SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ णरग 1924 - अभिधानराजेन्द्रः भाग-४ णरग सर्वेषां नैरयिकाणां विकुर्वणा खलु निश्चितमशुभा भवति / यद्यपि शुभं विकुर्वणेयं चिन्तयति, तथाऽपि तथाविधप्रतिकूलको दयतस्तेषामशुभैव विकुर्वणा भवति, तदपि च वैक्रियमुत्तरवैक्रियं शरीरमसंहननम् , अस्थ्यभावात् , उपलक्षणमेतत् , भवधारणीयं च वैक्रियशरीरं च संहननं, तथा हुण्डसंस्थानं तत उत्तरवैक्रियं शरीर हुण्डस्थाननाम्न एव भवप्रत्यय उदयभावात्॥६॥ अस्साओ उववन्नो, अस्साओ चेव जहइ निरयभवं / सव्वपुढवीसु जीवा, सव्वेसु ठिई विसेसेसु॥७॥ (अस्साओ उववण्णो इत्यादि) कश्चिद् जीवः सर्वास्वपि पृथिवीषु रत्नप्रभाऽऽदिषु तमस्तमापर्यन्तासु, सर्वेष्वपि च स्थितिविशेषेषु जघन्याऽऽदिरूपेषु असातोऽसातोदयकलित उपपन्न उत्पत्तिकालेऽपि प्राग्भवमरणकाले भूतमहादुःखानुवृत्तिभावात् , उत्पत्त्यनन्तरमपि असात एवासातोदयकलित एव, सकलमपि निरयभव (जहइ) त्यजति क्षपयति, न तु जातुचिदपि सुखलेशमप्यास्वादयति / आह-किं तत्र कदाचित् सातोदयोऽपि भवति येनैवमुच्यते? उच्यते-भवति॥७॥ तथा चाऽऽहउववाएण च सातो, नेरइओ देवकम्मुणा वा वि। अज्झवसाणनिमित्तं, अहवा कम्माणुभावेण / / 8 // (उववाएणेत्यादि)" उववाएणं " इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सातं सातवेदनीयकर्मोदयं कश्चिद्वेदयते, यः प्राग्भवे दाहच्छेदाऽऽदिव्यतिरेकेण मरणमुपगतोऽनतिसंक्लिष्टाध्यवसायी समुत्पद्यते, तदा न हि तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं, नाऽपि क्षेत्रस्वभावजं, नाऽपि परमाधार्मिककृतं, नाऽपि परस्परोदीरितम् / तत एवंविधदुःखाभावादसौसातं वेदयते इत्युच्यते। (देवकम्मुणा वा वि इति) देवकर्मणा पूर्वसामन्तिकदेवप्रयुक्तया क्रियया / तथाहि-गच्छति पूर्व सामन्तिको देवः, पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थ, यथा बलदेवकृष्णवासुदेवस्य। स च वेदनोपशमो देवकृतो मनाक् कालमात्र एव भवति।तत ऊर्द्धनियमात् क्षेत्रस्वभावजा, अन्या वा वेदना प्रवर्तते, तथास्वभाव्यात् / (अज्झवसाणनिमित्तमिति) अध्यवसाननिमित्तं सम्यक्त्वोत्पादकाले, तत ऊर्ध्व वा कदाचित् तथाविधिविशिष्टशुभाध्यवसायप्रत्ययं कश्चिन्नैरयिको बाह्य क्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुभि इवमहान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित् तीर्थकरगुणानुमोदनाऽऽद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तःसातोदयो विजृम्भमाणो न विरुध्यते / (अहवा कम्माऽणुभावेणमिति) अथवा कर्मानुभावेन बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसंभूतिलक्षणसंज्ञानिमित्तमधिकृत्य तथाविधस्य सातवेदनीयस्य कर्मणोऽनुभावेन विपाकोदयेन कश्चित् सातं वेदयते / न चैतद् व्याख्यानमनार्यम् / यत उक्तं वसुदेवचरिते-इह नैरयिकाः कुम्भ्यादिषु पच्यमानाः कुन्ताऽऽदिभिर्भिद्यमाना वा भयोत्त्रस्तास्तथाविधप्रयत्नवशादूर्ध्वमुत्प्लवन्ते।। 8 / / ततस्तदुत्पातपरिमाणप्रतिपादनार्थमाहनेरइयाणुप्पाओ, उक्कोसं पंचजोयणसयाई। दुक्खेणऽभियाणं, वेयणसतसंपगाढाणं / / 6 / / (नेरइयाणुप्पाओ इति) नैरयिकाणां दुःखेनाऽभिद्रुतानां सर्वाऽऽत्मना व्याप्ताना वेदनाशतसंप्रगाढाना वेदनाशतानि अपरिमिता वेदनाः संप्रगाढानि अवगाढानि येषां ते वेदनाशतसंप्रगाढाः। सुखाऽऽदिदर्शनाद् निष्ठान्तस्य परनिपातः / तेषां, हेतुहेतुमद्भावश्चात्रयतो वेदनाशतसंप्रगाढाः ततो दुःखेनाऽभिदुताः। तेषां जघन्यत उत्पातो गव्यूतमात्रम्, एतच संप्रदायादवसीयते, तथा च दृश्यते क्वचिदेवमपि पाठः-" नेरइयाणुप्पाओ, गाउयउक्कोसपंचजोयणसयाई। " इति / उत्कर्षतः पञ्चयोजनशतानि दुःखेनाऽभिहतानामित्युक्तम् // 6 // ततो दुःखमेव निरूपयतिअच्छिनिमीलणमेत्तं, नत्थि सुहं दुक्खमेव पडिबद्धं / नरए नेरझ्याणं, अहोनिसं पचमाणाणं / / 10 / / अतिसीयं अतिउण्हं, अइतण्हा अइखुहा अइभयं च। नरए नेरइयाणं, दुक्खसताई अविस्सामं / / 11 // (अच्छिनिमीलणमेत्तमित्यादि) नरके नैरयिकाणामुष्णवेदनायाः शीतवेदनाया वा अहर्निशं पच्यमानानां नाऽक्षिनिमीलनमात्रमपि अक्षिनिकोचकालमात्रमपि अस्ति सुखं, किं तु दुःखमेव केवलं प्रतिबद्धमनुबद्ध, सदाऽनुगतमिति भावः / / 10 // 11 // अथ यत्तेषां वैक्रियशरीरं तत्तेषां मरणकाले कथं भवतीति निरूपणार्थमाहतेयाकम्मसरीरा, सुहुमसरीरा य जे अपञ्जत्ता। जीवेण विप्पमुक्का, वचंति सहस्ससो भेदं / / 12 / / (तेयाकम्मेत्यादि) तैजसकार्मणशरीराणि यानि सूक्ष्मशरीराणि सूक्ष्मनामकर्मोदयवतां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि वैक्रियाऽऽहारकशरीराणि च तेषामपि प्रायो मांसचक्षुरग्राह्यतया सूक्ष्मत्वात् , तथा यानि अपर्याप्तानि अपर्याप्तशरीराणि, तानि जीवेन मुक्तमात्राणि सन्ति सहस्रसो भेदं व्रजन्ति; विशक लितास्तत्परमाणुसकाता भवन्तीत्यर्थः / / 12 / / एतासामेव गाथानां संग्राहिका गाथामाहएत्थ य भिन्नमुहुत्तो पुग्गल असुभा य होइ अस्साओ! उववाओ उप्पाओ, अत्थिसरीराय नायव्वा / / 13 / / (एत्थय भिन्नेत्यादि) प्रथमा गाथा (एत्थ) इतिपदोपलक्षिता। द्वितीया(भिन्नमुहत्तो इति) तृतीया-(पोग्गला इति) (जे पोग्गला अनिट्ठा इत्यादि) चतुर्थी-(असुभा इति) (असुभा विउव्यणा खलु इत्यादि) एवं शेषपदान्यपि भावनीयानि // 13 // जी०३ प्रति०३ उ०। (स्त्रीणा सप्तमनरकपृथिवीगमनविचारः' इथिलिंगसिद्ध शब्दे द्वितीयभागे 561 पृष्ठे गतः) सुया मे नरए ठाणा, असीलाणं च जा गई। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा / / 12 // 'मे' मया नरके स्थानानि श्रुतानि, या गतिर्नरकाऽऽदि अशीलाना गतिर्विद्यते / यत्र यस्यां गतौ कू रकर्मणां बालानां मूर्खाणाम् आत्महितविध्वंसकानां प्रगाढा वेदनाऽस्ति।।१२।। उत्त०५ अन
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy