________________ णग 1916 - अभिधानराजेन्द्रः भाग - 4 णरग वैतरणीमभिदुर्गा तरन्ति / कथंभूताः? इषुणा शरेण प्रतोदेनेव चोदिताः प्रेरिताः, शक्तिभिश्च हन्यमानास्तामेव भीमा वैतरणीं तरन्ति / तृतीयार्थे सप्तमी / / 8 // किञ्चकीले हिँ विज्झंति असाहुकम्मा, नावं उविंते सइविप्पहूणा। अन्ने तु सूलाहिँ तिसूलियाहिं, दीहाहि विभ्रूण अहे करंति / / 6 / / ताँश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेन अभितप्सतानायसकीलाकुलां नावमुपगच्छन्तः पूर्वाऽऽरूढा असाधुकर्माणः परमाधार्मिकाः कीलेसु कण्टकेषु विध्यन्तीति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां स्मृत्या विप्रहीणा अपगतकर्तव्यविवेका भवन्ति / अन्ये पुनर्नरकपाला नारकैः क्रीडन्तस्तान्नष्टाँस्त्रिशूलिकाभिर्दीधिकाभिरायताभिर्विद्धा अधो भूमौ कुर्वन्तीति // 6 // अपिचके सिंच बंधित्तु गले सिलाओ, उदगसिं बोलंति महालयंसि। कलंवुयावालुऍ मुम्मुरे य, लोलंति पचंति अ तत्थ अन्ने // 10 // (केसिं च इत्यादि) केषाञ्चिन्नारकाणां परमाधार्मिकाणां महतीं शिलां गले बध्वा महत्युदके (बोलंति त्ति) निमज्जयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुराग्नौ च लोलयन्ति अतितप्तबालुकायां चणकानिव समन्ततो लोलयन्ति, तथाऽन्ये तत्र नरकाऽऽवासे स्वकर्मपाशावपाशितान् नारकान् शूलके प्रोतकमांसपेशवित् पचन्ति भर्जयन्तीति॥१०॥ तथाअसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं। उड्ढे अहेयं तिरिअं दिसासु, समाहिओ जत्थऽगणी झियाइं॥११॥ (असूरियमित्यादि) न विद्यते सूर्यो यस्मिन् सोऽसूर्यो नरको बहलान्धकारः कुम्भीपाकाऽऽकृतिः, सर्व एव वा नरकाऽऽवासोऽसूर्यो व्यपदिश्यते। तमेवंभूतं महाभितापमन्धतमसं दुष्प्रतरं दुरुत्तरं महान्तं विशाल नरके महापापोदयाद्व्रजन्ति। तत्र च नरके ऊर्ध्वमस्तिर्यक् च सर्वतः समाहितः सम्यगाहितो व्यवस्थापितोऽग्निर्जाज्वलतीति। पठ्यते च-(समूसिओ जत्थडगणी झियाई) यत्र नरके सम्यगूर्व श्रितः समुच्छ्रितोऽग्निः प्रज्वलति, तं तथाभूतं नरकं वराका भवन्ति / / 11 / / किश्चान्यत्जंसी गुहाए जलणेऽतिउट्टे, अविजाणओ डज्झइ लुत्तपण्णो। सया य कलुणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं / / 12 / / (जंसी गुहाए इत्यादि) यस्मिन्नरकेऽतिगतोऽसुमान् गुहायामित्युष्ट्रिकाकृतौ नरके प्रवेशितो ज्वलनेऽग्नावतिवृतो वेदनाऽभिभूतत्वात् स्वकृतं दुश्चरितमजानन् लुप्तप्रज्ञोऽपगतावधिविवेको दन्दह्यते। तथा सदा सर्वकालं पुनः करुणप्रायं कृत्स्नं वा धर्मस्थानमुष्णस्थानं, तापस्थानमित्यर्थः / (गाढ ति) अत्यर्थमुपनीतम् दौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति। पुनरपितदेव विशिनष्टि-अतिदुःखरूपो धर्मः स्वभावो यस्मिन्निति / इदमुक्तं भवति-अक्षिनिमेषमात्रमपि कालं न तस्य दुःखस्य विश्राम इति / तदुक्तम्" अच्छिनिमीलणमेत्तं, णत्थि सुहं दुक्खमेव पडिबद्ध। णिरए पोरइयाण, अहोणिसं पञ्चमाणाणं " // 1 / / 12 / / अपिचचत्तारि अगणिओ समारभित्ता, जेहिं कुरकम्माऽभितविंति वालं। ते तत्थ चिट्ठतिभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता / / 13 // चतसृष्वपि दिक्षु चतुरोऽग्नीन समारभ्य प्रज्वाल्य, यस्मिन्नरकाऽऽवासे क्रूरकर्माणो नरकपाला आभिमुख्येनात्यर्थं तापयन्ति भटित्रवत्पचन्ति बालमज्ञ नारकं पूर्वकृतदुश्चरितं, ते तु नारकजीवा एवमभितप्यमानाः कदर्थ्यमानाः स्वकर्मनिगमिताः तत्रैव प्रभूतं कालं महादुःखाऽऽकुले नरकतिष्ठन्तिा दृष्टान्तमाह-यथा जीवन्तो मत्स्या मीना उपज्योतिरग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थाः, तत्रैव तिष्ठन्त्येवं नारका अपि, मत्स्यानां तापासहिष्णुत्वादग्नावत्यन्तं दुःखमुत्पद्यत इत्यतस्तद्ग्रहणमिति / / 13 // किश्चान्यत्संतच्छणं णाम महाहितावं, ते नारया जत्थ असाहुकम्मा। हत्थेहि पाएहि य बंधिऊणं, फलग व तच्छंति कुहामहत्था // 14 // (संतच्छमित्यादि) समेकीभावेन तक्षणं संतक्षणं, नामशब्दः संभावनायां, यदेत्संतक्षण तत्सर्वेषां प्राणिनां महाभितापं महादुःखोत्पादकमित्येवं संभाव्यते / यदेवं ततः किमित्याह-ते नारका नरकपाला यत्र नरकाऽऽवासे स्वभवनादागता असाधुकर्माणः क्रूरकर्माणो निरनुकम्पाः कुठारहस्ताः परशुपाणयः, तान्नारकानत्रा-णान् हस्तैः पादैश्च बध्वा संयभ्य फलकमिव काच्छशकलमिव, लक्ष्णुवन्ति तनूकुर्वन्ति, छिन्दन्तीत्यर्थः // 14 // अपि चरुहिरे पुणो वचसमुच्छिअंगे, भिन्नुत्तमंगे परिवत्तयंता। पयंति णं णेरइए फुरंते, सजीवमच्छे व अयोकवल्ले॥१५॥ ते परमाधार्मिकास्तान् नरकान् स्वकीये रुधिरे तप्तकवल्या प्रक्षिप्ते पुनः पचन्ति। वर्चःप्रधानानि समुच्छ्रितान्यन्त्राणि अङ्गानि वा येषां ते तथा तान्, भिन्नंचूर्णितमुतमाङ्गं शिरोयेषांतेतथा, तानिति। कथंपचन्तीत्याह-परिवर्तयन्त