________________ गरग 1917- अभिधानराजेन्द्रः भाग-१ णरग ब्द एवेति। सच भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपि च वरत्वभ्युपगच्छतीति। वाचकं वाचकं प्रति वाच्यभेदं समभिरोहत्याश्रयति यः स समभिरूढः / स ह्यनन्तरोक्तविशेषणस्याऽपि वस्तुनः शक्रपुरन्दराऽऽदिवाचकभेदेन भेदमभ्युपगच्छति, घटपटाऽऽदिवदिति। यथा शब्दार्थो घटते चेष्टत इति घट इत्यादि-लक्षण एवमिति तथाभूतः सत्यो घटाऽऽदिरों, नान्यथेत्येवमभ्युपगमपर एवंभूतो नयः। अयं हि भावनिक्षेपाऽऽदिविशेषणोपेत व्युत्पत्त्यर्थाऽऽविष्टमेवार्थमिच्छति, जलाऽऽहरणाऽऽदिचेष्टावन्तं घटमेवेति / तत्राऽऽद्यत्रयस्याऽशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच पृथिवीप्रतिष्ठितत्वं नारकाणामिति तत्त्वम्, चतुर्थस्य शुद्धत्वात् आकाशस्य च गच्छतां तिष्ठतां वा सर्वभावानामैकान्तिकाऽऽधारत्वाद् भुवोऽनैकान्तिकत्वाचाऽऽकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाऽधिकरणस्याऽन्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति / न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनाऽपि भवन्तीति। यत आह भाष्यकार:-" वत्थु वसइ सहावे, सत्ताओ चेयण व्व जीवम्भि। न विलक्खणतणाओ, भिन्ने छायातवे चेव " // 2242 / / (विशे०) इति। स्था० 3 ठा० 3 उ० (उपपातः ' उववाय ' शब्दे द्वितीयभागे 615 पृष्ठादारभ्य द्रष्टव्यः)(एवं शरीरावहारणावगाहने-ऽपि स्वस्थाने) (45) नरकदुःखवर्णनम्पुच्छिस्सहं केवलिणं महेसिं, कहऽभितावा णरगा पुरस्था। अजाणओ मे मुणि ! वूहि जाणं, कहिं नु वाला नरए उविति ? ||1|| जम्बूस्वामिना सुधर्मस्वामी पृष्टः। तद्यथा-भगवन् ! किंभूता नारकाः, कैर्वा कर्मभिरसुमतां तेषूत्पादः, क्रीदृश्यो वा तत्रत्या वेदनाः ? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवताऽहं पृष्टस्तदेतत् केवलिनमतीतानागतवर्तमानसुक्ष्मव्यवहितपदार्थवेदिनं, महर्षिमुग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णु श्रीमन्महावीरवर्धमानस्वामिनं, पुरस्तात् पूर्व पृष्टवानस्मिा यथा-कथंकिं-भूता अभितापान्विता नरका नरकावासा भवन्ति ? इत्येतदजानतो मे मम हे मुने ! जानन् पूर्वमेव केवलज्ञानेनावगच्छन् ब्रूहि कथय / कथं नुकेन प्रकारेण किमनुष्ठायिनः ? नुरिति वितर्के / बाला अज्ञा हिताहितप्राप्तिविवेकरहिताः, तेषु नरकेषूपसामीप्येन तद्योग्यकर्मोपादानतया, यान्ति गच्छन्ति।१। (46) किंभूताश्च तत्र गतानांवेदनाः प्रादुःषन्तीत्येतद्याऽऽह एवं मए पुढेंमहाणु भवे, एवं मए पुढेमहाणुभावे, इण मोऽव्ववी कासवेआसुपन्ने। पवेदइस्सं दुहमट्ठदुग्गं, आदीणिणं दुक्कमिणं पुरत्था / / 2 / / एवमनन्तरोक्तं, मया विनेयेनोपगम्य पृष्टो महाँश्चतुस्विंशदतिशयरूपोऽनुभावो माहात्म्यं यस्य स तथा प्रश्नोत्तरकालं चेदं वक्ष्यमाणम् , "मो'' इति वाक्यालङ्कारे, केवलाऽऽलोकेन परिज्ञाय मत्प्रश्ननिर्वचनम ब्रवीदुक्तवान् / कोऽसौ ? काश्यपो वीरो वर्द्धमानस्यामी, आशुप्रज्ञः, सर्वत्र सदोपयोगात् , स चैवं मया पृष्टो भगवानिदमाह-यथा यदेतद्भवता पृष्टं तदहं प्रवेदयिष्यामि कथयिष्या-म्यग्रतो दत्तावधानः शृण्विति / तदेवाऽऽह-दुःखमिति नरकं दुःख-हेतुत्वात् असदनुष्ठानम् / यदि वा नरकाऽऽवास एव दुःखयतीति दुःखम् / अथवा-असातावेदनीयोदयात् तीव्रपीडाऽऽत्मकं दुःख-मित्येतचाऽर्थतः परमार्थतो विचार्यमाणं दुर्ग गहनं विषमं दुर्विज्ञेयम् असर्वज्ञेन, तत्प्रतिपादकप्रमाणाभावादित्यभिप्रायः / यदि वा (दुह-मट्ठदुग्गं ति) दुःखमेवार्थो यस्मिन् स दुःखनिमित्तो वा दुष्प्रयोजनो वा दुःखार्थो नरकः, स च दुर्गो विषमो दुरुत्तरत्वात् , तं प्रतिपाद-यिष्ये / पुनरपि तमेव विशिनष्टि-आ समन्ताद्दीनमादीनं तद्विद्यते यस्मिन् स आदीनिकोऽत्यन्तदीनसत्त्वाऽऽश्रयः तद् , दुष्कृतमस-दनुष्ठानं पापंवा तत्फलं वा, असातावेदनीयोदयरूपंतद्विद्यते यस्मिन् स दुष्कृतिकः, तं. पुरस्तादग्रतः प्रतिपादयिष्ये। पाठान्तरं वा(दुक्कडिणं ति) दुष्कृतं विद्यते येषां ते दुष्कृतिनो नारकास्तेषां संबन्धि चरितं पुरस्तात् पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतं प्रतिपादयिष्यत इति। यथाप्रतिज्ञातमेवाऽऽहजे केइ वाला इह जीवियट्ठी, पावाइँ कम्माइँ करंति रुद्दा। ते घोररूवे तडिसंघयारे, तिव्वामितावे नरए पडं ति॥३॥ ये केवल महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणाऽऽदिके सावद्यानुष्ठाने प्रवृत्ता बाला अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्याः, इहास्मिन् संसारेऽसंयमजीवितार्थिनः पापोपादानभूतानि कर्माण्यनुष्ठानानि रौद्राः प्राणिनां भयोत्पादकत्वेन भयानकहिंसाऽनृताऽऽदीनि कर्माणि कुर्वन्ति, त एवंभूतास्तीव्रपापोदयवर्तिनो घोररूपेऽत्यन्तभयानके (तमिसंघयारे ति) बहुलतमोऽन्धकारे यत्राऽऽत्माऽपि नोपलभ्यते-चक्षुषा केवलमवधिनाऽपि मन्द मन्दमुलूका इवाह्नि पश्यन्ति। तथा चाऽऽगमः-" कण्हलेस्से णं भंते ! णेरइए कण्ह-लेस्सं जेरइयं पाणयाए ओहिणा सव्वओ समंता समभिलोएमाणे केवइयं खेत्तं जाणइ, केवइअंखेत्तं पासइ ? गोयमा ! नो बहुययरं खेत्तं जाणइ, णो बहययरं खेत्तं पासइ। इत्तरियमेव खेत्त जाणइ, इत्तरिअमेव खेतं पासइ।" इत्यादि / तथा तीव्रो दुःसहः खदिरागगारमहाराशितापादनन्तगुणोऽभितापः संतापो यस्मिन् स तीव्राभितापस्तास्मिन् एवंभूते नरके बहुवेदनेऽपरित्यक्तविषयाऽभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति च। तथा चोक्तम्"अच्छदियविसयसुहे, पडइ अविज्झायसिहिसिहाणिवहे। संसारोदहिवलए-ऽसुहम्मि दुक्खाऽऽगरे निरए / / 1 / / पूयक्कनीस्थलगुह-कुहरुच्छलिएरुहिरगंडूसे। कक्खत्तिकत्तियदुहा-विरिक्कविवइण्णदेहः // 2 // जंतंतरभिज्जंतु-च्छलंतसंसहभरियदिसिविवरे। मजंतुम्फिडियसमु-च्छलंतसीसद्विसंधाए।। 3 / / सुक्कक्कंदकडाहु-कदंतदुक्यकयंतकम्मते। मूलविभिन्नुखित्तु-द्धदेहणित्तंतपब्भारे / / 4 / / बद्धधयारदुग्ग-धबंधणायारदुद्धरकिलेसे। भिन्नकरचरणसंकर-रुहिरवसादुग्गमप्पवहे / / 5 / /