्धा, उक्करिसावगरिसविसेसा // 2 // तम्हा परिथूराओ, निमित्तभेयाओं समयसिद्धाओ। उववत्तिसंगओ विय, आभिणिबोहाइओ भेओ।।३।। घाइक्खओ निमित्तं, केवलणाणस्स वण्णिओ समए। मणपज्जवणाणस्स उ. तहाविहो अप्पमाउ त्ति / / 4 / / ओहिं सोऽण्णस्स तहा, अणिदिएसं पिजो खओवसमो। मइसुयनाणाणं पुण, लक्खणभेदादिओ भेओ॥ 5 // " यदप्युक्तं ज्ञेयभेदकृत इत्यादि, तदप्यनभ्युपगमतिरस्कृतत्वाद् दुरापास्तप्रसरम् / न हि वयं ज्ञेयभेदमात्रतो ज्ञानस्य भेदमिच्छामः, एकेनाऽप्यवग्रहाऽऽदिना बहुविधवस्तुग्रहणोपलम्भात् / यदपि च प्रत्यपादि-प्रतिपत्तिप्रकारभेदकृत इत्यादि तदपि न नो बाधामाधातुमलम् / यतस्ते प्रतिपत्तिप्रकाराः देशकालाऽऽदिभेदेनाऽऽनन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिबोधिकाऽऽदीन जातिभेदा नातिक्रामन्ति, तत्कथमेकरिमन् एकभेदभावप्रसङ्गः। उक्तं च-" न य पडिवत्तिविसेसो, एगम्मि अणेगभेयभावो त्ति / जं ते तहा विसिट्टे , न जाइभेए विलंघेइ // 1 // " यदप्यवादीदावार्यापेक्ष ह्यावरकमित्यादि, तदपि न नो मनोबाधा-यै। यतः-परिस्थूरनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः; ततस्तदपेक्षमावारकमपि तथा भिद्यमानं न युष्मादृशदुर्जनवचनीयतामास्कन्दति। एवमुक्ते जितो भूयः सावष्टम्भं परः प्रश्न-यतिननुपरिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनियो -धिकाऽऽदयो भेदा ज्ञानस्याऽऽत्मभूताः, उताऽनात्मभूताः ? किं चातः-उभयथाऽपि दोषः / तथाहि-यद्यात्मभूताः, ततः क्षीणाऽऽ-वरणेऽपि तद्भावप्रसङ्गः। तथा चासर्वज्ञत्वं प्रागुक्तनीत्या तस्या-ऽऽपद्यते। अथाऽनात्मभूताः, तर्हि न ते पारमार्थिकाः, ततः कथ-मावार्यापेक्षो वास्तव आवारकभेदः। तदपि न मनोरमम् , सम्यग् वस्तुतत्त्वापरिज्ञानात् / इह हि सकलधनपटलविनिर्मुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनैक स्वभावो जीवः, तस्य च तथाभूतस्वभावः केवलज्ञानमिति व्यपदिश्यते। सच यद्यपि सर्वघातिना केवलज्ञानाऽऽवरणेन आवियते,तथाऽपि तस्यानन्ततमो भागो नित्योद्घाटित एव, "अक्खरस्सऽणतो भागो निचुग्घाडिओ, जइ पुणो सो वि आवरिज्जा तेण जीवा अजीवत्तणं पवेजा।" इत्यादिवक्ष्यमाणवचनप्रामाण्यात् / ततस्तस्य केवलज्ञानाऽऽवरणाऽऽवृतस्य घनपटलाऽऽच्छादितस्येव सूर्यस्य यो मन्दः प्रकाशः सोऽपान्तरालावस्थितमतिज्ञानाऽऽद्यावरणक्षयोपशमभेदसंपादितं नानात्वं भजते / यथा घनपटलाऽऽवृतसूर्यस्य मन्दप्रकाशोऽपान्तरालावस्थितकटकुड्याऽऽद्यावरणं विवरप्रदेशभेद-तः, स च नानात्वं तत्क्षयोपशमानुरूपं तथा प्रतिपद्यमानं तत्क्षयोपशमानुसारेणाभिधानभेदमश्नुते / यथा-मतिज्ञानाऽऽद्यावरणक्षयोपशमजनितः स मन्दः प्रकाशो मतिज्ञानं, श्रुतज्ञानाऽऽवरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि, तत आत्मस्वभावभूताज्ञानस्याऽभिनिबोधिकाऽऽदयो भेदाः, ते च प्रवचनोपदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसंख्याः, ततस्तदपेक्षमावारकमपि पञ्चधोप-वर्ण्यमानं न विरुध्यते / न चैवमात्मस्वभावभूतत्वे क्षीणाऽऽवरण-स्याऽपि तद्भावप्रसङ्गः। यतएते मतिज्ञानाऽऽवरणाऽऽदिक्षयो-पशमरूपोपाधिसंपादितसत्ताकाः, यथा-सूर्यस्य घनपटलाऽऽवृतस्य मन्दःप्रकाशभेदः कटकुड्याऽऽवरणविवरभेदोपाधिसंपादितः। ततः कथंतेतथारूपक्षयोपशमाभावे भवितुमर्हन्ति, न खलु सकलघनपटलकटकुड्याऽऽद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति / उक्तं च-" कडविवरागयकिरणा, गेहं-तरियस्स जह दिणेसस्स। ते कडमेहावगमे, न होति जह तह इमाई पि // 1 // ततो यथा जन्माऽऽदयो भावा जीवस्य आत्मभूता अपि कर्मोपाधिसंपादितसत्ताकत्वात्तदभावेन सन्ति, तद्वदाभिनिबोधिकाऽऽदयोऽपि भेदा ज्ञानस्याऽऽत्मभूता अपि मतिज्ञानाऽऽवरणाऽऽदिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषः / उक्तं च-" जमिह छउमत्थधम्मा, जम्माईया न होति सिद्धाणं / इय केवलीणमाभिणिबोहियभावम्मि को दोसो? // 1 // " इति। नं०1 आ० म०। आव० / सं- था० / कर्म! सम्म०1 स्था०। (4) तदेवं ज्ञानपञ्चकस्याऽप्यभिधानार्थे कथिते आह कश्चित-नन्वादी मतिश्रुतोपन्यासः किमर्थः ? इति। अत्राऽऽचार्य आहजं सामि-काल-कारण-विसय-परोक्खत्तणेहिँतुल्लाई। तब्भावे सेसाणि य, तेणाईए मइसुयाई।। 85 // तेन कारणे नाऽऽदौ मतिश्रुते निर्दिष्टे / येन किम् ? इत्याह-(जं सामीत्यादि) इति संटङ्कः / मतिशब्दोऽत्राभिनिबोधिकसमानार्थी द्रष्टव्यः आभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते / यद् यस्मात् कारणात् स्वामिकालकारणविषयपरोक्षत्वैस्तुल्ये समानस्वरूपे मतिश्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः / तत्र स्वामी तावदनयोरेक एव, "जत्थ मइनाणं तत्थ सुयनाणं' इत्याद्यागमवचनादिति / कालोऽपि द्विधानानाजीवापेक्षया, एकजीवापेक्षया च / स चायं द्विविधोऽप्यनयोस्तुल्य एव नानाजीवापेक्षया द्वयोरपि सर्वकालमनुच्छे दाद, एक जीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्षष्टि स्थितिकत्वेनात्रैवाभिधास्यमानत्वादिति / कारणमपीन्द्रियमनो लक्षणं, स्वा