SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ णरग 1913 - अभिधानराजेन्द्रः भाग - 4 णरग चिक्खिल्ललित्ताणुलेवणतला इति) स्वभावतः संपन्नैर्मेदोवसापूतिरुधिरमांसैर्यश्चिक्खिल्लः कर्दमस्तेन लिप्तमुपदिग्धमनुलेपनेन सकृल्लिप्तस्य पुनःपुनरुपलेपनेन तलं भूमिका येषां ते मेदोवशापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, अत एवाशुचयोऽपवित्राः, वीभत्सा दर्शनेष्वतिजुगुप्सोत्पत्तेः, परमदुरभिगन्धा मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः (काओअगणिवण्णाभा इति) लोहे धम्यमाने यादृक्कपोतो बहुकृष्णरूपोऽग्नेर्वर्णः / किमुक्तं भवति?-यादृशी बहुकृष्णवर्णरूपा अग्निज्वाला विनिर्गच्छतीतितादृशी आभा वर्णस्वरूपं येषां ते कपोताग्निवर्णाभाः, तथा कर्कशोऽतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव-(दुरहियासा इति) दुःखेनाध्यस्यन्ते दुरध्यासाः, अशुभा दर्शनतो नरकास्तथा गन्धरसस्पर्शशब्दैरशुभा अतीवासातरूपाः नरकेषु वेदनाः, एवं सर्वास्वपि पृथिवीष्वालापको वक्तव्यः / जी० 3 प्रति०। (' ठाण' शब्देऽस्मिन्नेव भागे 1700 पृष्ठ दर्शित आलापः) (नरकाऽऽवाससंख्या उपर्यधश्चैकैकं योजनसहस्रं मुक्त्या यावत्प्रमाणं नरकाऽऽवासयोग्यं पृथिवीबाहल्यं, तत्सर्व संग्रहणीगाथाभिः ठाण' शब्दे 1702 पृष्ठे प्रतिपादितम् ) (35) संप्रति नरकाऽऽवाससंस्थानप्रतिपादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा किंसंठिता पण्णता? गोयमा! दुविधा पण्णत्ता / तं जहा-आवलियपविट्ठा य, आवलियबाहिरा य / तत्थ णं जे ते आवलियपविट्ठा ते तिविहा पण्णत्ता / तं जहा-वट्टा, तंसा, चउरंसा। तत्थ णं जे ते आवलियवाहिरा, ते णाणासंठाणसंठिता पण्णत्ता / तं जहा-अयकोट्ठसंठिया, पिट्ठपयणगसंठिया, कंडूसंठिया, लोहीसंठिया, कडाहसंठिया, थालीसंठिया, पिहडगसंठिया, किण्डगसंठिया, उडजसंठिया, मुरयसंठिया, मुइंगसंठिया, णंदिमुइंगसंठिया, आलिंगसंठिया, सुघोससंठिया, दद्दरसंठिया, पणवसंठिया, पडहसंठिया, भेरीसंठिया,झल्लरिसंठिया, कुत्युवकसंठिया, नालीसंठिया, एवं० जाव तमाए। (इमीसे णं भंते ! इत्यादि) अस्यां भदन्त! रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिताः प्रज्ञप्ताः ? भगवानाह-गौतम ! नरका द्विविधाः प्रज्ञप्ता: ? तद्यथा-आवलिकाप्रविष्टाश्च, आवलिकाबाह्याश्च। चशब्दावुभयेषामप्यशुभतासूचकौ / आवलिकाप्रविष्टा नामअष्टासु दिक्षु समश्रेण्या व्यवस्थिताः, आवलिकासु श्रेणिषु प्रविष्टा व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधाः प्रज्ञप्ताः तद्यथा-वृत्ताःत्र्यस्राः, चतुरस्राः। तत्र येते आवलिकाबाह्याः, ते नानासंस्थानसंस्थिता प्रज्ञप्ताः / तद्यथाअयःकोष्ठो लोहमयकोष्ठस्तद्वत् संस्थिताः (पिट्ठपयणगसंठिया इति) यत्र सुरासंधानाय पिष्टं पच्यते तत् पिष्टपचनकं, तद्वत् संस्थिताः। अत्र संग्रहणीगाथे" अयकोढपिट्ठपयणग-कंडूलोहीकडाहसंठाणा। थालीपिहडगकिण्हग-उडए मुरए मुइंगेसु। नंदिमुइंगे आलिं-गि सुघोसे ददरेवपणवे य। पडहगझल्लरिभेरी-कुत्थुवगनालिसंठाणा // कण्डूः पाकसंस्थानं, लोहीकटाही प्रतीतौ, तद्वत्संस्थानाः, स्थाली उषा, पिहमग यत्र प्रभुतजनयोग्यं धान्यं पच्यते, उटजस्तापसाऽऽश्रमः, मुरजो मर्दलविशेषः, नन्दीमृदङ्गो द्वादशविधतूर्यान्तर्गतो मृदङ्गः। स च द्विधा / तद्यथा-मुकुन्दो, मर्दलश्च / तत्रोपरि संकुचितोऽधो विस्तीर्णो मुकुन्दः, उपर्यधश्च समो मर्दलः / आलिङ्गो मृन्मयो मुरजः, सुघोषो देवलोकप्रसिद्धो घण्टाविशेषः, आतोद्यविशेषो वा, दर्दरो याद्यविशेषः, पणवो भाण्डानाम, पटहः प्रतीतः, भेरी ढका, झल्लरी चौवनदा विस्तीर्णवलयाऽऽकारा, कुस्तुम्बकः संप्रदायगम्यः, नाडी घटिका। एवं शेषास्वपि पुथिवीषु तावद् वक्तव्यं यावत् षष्ठ्याः / सूत्रपाठस्त्वेवम्-" सक्करप्पभाए णं भंते ! पुढवीए णरगा किंसंठिया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता। तं जहा-आवलियापविट्ठा य, आवलियाबाहिराय।" इत्यादि। (36) अधः सप्तमीविषयं सूत्रं साक्षादुपदर्शयतिअहे सत्तमाए णं भंते ! पुढवीए नरगा किंसंठिया पण्णत्ता ? गोयमा! दुविहा पण्णत्ता / तं जहा-बट्टे य, तंसा य। (अहे सत्तमाएणं भंते! इत्यादि) अधः सप्तम्यां भदन्त! पृथिव्यां नरकाः किमिव संस्थिताः? भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ताः / तद्यथा(वट्टे यतंसा य इति) अधः सप्तम्यां हिपृथिव्यां नरका आवलिकाप्रविष्टा एव, नावलिकाबाह्याः, आवलिकाप्रविष्टा अपि पश्च, नाधिकाः, तत्र मध्ये अप्रतिष्ठानाभिधाननरकेन्द्रको वृत्तः, सर्वेषामपि नरकेन्द्रकाणां वृत्तत्वात् / शेषास्तु चत्वारः पूर्वाऽऽदिषु दिक्षु ते त्रयस्यस्राः, तत उक्तंवृत्ताश्च त्र्यप्राश्च। (37) संप्रति नरकाऽऽवासानां बाहल्यप्रतिपादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए नरया केवतियं बाहल्लेणं पण्णत्ता? गोयमा ! तिण्णि जोयणसहस्साइंबाहल्लेणं पण्णत्ता / तं जहा-हेडिल्ले चरिमंते घणा सहस्सं, मज्झे सुसिरा सहस्सं, उपि संकुइया सहस्सं, एवं जाव अहे सत्तमाए॥ अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियबाहल्येन बहलस्य भावो बाहल्यंपिण्डभावः, उत्सेध इत्यर्थः / तेन प्रज्ञप्ताः ? भगवानाहगौतम ! त्रीणि योजनसहस्राणि बाहल्येन प्रज्ञप्ताः / तद्यथा-अधस्तात् पादपीठेघना निचिताः सहस्रं योजनसहस्रं मध्ये पीठस्योपरि मध्यभागे शुषिराः सहस्रं योजनसहस्रं (तत उप्पि ति) उपरि संकुचिताः शिखरीकृत्य संकोचनमुपगता योजनसहस्रं, तत एवं सर्वसंख्यया नरकाऽऽवासानां त्रीणि योजनसहस्राणि बाहल्यतो भवन्ति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम्। __ तथा चोक्तमन्यत्रापि" हेट्ठाघणा सहस्सं, उप्पिं संकोचतो सहस्संतु। मज्झे सहस्स सुसिरा, तिण्णि सहस्सूसिया णरया // 1 // " (38) संप्रति नरकाऽऽवासानामायामविष्कम्भप्रति पादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए नरगा के वतियं आयामविक्खंभेणं, के वतियं परिक्खे वेणं पण्णत्ता ? गोयमा ! दुविधा पण्णत्ता / तं जहा-संखेजवित्थडा य, असंखेज
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy