SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ णरग 1915 - अभिधानराजेन्द्रः भाग - 4 णरग रिणामहेतुः (विगयं इति) विप्रनष्ट तदभिमुखतया प्राणिनां गतं गमनं यस्मिन् स तथा, वीभत्सया निन्दयाऽदर्शनीयो बीभत्सादर्शनीयः, ततो विशेषणसमासः, अशुचिर्विगतबीभत्सादर्शनीयः (किमिजालाउलसंसत्ते इति) संसक्तः सन कृमिजालाकुलो जातः कृमिजालाकुलसंसतः, मयूरव्यंसकाऽऽदित्वात् समासः, संसक्तशब्दस्य चपरनिपातः। एतावदुक्ते गौतम ! आह-(भवे एयारूवे सिया इति) स्याद्भवेदेतद् यदुत भवेयुरेतद्रूपा यथोक्तविशेषणविशिष्टाऽहिमृताऽऽदिरूपगन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽपि एकवचनं प्राकृतत्वात्। भगवानाह-गौतम ! नायमर्थः समर्थःनायमर्थ उपपन्नः, यतोऽस्यां रत्नप्रभायां पृथिव्यां नरका इतो यथोक्तविशेषणविशिष्टाऽहिमृतादनिष्टतरा एव, तत्र किञ्चिद्भव्यमपि कस्याऽप्यनिष्टतरं भवति / तत आह-अकान्ततरा एव स्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः / तत्राकान्तमपि कस्याऽपि प्रियं भवति, यथा गर्ताशुकरस्याशुचिः, तत आह-अप्रियतरा एव, न कस्यापि प्रिया इति भावः। अत एवामनोज्ञतरा एव गन्धमधिकृत्य प्रज्ञप्ताः, तत्र मनोज्ञं मनोऽनुकूलमात्रं यत् पुनः स्वविषये मनोऽत्यन्तमासक्तं करोति तद्, न मनोज्ञममनोज्ञम्। एकार्थिका वाएते सर्वे शब्दाः शक्रेन्द्रपुरन्दराऽऽदिवद् नानादेशजविनेयजनानुग्रहार्थमुपात्ताः, एवं पृथिव्यां तावद्द्वक्तव्यं यावदधः सप्त-म्याम्। (41) स्पर्शमधिकृत्याऽऽहइमीसे णं भंते ! रयणप्पभाए पुढवीए णरया के रिसया फासेणं पण्णत्ता ? गोयमा ! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलंवचीरियापत्तेइ वा सत्तग्गेति वा कुंतग्गेति वा तोमरग्गेति वा नारायग्गेति वा मूलग्गेति वा लउडग्गेति वा भिंडिमालग्गेति वा सूचिकलाएति वा कविकच्छुत्ति वा विच्छुकंटेति वा इंगालेति वा जालाएति वा मुम्मुरएति वा अचि त्ति वा अलाएति वा सुद्धागणिएति वा / भवे एयारूवे सिया? णो इणढे समढे / गोयमा! इमीसे णं रयणप्पभाए पुढवीएणरगा एतो अणिकृतरा चेव जाव अमणामतरा चेव वा फासेणं पण्णत्ता / एवं० जाव अहे सत्तमाए पुढवीए। (इमीसे णमित्यादि) प्रश्नसूत्रं सुगमम् / भगवानाह-गौतम ! तद्यथा नाम-असिपत्रमिति वा-असिः खङ्ग,तस्य पत्रमसिपत्रं, क्षुरपत्रमिति वा, कदम्बचिरिकापत्रमिति वा, कदम्बचिरिका तृणविशेषः-सच दर्भादप्यतीव तुदकः, शक्तिः प्रहरणविशेषः, तदग्रमिति वा, कुन्ताग्रमिति वा, तोमराग्रमिति वा, भिण्डिमालः प्रहरणविशेषः, तदग्रमिति वा, सूचीकलाप इति वा, कपिकच्छूरिति वा, कपिकच्छूः कण्डूतिजनको वल्लीविशेषः, वृश्चिकदंश इतिवा, अङ्गार इति वा, अङ्गारो निधूमाग्निः, ज्वालेति वा, ज्वाला अनलसंबद्धा (मुम्मुर इतिवा) मुर्मुरः फुस्फुकाऽऽदौ मसृणोऽग्निः, अर्चिरिति वा, अर्चिरनलविच्छिन्ना ज्वाला, अलातमुल्मुकम् , शुद्धाग्निरयःपिण्डानुगतोऽग्निः, विद्युदादिर्वा, इतिशब्दः सर्वत्रापि उपमाभूतवस्तुस्वरूपपरिसमाप्तिद्योतकः, वाशब्दः परस्परसमु चये / इह कस्याऽपि नरकस्य स्पर्शः शरीरावयवच्छेदकोऽपरस्य भेदकोऽन्यस्य व्यथाजनकोऽपरस्य दाहक इत्यादि / ततः साम्यप्रतिपत्त्यर्थमसिपत्राऽऽदीनां नानाविधानामुपमानानामुपादानम् (भवे एयारूवे सिया इत्यादि) प्राग्वत्। (42) संप्रति नरकाऽऽवासानां महत्त्वमभिधित्सुराहइमीसे णं भंते ! रयणप्पभाए पुढवीए नरगा किं महालया पण्णत्ता? गोयमा ! अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतरए सव्वखुद्दाए वट्टे तेल्लापूत (तेल्लपूप)(तेल्लापूप) संठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे रहचक्कबालसंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिते एक जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचि विसेसा-हिए परिक्खेवेणं, देवे णं महिडिए० जाव महाणुभागे० जाव इणामेव त्ति कट्ट के वलकप्पं जंबुद्दीवं तिहिं अच्छराणि वा तिहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, से णं देवे ताए उकिट्ठाए तुरियाए चवलाए चंडाए सिग्धाए जइणाए छेइयाए उद्धयाए दिव्वाए देवगईए वीतीवयमाणे जहण्णेणं एगाहं वा दुयाह वा तियाहं वा, उक्कोसेणं छम्मासे वीईवएज्जा, अत्थेगतिएणरगे वीईवएज्जा, अत्थेगतिए णो वीतीवएज्जा, महालया णं गोयमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा पण्णत्ता / एवं० जाव अहे सत्तमाए अत्थेगतियं नरगं वीईवएज्जा, अत्थेगइयं नरगं नो वीईवएज्जा। (इमीसे णं इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किं महान्तः किंप्रमाणा महान्तः प्रज्ञप्ताः ? पूर्व त्वसंख्येयविस्तृता इति कथितं, तचासंख्येयत्वं नावगम्यते इति भूयः प्रश्नः। अत एवाऽवनिर्वचनं भगवानुपमयाऽभिधत्ते-गौतम ! अयमिति यत्र स्थिता वयं, णमिति वाक्यालङ्कारे, अष्टयोजनोच्छूितया रत्नमय्या जम्ब्वा उपलक्षितो द्वीपो जम्बूद्वीपः, सर्वद्वीपसमुद्राणां घातकीखण्डलवणाऽऽदीनां सर्वाभ्यन्तर आदिभूतः, सर्वक्षुल्लकः सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको ह्रस्वः सर्वक्षुल्लकः / तथाहि-सर्वेलवणाऽऽदयः समुद्राः सर्वेधातकीखण्डाऽऽदयो द्वीपा अस्माद् जम्बूद्वीपादारभ्य प्रवचनोक्तक्रमेण द्विगुणद्विगुणाऽऽयामविष्कम्भपरिधयः, ततोऽयं शेषसर्वद्वीपसमुद्रापेक्षयाः सर्वलघुरिति, तथा वृत्तो, यतस्तैलापूपसंस्थानसंस्थितः, तैलेन पक्वोऽपूपस्तैलापूपः, तैलेन हिपक्वोऽपूपः प्रायः परिपूर्णवृत्तो भवति, नघृतेन पक्व इति तैलविशेषणं, तस्येव संस्थान, तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तो, यतः पुष्करकर्णिकासंस्थानसंस्थितः, तथा वृत्तो, यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो, यतः परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकधोपमानोपमेयभावो नानादेशजविनेयप्रतिपत्यर्थः / एक योजनशतसहस्रमायामविष्कम्भेण, त्रीणि योजनशतनैव स्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशे त्रय शा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अङ्गुिलानि किचिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तः / परिक्षेपपरिमाण भावना क्षेत्रसमासटीकातो, जम्बूद्वीपप्रज्ञमिटीक
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy