________________ णरग 1914 - अभिधानराजेन्द्रः भाग - 4 णरंग वित्थडा य / तत्थ णं जे ते संखेचवित्थडा ते णं संखेज्जाई जोयणसहस्साई आयामविक्खंभेणं, संखेज्जाइं जोयणसहस्साइं परिक्खेवेणं पण्णत्ता। तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेज्जाई जोयणसहस्साइं आयामविक्खंभेणं, असंखेज्जाई जोयणसहस्साई परिक्खेवेणं पण्णत्ता / एवं० जाव तमाए॥ (इमीसेण भंते! इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायाविष्कम्भेन, समाहारो द्वन्द्वः, आयामविष्क-म्भाभ्या- | मित्यर्थः / कियत् परिक्षेपेण परिरयेण प्रज्ञप्ताः ? भगवानाह- गोयमा ! द्विविधाः प्रज्ञप्ताः / तद्यथा-संख्येयविस्तृताश्च, असंख्येयविस्तृताश्च / संख्येयं संख्येययोजनप्रमाणं विस्तृतं विस्तारो येषांते संख्येयविस्तृताः, एवमसंख्येयं विस्तृतं येषां तेऽसंख्येयविस्तृताः / चशब्दो स्वगतानेकभेदप्रकाशनपरौ / तत्र ये ते संख्येयविस्तृतास्ते संख्येयानि योजनसहस्राणि आयामविष्कम्भेण, संख्येयानि योजनसहस्राणि परिक्षेपेण / तत्र येतेऽसंख्येयविस्तृतास्ते असंख्येयानि योजनसहस्राणि आयामविष्कम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्ताः। एवं प्रतिपृथिवि तावद् वक्तव्यं यावत् षष्ठी पृथ्वी। सूत्रपाठस्त्वेवम्-'' सक्करप्पभाए णं पुढवीए नरगा केवइयं आयामविक्खंभेणंय, केवइयं परिक्खेवेणं पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता। तं जहा-संखेनवित्थडा य, असंखेजवित्थडा य।" इत्यादि / / अहे सत्तमाए णं भंते ! पुच्छा? गोयमा ! दुविधा पण्णत्ता ? तं जहा-संखेजवित्थडे य, असंखेज्जवित्थडा य / तत्थ णं जे से संखेज्जवित्थडे, से णं एक जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिष्णि कोसे अट्ठावीसं धणुसयाई तेरस य अंगुलाई अद्धंगुलयं च किंचि विसेसाहिए परिक्खेवेणं पण्णते। तत्थ णं जे ते असंखेजवित्थडा, ते णं असंखेज्जाइं जोयणसयसहस्साई आयामविक्खंभेणं असंखेन्जाइं० जाव परिक्खेवेणं पण्णत्ता। (अहे सत्तमाएणं भंते ! इत्यादि) अधः सप्तम्यां भदन्त! पृथिव्यां नरकाः कियदायामविष्कम्भेण, कियत्परिक्षेपेण प्रज्ञप्ताः? भगवानाह-गौतम! द्विविधाः / तद्यथा-सङ्ख्येयविस्तृत एकः, स चाप्रतिष्ठानाऽभिधानो नरकेन्द्रकोऽवसातव्यः / असंख्येयविस्तृ-ताश्चत्वारः / तत्र योऽसौ संख्येयविस्तृतोऽप्रतिष्ठानाऽभिधानो नरकेन्द्रकः, स एकं योजनशतसहस्रमायामविष्कम्भेण, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशे सप्तविंशत्यधिके त्रयः कोशा अष्टाविंशं धनुश्शत त्रयोदश अङ्गुलानि अङडुलं च किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तः / इदं परिक्षेपपरिमाणं गणितभावनया जम्बूद्वीपपरिक्षेपपरिमाणवद्भावनीयम् / ये ते शेषाश्चत्वारोऽसंख्येयविस्तृतास्तेऽसंख्येयानि योजनशतसह-स्राण्यायामविष्कम्भेण, असंख्येयानियोजनसहरत्राणि परिक्षेपेण प्रज्ञप्ताः। (36) संप्रति नरकाऽऽवासानां वर्णप्रतिपादनार्थमाहइमीसे णं रयप्पभाए पुढवीए नरया के रिसया वण्णेणं पण्णत्ता? गोयमा ! काला, कालावभासा, गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पण्णत्ता, एवं० जाव अहे सत्तमाए। (इमीसे णं भंते ! इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशा वर्णेन प्रज्ञप्ताः ? भगवानाह-गौतम ! कालाः, तत्र कोऽपि निष्प्रभतया मन्दकालोऽपि आशङ्कथेत, ततस्तदाशङ्काव्यवच्छेदार्थ विशेषणान्तरमाह-कालाऽवभासाः कालः कृष्णोऽवभासः प्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः। अत एव गमभीररोमहर्षाः-गम्भीरोऽतीवोत्कटो रोमहर्षो भयवशाद् येभ्यस्ते गम्भीररोमहर्षाः / किमुक्तं भवति ?-एवं नाम ते कृष्णाः कृष्णाऽवभासाः, यदर्शनमात्रेण नारकजन्तूनां भयसंपादनेन रोमहर्षमुत्पादयन्तीति। अत एव भीमा भयानकाः, भीमत्वादेव उत्त्रास्यन्ते नारका जन्तव एभिरिति उत्त्रासनाः, उत्त्रासना एव उत्त्रासनकाः, वर्णन वर्णमधिकृत्य परमकृष्णाः प्रज्ञप्ताः; यत ऊर्द्ध न किमपि भयानक कृष्णमस्तीति भावः / एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम्याम्। (40) गन्धमधिकृत्याऽऽहइमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा केरिसया गंधेणं पण्णत्ता ? गोयमा ! से जहानामए अहिमडे ति वा, गोमडे ति वा, सुणमडे ति वा, मजारमडे ति वा, मणुस्समडे ति वा, महिसमडे ति वा, मुसगमडे ति वा, आसमडे ति वा, हत्थिमडे तिवा, सीहमडे तिवा, वग्घमडे तिवा, विगमडे तिवा, दीवयमडे ति वा, मयकुहियचिरविनट्ठकुणिमवावण्णदुरभिगंधे असुइचिलीणविगयवीभच्छदरिसणिज्जे किमिज्जालाउलसंसत्ते / भये एयारूवे सिया ? णो इणढे समढे गोयमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिट्ठतरका चेव अकंततरका चेव० जाव अमणामतरा चेव गंधेणं पण्णत्ता। एवं जाव अहे सत्तमाए पुढवीए॥ (इमीसे णं भंते ! इत्यादि) प्रश्नसूत्रं सुगमम्। भगवानाह-गौतम! तद्यथा नाम-अहिमृत इति वा, अहिमृतो नाम-मृताहिदेहः, एवं सर्वत्र भावनीयम् / गोमृत इति वा, श्चमृत इति वा, मार्जारमृत इति वा, हस्तिमृत इति वा. सिंहमृत इति वा, व्याघ्रमृत इति वा, द्वीपकमृत इति वा, द्वीपक श्चित्रकः / सर्वत्र अहिश्चासौ मृतश्च अहिमृत इत्येवं विशेषणसमासः / इह मृतकं सद्यःसंपन्नं न विगन्धि भवति।तत आह-(मयकुहियचिरविणट्ठकुणिमवावण्णे त्यादि) मृतः सन् कुथितः पूतिभावमुपगतो मृतकुथितः, स चोच्छूनावस्थामात्रगतोऽपि भवति / न च स तथा विगन्धस्तत आह-चिरविनष्ट उच्छूनावस्थां प्राप्य स्फुटित इति भावः / सोऽपि तथा दुरभिगन्धः, तथा न भवति, तत आह(कुणिमवावण्णेति) व्यापन्नं विशरारुभूतं कुणिम मांसं यस्य स तथा। ततो विशेषणसमासः / दुरभिगन्ध इति / दुरभिः सर्वेषामाभिमुख्येन दुष्टो गन्धो यस्याऽसौ दुरभिगन्धः। अशुचिश्चिलीनो मनसः कलिमलप