________________ णरग 1921 - अभिधानराजेन्द्रः भाग - 4 णरग शिरश्च' से 'तस्यनारकस्य वेधेन रन्ध्रोत्पादनेनाऽभितापयन्तीति // 21 // अपि चछिंदंति बालस्स खुरेण नक्कं, उठे वि छिंदंति दुवे वि कन्ने / जिब्भं विणिकस्स विहत्थिमित्तं (वितस्ति-वसतिभरत-कातर-मातुलिङ्ग हः / / 8 / 1 / 214 / / ), तिक्खाहि सूलाहिऽभितावयंति॥२२॥ (छिदंति बालस्सेत्यादि) ते परमाधार्मिकाः पूर्वदुश्चरितानि स्मरयित्वा बालस्याज्ञस्य निर्विवेकस्य प्रायशः सर्वदा वेदनासमुद्धातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्तिा तथोष्ठावपि, द्वावपि कर्णी छिन्दन्ति, तथा मद्यमांसरसाभिलिप्सोम॒षा भाषिणो जिहां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिरमितापयन्त्यपनयन्ति / / 22 // तथाते तिप्पमाणा तलसंपुडं व, राइंदियं तत्थ थणंति बाला। गलंति ते सोणियपूयमंसं, पञ्जोइया खारपइद्धियंगा।॥ 23 // (ते तिप्पमाणेत्यादि) ते छिन्ननासिकौष्ठजिह्वाः सन्तः शोणितं तिप्यमानाः क्षरन्तो यत्र यस्मिन् प्रदेशे रात्रिन्दिवं गमयन्ति, तत्र बाला अज्ञास्तालसंपुटा इव पवनेरितशुष्कतालपत्रसंचया इय सदा स्तनन्ति दीर्घविस्वरमाक्रन्दन्तस्तिष्ठन्ति / तथा प्रद्योतिता वहिना ज्वलिताः, तथा क्षारण प्रदिग्धाङ्गाः शोणितं पूर्व मांसंच अहर्निशं गलन्तीति // 23 // किशजइ ते सुता लोहितपूअपाई, बालागणीतेअगुणा परेणं। कुंभी महंताऽहियपोरिसीया, समूसिता लोहियपूयपुण्णा / / 24 // (जइ ते सुता इत्यादि) पुनरपि सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि ते त्वया श्रुता आकर्णिता, लोहितं रुधिरं पूयं रुधिरमेव पक्वं, ते द्वे अपि पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी कुम्भी। तामेव विशिनष्टिबालोऽभिनवः प्रत्यग्रोऽग्निस्तेन तेजोऽभितापः स एव गुणो यस्याः सा बालाग्नितेजोगुणा, परेण प्रकर्षण तप्तेत्यर्थः। पुनरपि तस्या एव विशेषणम्- महती बृहत्तरा (अहियपोरिसीयं ति) पुरुषप्रमाणाधिका समुच्छ्रि-तोष्ट्रिकाऽऽकृतिरूवं व्यवस्थिता, लोहितेन पूयेन च पूर्णा सैवंभूता कुम्भी समन्ततोऽग्निना प्रज्वलिता अतीव वीभत्सदर्शनेति भावः / / 24 // (50) तासु च यत् क्रियते तद्दर्शयितुमाहपक्खिप्प तासु पवयंति बाले, अट्टस्सरे ते कलुणं रसंते। तण्हाइया ते तउयं च तत्तं, पजिजमाणाऽऽट्टतरं रसंति।।२५ // (पक्खिप्प इत्यादि) तासु प्रत्यग्निना दीप्तासु लोहितपूयशरीरावयवकिल्विषपूर्णासुदुर्गन्धासु च बालान्नारकॉस्त्राणरहितानार्त-स्वरान् करुण दीनं रसतः प्रक्षिप्य प्रपचन्ति, ते च नारकास्तथा कदर्यमाना विरसमाक्रन्दन्तः तृषार्ताः सलिलं प्रार्थयन्तो मद्यं ते अतीव प्रियमासीदित्येवं स्मरयित्वा तप्तं त्रषुपाय्यमाना आर्ततरं रसन्तिरारटन्तीति॥ 25 // उपसंहारमाहअप्पेण अप्पं इह वंचइत्ता, भवाहमे पुव्वसते सहस्से / चिट्ठति तत्था बहु कूरकम्मा, जहा कडं कम्म तहा सि भारे / / 26 // (अप्पेणेत्यादि) इहाऽस्मिन् मनुष्यभवे आत्मना परवञ्चनप्रवृत्तेन स्वत एव परमार्थत आत्मानं वञ्चयित्वा अल्पेन स्तोकेन परोपघातसुखेन आत्मानं वञ्चयित्वा बहुशो भवानां, मध्ये अधमा भवाधमा मत्स्यबन्धकलुब्धकाऽऽदीनां भवास्तान् पूर्वजन्मसुशतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराङ्मुखत्वेन वाऽवाप्य महाघोरमतिदारुण नरकवासंतत्र तस्मिन् मनुष्याः क्रूरकर्माणः परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति। अत्र कारणमाह-यथा पूर्वजन्मसु यादृग्भूतेन अध्यवसायेन जधन्यजघन्यतराऽऽदिना कृतानि कर्माणि, तथा तेनैव प्रकारेण (से) तस्य नारकजन्तोर्भारा वेदनाः प्रादुर्भवन्ति स्वतः, परतः, उभयतो वेति। तथाहि-मांसादाः स्वमांसान्येवाग्निना प्रताप्य भक्षन्ते, तथा मांसरसपायिनो निजपूयरुधिराणि तप्तत्रपूणीव पाय्यन्ते, तथा मत्स्यघातकलुब्धकाऽऽदयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मार्यन्ते, तथाऽनृतभाषिणां तत्स्मारयित्वा जिह्वाश्चेच्छिद्यन्ते, तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपह्रियन्ते, तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगूहनाऽऽदि चतैः कार्यन्ते। एवं महापरिग्रहाऽऽरम्भवतां क्रोधमानमायालोभिनां चजन्मान्तरस्वकृतक्रोधाऽऽदिदुष्कृतस्मारणेन तादृगविधमेव दुःखमुत्पाद्यत इति कृत्वा सुष्टुच्यते तथाविधं कर्म तादृविधभूत एव तेषां तत्कर्मविपाकाऽऽदितो भार इति॥२६॥ तत्र किशान्यत्समन्जिणित्ता कलुसं अणज्जा, इटेहि कंतेहि य विप्पहूणा। ते दुब्भिगंधे कसिणे अफासे, कम्मोवगा कुणिमे आवसंति / / 27 / / (समञ्जिणित्ता इत्यादि ) अनार्या अनार्यकर्मकारित्वाद् हिंसाऽनृतस्ते याऽऽदिभिराश्रवद्वारैः कलुषं पापं समा शुभकर्मोपचयं कृत्वा, ते कू रकणिो दुरभिगन्धे नरके आवसन्तीति संटङ्कः / किंभूताः ?- इटैः शब्दाऽऽदिभिर्विषयैः कान्तैः कमनीयैः