________________ णरग 1923 - अभिधानराजेन्द्रः भाग - 4 णरंग जीवा महाकम्भतरा चेवेत्यादि) प्राग्वत्। एवं प्रतिपृथिवि तावद् वक्तव्यं यावदधः सप्तमी। जी०। (एकैकस्मिन् नरके सर्वे जीवा उपपन्नपूर्वा इति ' उववाय ' शब्दे द्वितीयभागे 680 पृष्ठे चिन्तितम् ) (54) संप्रत्युद्देशकार्थसंग्रद्दणिगाथा: प्राऽऽहपुढविं ओगाहित्ता, नरगा संठाणमेव बाहल्ले। विक्खंभपरिक्खेवो, वण्णो गंधो य फासो य॥१॥ तासे महालयाए, उवमा देवेण होइ कायव्वा। जीवा य पोग्गलाऽवक्कमंति तह सासया निरया // 2 // उववायपरीमाणं, अवहारुचत्तमेव संघयणं / संठाणवण्णगंधा, फासा ऊसासमाहारे / / 3 / / लेस्सा दिट्ठी णाणे, जोगुवओगे तहा समुग्घाए / तत्तो खुहा पिवासा, विउव्वणा वेयणा य भए।। 4 / / उववाओ पुरिसाणं, ओवम्म वेयणाएँ दुविहाए! ठिइ उव्वट्टण फासो, उववाओ सव्वजीवाणं // 5 // आसामक्षरमात्रगमनिका-(पुढवीओ इति) पृथिव्य अभिधेयाः / तद्यथा-(कइण भंते ! पुढवीओ पण्णत्ताओ? इत्यादि) तदनन्तरम् / (ओगाहित्ता नरगा इति) यस्यां पृथिव्यां यदवगाह्य यादृशाश्च नरकाः, तदभिधेयम् (इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवइयं ओगाहित्ता ? इत्यादि) ततो नरकाणां संस्थानम् , ततो बाहल्यं, तदनन्तरं विष्कम्भपरिक्षेपौ, ततो वर्णः, ततो गन्धः, तदनन्तरं स्पर्शः, ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवतिकर्तव्या, ततो जीवाः पुद्गलाश्च तेषु नरकेषु व्युत्क्रामन्तीति, तथा शाश्वताश्च नरका इति वक्तव्यं, तत उपपातो वक्तव्यः। तद्यथा-(इमीसेणं भंते! रयणप्पभाए पुढवीए कतो उववजंति ? इत्यादि) तत एकसमयेनोत्पद्यमानानां परिमाण, ततोऽपहारः, तत उच्चत्वं, तदनन्तर संहननं, ततः स्थानं, ततो वर्णः, तदनन्तरं गन्धः, ततः स्पर्शः, तत उच्छ्वासवक्तव्यता, तदनन्तरमाहारः, ततो लेश्या, ततो दृष्टिः, तदनन्तरं ज्ञानं, ततो योगः, तत उपयोगः, तदनन्तरं समुद्धातः, ततः क्षुत्पिपासे, ततो विकुर्वणाः / तद्यथा-(रयणप्पभापुढविनेरइयाणं भंते ! किं एगत्तं पभू विउव्वत्तए पहुत्तं पभू विउव्वत्तए इत्यादि) ततो वेदना, ततो भयं, तदनन्तरं पुरुषाणां पञ्चानामधः सप्तम्यामुपपातः, तत औपम्य वेदनाया द्विविधायाः, शीतवेदनाया उष्णवेदनायाश्चेत्यर्थः। ततस्तत्स्थितिर्वक्तव्या, तदनन्तरमुद्वर्तना, ततः स्पर्शः पृथिव्यादिस्पर्शी वक्तव्यः, ततः सर्वजीवानामुपपातः। तद्यथा(इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगसि निरयावासंसि सव्वे पाणा सव्वे भूया इत्यादि) जी०३ प्रति० 2 उ०। (55) पुद्गलपरिणामःइमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया के रिसयं पुग्गलपरिणामं पचणुभवमाणा विहरंति ? गोयमा ! अणिटुं० जाव अमणाम, एवं० जाव अहे सत्तमाए एवं णेयव्वं / (रयणप्पभेत्यादि) रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं पुद्गलपरिणाममाहाराऽदिपुद्गलविपाकं प्रत्यनुभवन्तः प्रत्येकं वेदयमाना विहरन्ति ? भगवानाह-गौतम! अनिष्टमित्यादि प्राग्वत्, एवं प्रतिपृथिवि तावद् वक्तव्यं, यावदधः सप्तमी / एवं वेदनालेश्यानामगोत्रारतिभयशोकक्षुत्पिपासाव्याध्युछवासानुतापक्रोधमानमायालोभऽऽहारमैथुनपरिग्रहसंज्ञासूत्राणि वक्तव्यानि। अत्र संग्रहणीगाथेपोग्गलपरिणामं वेयणा य लेसा य णामगोएय। अरई भए य सोए, खुहा पिवासा य वाही य / / 1 / / उस्सासे अणुताये, कोहे माणे य माएँ लोभे य। चत्तारि य सन्नाओ, नेरइयाणं तु परिणामा।।२।। (56) संप्रति सप्तमनरकपृथिव्यां ये गच्छन्ति, तान् प्रतिपादयतिएत्थ किर अतिवतंती, गरवसभा केसवा जलयरा य। मंडलिया रायाणो, जे य महारंभ कोडंबी॥३।। (एत्थ किरेत्यादि) इह परिग्रहसंज्ञापरिणामवक्तव्यतायां चरमसूत्रं सप्तमनरकपृथिवीविषयं, तदनन्तरं च इयं गाथा, तत " एत्थ" इत्यनन्तरमुक्ताधः सप्तमी पृथिवी परामृश्यते / तत्र अधः सप्तमनरकपृथिव्यां, किलेत्याप्तवादस्तवने, आप्तवचनमेतदिति भावः / अतिव्रजन्ति अतिशयेन बाहुल्येन गच्छन्ति, नरवृषभाः केशवा वासुदेवा जलचराश्च तन्दुलमत्स्यप्रभृतयो, मण्डलिका वसुप्रभृतय इव, राजानश्चक्रवर्तिनः सुभूमाऽऽदय एव, ये च महारम्भाः कुटुम्बिनः कालसौकरिकाऽऽदय इव / / 3 // संप्रति नरकेषु प्रस्तावात् तिर्यगादिषु चोत्तरवैक्रि यावस्थानकालमानमाहमिन्नमुहुत्तो नरए-सु तिरियमणुएसु होइ चत्तारि। देवेसु अद्धमासो, उक्कोसविउव्वणा भणिया।। 4 / / (भिन्नमुहुत्तो निरएसु इत्यादि) भिन्नः खण्डो मुहूर्तो भिन्नमुहूर्तः, अन्तर्मुहूर्तमित्यर्थः / नरकेषूत्कर्षतो विकुर्वणा स्थितिकालः, तिर्यमनुष्येषु चत्वारि, अन्तर्मुहूर्तानि देवेष्वर्द्धमासः, उत्कर्षतो विकुवणाऽवस्थानकालो भणितः तीर्थकरगणधरैः / / 4 / / संप्रति नरकेषु आहाराऽऽदिस्वरूपमाहजे पोग्गला अनिट्ठा, णियमा सो तेसिँहोइ आहारो। संठाणं पिय तेसिं, नियमा हुंडं तु णायव्वं / / 5 / / (जे पोग्गलेत्यादि) ये पुद्गला अनिष्टाः नियमात स तेषां भवत्याहारः, संस्थानं तु संस्थानं पुनः हुण्ड हुण्डमपि जघन्यमतिनिकृष्ट वेदितव्यम् / एतच भवधारणीयशरीरमधिकृत्य वेदितव्यम् , उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात्। इयं च प्रागुक्तार्थसंग्रहगाथा, ततो न पुनरुक्तदोषः / / 5 // संप्रति विकुर्वणास्वरूपमाहअसुभा विउव्वणा खलु, नेरइयाणं तु होइ सव्वेसिं। वेउव्वियं सरीरं, संघयणं हुंडसंठाणं // 6 //