SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ णरग 1920 - अभिधानराजेन्द्रः भाग-४ णरग उत्तानानवाङ्मुखान् वा कुर्वन्तः, णमिति वाक्यालङ्कारे। तान् स्फुरत इतश्चेतश्च विह्वलमात्मानं निक्षिपतः सजीवमत्यानिवाऽऽयसकवल्यामिति / / 15 / / णो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वऽभिवेयणाए। तमाणुभाग अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कमेणं // 16 // (णो चेवेत्यादि) ते च नारका एवं बहुशः पच्यमाना अपि (नो) चैव तत्र नरके पाके वा नरकानुभवे वा सति मषीभवन्ति नैव भस्मसाद्भवन्ति। तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्याऽऽदिकमप्यस्ति, यन्मीयते उपमीयते; अनन्यसदृशी तीव्र वेदनां वाचामगोचरामनुभवन्तीत्यर्थः / यदि वा-तीव्राभिवेदनयाऽप्यननुभूतस्वकृतकर्मत्वान्न मिन्यते इति। प्रभूतमपि कालं यावत्तत्तादृशं शीतोष्णवेदनाजनितं, तथा दहनच्छेदनभेदनतक्षणत्रिशूलाऽऽरोपणकुम्भीपाकशाल्मल्यारोहणाऽऽदिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं चानुभागं कर्मणां विपाकमनुवेदयन्तः समनुवेदयन्तः समनुभवन्तस्तिष्ठन्तिा तथा स्वकृतेन हिंसाऽऽदिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुष्कृतेन दुःखिनो दुःखयन्ति पीडयन्ते; नाक्षिनिमेषमपिकालं दुःखेन मुच्यन्त इति।।१६।। किञ्चान्यत्तेहिं च ते लोलणसंपगाढे, गाढ सुतत्तं अगणिं वयंति। न तत्थ सायं लहतीऽभिदुग्गे, अरहियाऽमितावा तह वी तविति / / 17 // तस्मॅिश्च महायातनास्थाननरके, तमेव विशिनष्टि-नारकाणां लोलने सम्यक् प्रगाढो व्याप्तो भृतः स तथा तस्मिन् नरके, शीतार्ताः सन्तो गाढमत्यर्थं सुष्टुतप्तमग्निं व्रजन्तिा तत्राऽप्यग्निस्थानेऽभिदुर्गे दह्यमानाः सात सुखं मनागपिन लभन्ते, अरहितो निरन्तरोऽभितापो दाहो येषां ते अरहिताभितापास्तथाऽपि तान्नारकाँस्ते नरकपालास्तापयन्तीत्यर्थः, तप्ततैलाग्निना दहन्तीति / / 17 // अपिचसे सुचई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ। उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति // 18 // ' से 'शब्दोऽथशब्दार्थे। अथाऽनन्तरं तेषां नारकाणां नरकपालैः रौद्रैः कदर्थ्यमानानां भयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव श्रूयते समाकर्ण्यते, दुःखेन पीडयोपनीतानि उच्चरितानि करुणाप्रधानानि यानि पदानि-हा मातस्तात ! कष्टम् अनाथोऽहं शरणाऽऽगतस्तव त्रायस्व मामित्येवमादीनां पदानां तत्र नरके शब्दः श्रूयते, उदीर्णमुदयप्राप्त कटुविपाक कर्म येषां तथोदीर्णकर्माणो नरकपाला मिथ्यात्वहास्यरत्यादीनामुदये वर्तमानाः पुनः पुनर्बहुशस्ते (सरह ति) सरभरसं सोत्साह नारकान दुःखयन्त्यतस्तदसह्यं नानाविधैरुपायैर्दुःखमसातवेदनीयमुत्पादयन्तीति / / 18 // तथापाणेहि णं पाव विओजयंति, तं भे एवक्खामि जहातहेणं / दंडेहिँतत्था सरयंति बाला, सव्वेहि दंडेहिँपुराकडेहिं / / 16 / / (पाणेहि णमित्यादि) णमिति वाक्यालङ्कारे। प्राणैः शरीरेन्द्रियाऽऽदिभिस्ते पापाः पापकर्माणो नरकपाला वियोजयन्ति शरीरावयवानां पाटनाऽऽदिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति / किमर्थमेवं कुर्वन्तीत्याह-तद्दुःखकारण' भे 'युष्माकं प्रवक्ष्यामि याथातथ्येनावितथं प्रतिपादयामीति / दण्डयन्ति पीडामुत्पादयन्तीति दण्डा दुःखविशेषास्तैरिकाणामापादितैर्बाला निर्विवेका नरकपालाः पूर्वकृतं स्मारयन्ति / तद्यथा-तदा रुष्टस्त्वं खादसि समुत्कृत्य प्राणिनां मांस, तथा पिवसि तद्रसं, मद्यं च, गच्छसि परदारान्, साम्प्रतं तद्विपाकापादितेन कर्मणाऽभितप्यमानः किमेवं रारटीषीत्येवं सर्वैः पुराकृतैर्दण्डैर्दुःखावशेषैः स्मारयन्तस्तादृगभूतमेव दुःखविशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति॥ 16 // तथाते हम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाऽमितावे। ते तत्थ चिट्ठति दुरूवमक्खी, तुइंति कम्मोवगया किमीहिं॥ 20 // (ते हम्ममाणा इत्यादि) ते वराका नारका हन्यमानास्तोद्यमाना नरकपालेभ्यो नरकेऽन्यस्मिन् घोरतरे नरकैकदेशे पतन्ति गच्छन्ति / किंभूते नरके ? पूर्ण भृते, दुष्ट रूपं यस्य तद् दुरूपं विष्ठाऽसृङ्मांसाऽऽदिकं मलं तस्य भृते, तथा महाभितापिते सन्तापोपेते, ते नारकाः स्वकर्मावबद्धास्तत्रैवंभूते नरके, दुरूपभक्षिणोऽशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति / तथा कृमिभिः नरकपालाऽऽपादितैः परस्परकृतैश्च स्वकर्मोपगताः स्वकर्मढौकितास्तुद्यन्ते व्यथ्यन्ते इति। तथा चाऽऽगमः"छट्ठीसत्तमासुणं पुढवीसुनेरइया महंताई लोहिकुंथुरूवाई विउव्वित्ता अन्नमन्नरस कायं समचउरंगेभाणा 2 अणुज्झायमाणा अणुज्झायमाणा चिट्ठति / / 20 // किञ्चान्यत्सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्म। अंदूसु पक्खिप्प विहत्तु देह, वेहेण सीसं सेऽभितावयंति॥२१॥ (सया कसिणमित्यादि) सदा सर्वकालं, कृत्स्नं संपूर्ण, पुनस्तत्र नरके धर्मप्रधानम् उष्णप्रधानं स्थितिः स्थानं नारकाणां भवति / तत्र हि प्रलयातिरिक्ताग्निवाताऽऽदीनामत्यन्तोष्णरूपत्वात् तच दृढनिधत्तनिकाचितावस्थैः कर्मभिरिकाणामुपनीतं ढौकितम्। पुनरपि विशिनष्टिअतीव दुःखमसातावेदनीयः धर्मः स्वभावो यस्य तत्तथा, तस्मैिश्चैवविधे स्थाने स्थितोऽसुमान् अन्दुषु निगमेषु देह विहत्य प्रक्षिप्य च यथा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy