________________ णरंग 1918 - अमिधानराजेन्द्रः भाग-४ णरग नशा गिद्धमुहणिवउक्खि-तबंधणोम्मुद्दकंधरकबंधे। दढगहियतत्तसंडा-सयग्गविसमुक्खुडियजीहे॥६॥ तिक्खंकुसग्गकड्डिय-कंटयरुक्खग्गजजरसरीरे। निमिसंतरं पिदुल्लह-सुक्खेऽवक्खेवदुक्खम्मि॥७॥ इय भीसणम्मिणिरए, पडति जे विविहसत्तवहनिरया। सव्वब्भट्ठाय नरा, जयम्मि कयपावसंघाया / / 8 / / " इत्यादि। किश्चान्यत्तिव्वं तसे पाणिणो थावरे य, जे हिंसति आयसुहं पडुच्च। जे लुसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि / / || (तिव्वं तसेत्यादि) तथा तीव्रमतिनिरनुकम्पं रौद्रपरिणामतया हिंसायां प्रवृत्तः, त्रस्यन्तीति वसा द्वीन्द्रियाऽऽदयः, तान् , तथा स्थावरॊश्च पृथिवीकायाऽऽदीन् ,यःकश्चिन्महामोहोदयवर्ती, हिनस्ति व्यापादयति, आत्मसुखं प्रतीत्य, स्वशरीरसुखकृते नानाविधैरुपायैर्यः प्राणिनां लूषक उपमर्दकारी भवति, तथा अदत्तमपहर्तुं शीलमस्यासावदत्तहारी परद्रव्यापहारकः, तथा न शिक्षते नाभ्यसति नादत्ते (सेववियस्स त्ति) सेवनीयस्याऽऽत्महितैषिणा सदनुष्ठाने यस्य संयमस्य किचिदिति / एतदुक्तं भवतिपापोदयाद् विरतिपरिणाम काकमांसाऽऽदेरपि मनागपि न विधत्ते इति // 4 // तथापागब्भि पाणे बहुणं-तिवाती, अनिव्वते घातमुवेति बाले। णिहो णिसं गच्छति अंतकाले, अहो सिरं कट्ट उवेइ दुग्गं // 5 // प्रागल्भ्यं धाटयं तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती। एतदुक्तं भवतिअतिपात्यपि प्राणिनः प्राणानतिधाट्याद् वदति-यथा वेदाऽभिहिता हिंसा अहिं सैव भवति, तथा राज्ञामयं धर्मो यदुत आखेटकेन विनोदक्रिया। यदि वा-" न मांसभक्षणे दोषो, न मद्ये न च मैथुने / प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला " // 1 // इत्यादि / तदेवं क्रू रसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी, अनिर्वृतः कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानः। यदि वा लुब्धकमत्स्याऽऽदिवधकजीविकाप्रसक्तः सर्वदा परिणामपरिणतोऽनुपशान्तो, हन्यते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो नरकस्तमुपसामीप्येन एति याति कः ? बालोऽज्ञोरागद्वेषोदयवर्ती, सोऽन्तकाले मरणकाले (निहो त्ति) न्यगधस्तात् (सिणं ति) अधोऽन्धकारं गच्छतीत्यर्थः, यथा तेन दुश्चरितेन अधः शिरः कृत्वा दुर्ग विषमं यातनास्थानमुपैतिः अवाशिरा नरके पतती-त्यर्थः / सूत्र०१ श्रु०५ अ०१ उ०। (47) दशविधवेदनाःनेरइया णं दसविहं वेयणं पच्चणभवमाणा विहरंति। तं जहासीयं, उसिणं, खुहं, पिवासं, कंडूं, परभं, भयं, सोगं, जरां वाहि॥ " नेरइया " इत्यादि कण्ठ्यम् / नवरं वेदनां पीडा, तत्र शीत- | स्पर्शजनिता शीता, ता, साच चातुर्थ्यादिनरकपृथिवीष्विति। एवमुष्णां प्रथमाऽऽदिषु, क्षुधं बुभुक्षां, पिपासा तृष, कण्डूं खर्जूम, (परउभं ति) परतन्त्रता, भयं भीति, शोकं दैन्यं, जरां वृद्धत्वं, व्याधिं ज्वरकुष्टाऽऽदिकमिति / स्था० 10 ठा०। (48) साम्प्रतं पुनरपि नरकवर्तिनो नारका यदनुभवन्ति तद्दर्शयितुमाहहण छिंदह भिंदणं दहेति, सद्दे सुणिंता परहम्मिया णं / ते नारगाओ भयभिन्नसन्ना, कंखंति के नाम दिसं वयामो? // 6 // तिर्यड्मनुष्यभवात् सत्त्वा नरकेषूत्पन्ना अन्तर्मुहूर्तेन निलूनाण्डजसन्निभानि शरीराण्युत्पादयन्ति पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति। तद्यथा-हत मुद्गराऽऽदिना, छिन्त खड्गाऽऽदिना, भिन्त शूलाऽऽदिना, दहत मुर्मुराऽदिना, णमिति वाक्यालङ्कारे। तदेवभूतान् कर्णासुखान् शब्दान् भैरवान् श्रुत्वा, ते तु नारका भयोद्भान्तालोचना भयेन भीत्या भिन्ना नष्टा संज्ञाऽन्तःकरणवृत्तिर्येषां ते तथा, नष्टसंज्ञाश्च कां दिर्श व्रजामः ? कुत्र गतानामस्माकमेवंभूतस्याऽस्य महाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्येतत् कासन्तीति। (46) ते च भयोद्भान्ता दिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाह इंगालरासिं जलियं सजोतिं, तेणोवमं भूमिमणुक्कमंता। ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया / / 7 // (इंगालेत्यादि) अङ्गारराशिं खदिराङ्गारपुजंज्वलितं ज्वालाऽऽकुलं, तथा सह ज्योतिषोद्योतेन वर्तत इति सज्योतिर्भूमिस्तेनोपमा यस्याः सा तदुपमा, तामङ्गारसन्निभां भूमिमाक्रमन्तस्ते नारका दन्दह्यमानाः करुणं दीनं स्तनन्त्याक्रन्दन्ति / तत्र बादराग्नेरभावात् , तदुपमा भूमिमित्युक्तम्। एतदपि दिग्दर्शनार्थमुक्तम् , अन्यथा नारकतापस्येहत्याग्निना नोपमा घटते / ते च नारका महानगरदाहाधिकेन तापेन दह्यमाना अरहःस्वरा अप्रकटस्वरा महाशब्दाः सन्तः, तत्र तस्मिन्नरकावासे, चिरं प्रभूतं कालं स्थितिरवस्थानं येषां ते, तथा ह्युत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि, जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति। जइ ते सुया वेयरणीऽऽभिदुग्गा, णिसिओ जहा खुर इव तिक्खसोया। तरंति ते वेयराणिंऽभिदुग्गां, उसुचोइया सत्तिसु हम्ममाणा||८|| (जइ ते सुया इत्यादि) सुधर्मस्वामी जम्बूस्वामिनं प्रतीदमाह-यथा भगवतेदमाख्यातम्-यदिते त्वया श्रुता श्रवणपथमुपागता वैतरणी नाम क्षारोष्णरुधिराऽऽकारजलवाहिनी नदी आभिमुख्येन दुर्गाऽभिदुर्गा दुःखोत्पादिका / तथा निशितो यथा क्षुरस्तीक्ष्णानि शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, तेच नारकास्तप्ताङ्गारसन्निभा भूमि विहायोदकं पिपासवोऽभितप्तः सन्तस्तापापनोदायाभिषिषिक्षवो वा तां