________________ णरंग 1616 - अभिधानराजेन्द्रः भाग - 4 णरग दितव्या। (देवे य णमित्यादि) देवश्च, णमिति वाक्यालङ्कारे। मह-द्धिकः महती ऋद्धिर्विमानपरिवाराऽऽदिका यस्य स महर्द्धिकः, महती द्युतिः शरीराभरणविषया यस्य स महाद्युतिकः, महद् बलं शरीरं प्राणा यस्य स महाबलः, महद्यशः ख्यातिर्यस्य स महायशाः, तथा (महेसक्खे इति) महेश इति महान् ईश्वर इत्याख्या यस्य स महेशाख्यः। अथवाईशनमीशो भावे घञ्प्रत्ययः, ऐश्वर्यमित्यर्थः, ' ईश 'ऐश्वर्ये इतिवचनात् / तत ईशमैश्वर्यमात्मनः ख्यातिः, अन्तर्भूतण्यर्थतया ख्यापयति प्रथवति, ईशाख्यः महाँश्चासावीशाऽऽख्यश्च महेशाख्यः / क्वचित्" महासोक्खे" इति पाठः। तत्र महत् सौख्यं यस्य प्रभूतसवद्योदयवशात् समहासौ-ख्यः। अन्येपठन्ति-" महासक्खे इति "तत्रायं शब्दसंस्कारो महाश्वाक्षः / इयं चात्र पूर्वाऽऽचार्यप्रदर्शिता व्युत्पत्तिः, आशुगमनादश्वो मनः, अक्षाणि इन्द्रियाणि स्वविषयव्यापकत्वात् , अश्वश्चाक्षाणि च अश्वाक्षाणि, महान्ति अश्वाक्षाणि यस्याऽसौ महाश्वाक्षः / तथा(महाणुभागे इति) अनुभागो विशिष्टवैक्रियाधिकरणविषया अचिन्त्या शक्तिः," भागो चिंता सत्ती " इति वचनात्। महान् अनुभागो यस्य स महानुभागः। अमूनि महर्द्धिक इत्यादीनि विशेषणानि तत्सामर्थ्यातिशयप्रतिपादकानि / यावदिति चप्पुटिकात्रयकरणकालावधिप्रदर्शनपरम् / " इणामेव त्ति कटु "एव-मेव मुधिकया,' एमेव मोरकल्ला (कुल्ला), मुहा य मुहिय त्ति नायव्वा।" इति वचनात् / अवज्ञयेति भावः। उक्तं च मूलटीका-याम्-(इणामेवेति कटु) एवमेव मुधिकया अयज्ञयेति इतिकृत्वेति हस्तदर्शितचप्पुटिकात्रयकरणसूचकम् , केवलकल्पं परिपूर्ण जम्बू-द्वीपं त्रिभिरप्सरोनिपातैः / अप्सरोनिपातो नामचप्पुटिका, तत्र तिसृभिश्चप्पुटिकाभिरिति द्रष्टव्यम् / चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिसश्चप्पुटिकाः पूर्यन्ते, तावत्कालमध्ये इत्यर्थः / त्रिःसप्तकृत्व एकविंशतिवारान् , अनुपरिवर्त्य सामस्त्येन परिभ्रम्य, ' हव्वं शीघ्रमागच्छेत् . स इत्थम्भूतगमनशक्तियोग्यो देवस्तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया, शीघ्रसंचरणात् त्वरितया, त्वरा संजाता अस्यामिति त्वरिता, तया त्वरितया, शीघ्रतरमेव तया प्रदेशान्तराक्रमणमिति; चपलेव चपला, तया, क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा, तथा, निरन्तरं शीघ्रगुणयोगात् शीघ्रा, तयाशीघ्रया, परमोत्कृष्टवेगपरिणामोपेता जवना, तया। अन्ये तु जैनया विपक्षजेतृत्वेनेति व्याचक्षते; छेकया निपुणया, वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्भूता, तथा / अन्ये त्वाहुः-उद्भूतया तदर्थातिशयेनेति, दिव्या दिवि देवलोके भवा दिव्या, तया, देवगत्या व्यतिव्रजन् जघन्यत एकाहं वा एकमहावत्, एवं व्यहं त्र्यहमुत्कर्षतः षण्मासान्यावत्व्यतिव्रजन्, तत्रास्त्येतद्द्यदुत एककान् काश्चन नरकान् व्यतिव्रजेत् उल्लङ्ध्य परतो गच्छेत् , तथाऽस्त्येतत् यदुत-इत्थंभूतयाऽपि गत्या षण्मासानपि यावद् निरन्तरं गच्छनएककान काँश्चन नरकान् नव्यतिव्रजेत् नोलध्य परतो गच्छेत्, अतिप्रभूतायामतया तेषामन्तस्य प्राप्तुमशक्यत्वात् , एतावन्तो महान्तो गौतम ! अस्यां रत्नप्रभायां नरकाः प्रज्ञप्ताः / एवमेकैकस्यां पृथिव्यां तावद्वक्तव्यं, यावदधः सप्तम्यां, नवरमधः सप्तम्यामेवं वक्तव्यम्-" अत्थेगइयं णरगं वीईवएज्जा, अत्थेगइए नरगे नो वीईवएज्जा / " अप्रतिष्ठानाऽभिधस्यैकस्य नरकस्य लक्षयोजनाऽऽयामविष्कम्भतया अन्तस्य प्राप्तुं शक्यत्वात्, शेषाणां च चतुर्णामपि प्रभूतासंख्येययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वात्। (43) संप्रति किंमया नरकाः?, इति निरूपणार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए नरगा किंमया पण्णत्ता? गोयमा ! सव्ववइरामया पण्णत्ता। तत्थ णं णरएसु बहवे जीवा य पोग्गला य अवक्कमंति, विउक्कमंति, चयंति, उववजंति, सासता णं ते नारगादवट्ठयाएवण्णपज्जवेहिं गंधपञ्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासता, एवं० जाव अहे सत्तमा / / (इमीसे णं भंते ! इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किम्मयाः किंविकाराः प्रज्ञप्ताः? भगवानाह-गौतम! (स-व्यवइरामया इति) सर्वाऽऽत्मना वज़मयाः प्रज्ञप्ताः, वज़शब्दस्य सूत्रे दीर्घता प्राकृतत्वात् / तत्र च येषु नरकेषु णमितिवाक्यालडारे, बहवो जीवाश्च खरबादरपृथिवीकायिकरूपा, पुद्गलाश्च अपक्रामन्ति, च्यवन्ते, उत्पलन्ते / एतदेव शब्दद्वयं यथाक्रमं पर्यायद्वयेन व्याचष्टे-(चयंति उववजंति) च्यवन्ते, व्युत्क्रामन्ति उत्पद्यन्ते। किमुक्तं भवति ?-एके जीवाः पुद्गलाश्च यथायोगं गच्छन्ति, अपरं त्वागच्छन्ति / यस्तु प्रतिनियतसंस्थानाऽऽदिरूप आकारः स तदवस्थ एवेति। अत एवाऽऽह(सासता समिति) पूर्ववत्, ते नरका द्रव्यार्थतया तथाविधप्रतिनियतसंस्थानाऽऽदिरूपतया वर्णपर्यायैः गन्धपर्यायैः रसपर्यायैः स्पर्शपर्यायः पुनरशाश्वता वर्णाऽऽदीनामन्यथाभवनात्। एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तमी पृथिवी / जी० 3 प्रति०। (44) किंप्रतिष्ठिता नरकाः?तिपइट्ठिया णरगा पण्णत्ता / तं जहा-पुढवीपइट्ठिया णरगा आगासपइट्ठिया, आयपइट्ठिया / णेगमसंगहववहाराणं पुढविपइट्ठिया, उज्जुसुयस्स आगासपइट्ठिया, तिण्हं सद्दणयाणं आयपइट्टिया। स्फुट केवलं नारका नरकाऽऽयासा आत्मप्रतिष्ठिताः स्वरूपप्रतिष्ठिताः। तत्प्रतिष्ठानं नयैराह-(णेगमेत्यादि) नैकेन सामान्यविशेषग्राहकत्वात् तस्याऽनेकेन ज्ञानेन मिनोति परिच्छिनत्तीति नैगमः / अथवा-निगमा निश्चितार्थबोधाः, तेषु कुशलो भवो वा नैगमः। अथवा-नैको गमोऽर्थमार्गो यस्य स प्राकृतत्वेन नैगमः // 1 / / संग्रहणं भेदानां संगृह्णाति वा तान् संगृह्यन्ते वा ते येन स संग्रहः, सामान्यमात्राभ्युपगमपर इति // 2 // व्यवहरणं व्यवह्रियते वा तेन विशेषेण वा सामान्येन व्यवहियते निराक्रियतेऽनेनेति लोकव्यव-हारपरो व्यवहारो विशेषमात्राभ्युपगमपरः // 3 // एतेषां नयानां मतेनेति गम्यम्। ऋजु अवक्रमभिमुखं श्रुतं श्रुतज्ञानं यस्येति ऋजु-श्रुतः, ऋजुवाऽतीतानागतवक्रपरित्यागाद्वर्तमानं वस्तु सूत्रयति गमयतीति ऋजु सूत्रः, स्वकीय सांप्रतं च वस्तु नान्यदित्यभ्युपगमपरः / शद्यते अभिधीयते अभिधेयमनेनेति शब्दो वाचको ध्वनिः, नयन्ति परिच्छिन्दन्ति अनेकधर्माऽऽत्मकं सद् वस्तु सावधारणतयैकेन धर्मेणेति नयाः शब्दप्रधाननयाः। ते च त्रयः-शब्दसमभिरूदैवंभूताऽऽख्याः / तत्र शपनमभिधानं, शप्यते वा येन वस्तु स शब्दः, तदभिधेय विमर्शनपरो नयोऽपि श