________________ णरग 1912 - अमिधानराजेन्द्रः भाग - 4 णरग वदधः सप्तमी / (पृथिवीषु विभागतोऽन्तरवक्तव्यता ' अंतर ' शब्दे प्रथमभागे 71 पृष्ठे गता) (32) पृथिव्यो बाहल्येन तुल्याःइमाणं भंते ! रयणप्पभा पुढवी दोचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा, वित्थारेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा ? गोयमा ! इमाणं भंते ! रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं णो तुल्ला, विसेसाहिता, नो संखेजगुणा, वित्थारेणं णो तुल्ला विसेसहीणा, णो संखेजगुणहीणा। दोचाणं भंते ! पुढवी तचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला, एवं चेव भाणियव्वा / एवं तचा चउत्थी पंचमी छट्ठी / छट्ठी णं भंते ! पुढवी सत्तमिं पुढविं पणिहाय बाह-ल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा, एवं चेव भाणियध्वं, सेवं भंते ! भंते ! त्ति। (इमा णं भंते ! इत्यादि) इय भदन्त ! रत्नप्रभा पृथिवी द्वितीयां शर्कराप्रभां प्रणिधायाऽऽश्रित्य बाहल्येन पिण्डभावेन किं तुल्या, विशेषाधिका, संख्येयगुणा ? बाहल्यमधिकृत्येदं प्रश्नत्रयम् / ननु एकाऽशीत्युत्तरयोजनलक्षमाना, अपरा द्वात्रिंशदुत्तरयोजनलक्षमाना इत्युक्तम् , तत्तदर्थावगमे सत्युक्तलक्षणं प्रश्नत्रयमयुक्तम् , विशेषाधिकेति स्वयमेवाऽर्थपरिज्ञानात्। सत्यमेतत्। केवलज्ञप्रश्नोऽयं तदन्यमोहाऽपोहार्थः / एतदपि कथमवसीयते ? इति चेत्, स्वावबोधाय प्रश्नान्तरोपन्यासात्। तथा चाऽऽह-विस्तरेण विष्कम्भेन किं तुल्या, विशेषहीना, संख्येयगुणहीनेति ? भगवानाह-गौतम ! इयं रत्नप्रभा पृथिवी द्वितीया पृथिवीं प्रणिधाय बाहल्येनन तुल्या, किंतु विशेषाधिका, नाऽपि संख्येयगुणा। कथमेतदेवमिति चेत् ? उच्यते-इह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलक्षमाना, शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तदत्रान्तरमष्टाचत्वारिंशद् योजनसहस्राणि, ततो विशेषाधिका घटते, न तुल्या, नाऽपि संख्येयगुणा; विस्तरेण न तुल्या, किंतु विशेषहीना, नाऽपि संख्येयगुणा, प्रदेशाऽऽदिवृद्ध्या प्रवर्द्धमाने तावति क्षेत्रे शर्कराप्रभाया एव वृद्धिसंभवात्। एवं सर्वत्र भावनीयम्। जी०३ प्रति० 1 उ०। (32) संप्रति कस्यां पृथिव्यां कस्मिन् प्रदेशे नरकाऽऽवासा इत्येतत् प्रतिपादनार्थ तावदिदमाहकइणं भंते ! पुढवीओ पण्णत्ताओ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ। तं जहा-रयणप्पभा० जाव अहे सत्तमा। (कइ णं भंते ! इत्यादि) कति भदन्त ! पृथिव्यः प्रज्ञप्ताः ? इति विशेषाऽभिधानार्थमेतदभिहितम् / उक्तं च-" पुटवभणियं जं भण्ण-इ तत्थ कारणं अत्थि पडिसेहो, अणुण्णा, कारणविसेसोवलंभो वा " / भगवानाह-गौतम ! सप्त पृथिव्यः प्रज्ञाप्ताः / तद्यथा-रत्नप्रभा, यावत्तमस्तमःप्रभा। इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए उवरि केवतियं ओगाहित्ता, हेट्ठा केवतियं वजेत्ता, मज्झे केवतिए के वतिया निरयावाससयसहस्सा / पण्णत्ता? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एग जोयणसहस्सं ओगाहित्ता हेट्ठा वि एगंजोयणसहस्सं वजेत्ता मज्झे अवत्तरे जोयणसयसहस्से, एत्थ णं रयणप्पभाए पुढवीए नेरतियाणं तीसं निरयावाससयसहस्सा भवंतीति मक्खायं। (इमीसेणं भंते! इत्यादि) अस्या भदन्त! रत्नप्रभायाः पृथिव्या उपरि क्रियत् किंप्रमाणमवगाह्य, उपरितनभागात् कियत् अतिक्रम्येत्यर्थः / अधस्तात् कियत् किंप्रमाणं वर्जयित्वा, मध्ये कियति किंप्रमाणे कियन्ति नरकाऽऽवासाः शतसहस्राणि प्रज्ञप्ताः ? भगवानाह-गौतम ! अस्याः रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपरि एक योजनसहस्रमवगाह्य, अधस्तादेकं योजनसहखं वर्जयित्वा, मध्ये मध्यभागे अष्टसप्तत्युत्तरे अष्टसप्ततिसहस्राधिके योजनशतसहस्रम् , अत एतस्मिन् रत्नप्रभायां पृथिव्यां नैरयिकाणां योग्यानि त्रिंशन्नरकाऽऽवासशतसहस्राणि भवन्तीत्याख्यातं मया, शेषैश्च तीर्थकृभिः, अनेन सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता। (34) वर्णकःते णं णरगा अंतो वट्टा वाहिं चउरंसा० जाव असुभा णरएसु वेयणा, एवं एएणं अमिलावेणं उववजिऊण भाणियव्वं, ठाणपयाणुसारेणं जत्थ जं बाहल्लं जत्तिया वा णेरइयावाससयसहस्सा० जाव अहे सत्तमाए पुढवीए, अहे सत्तमाए मज्झे केवतिए कति अणुत्तरा महतिमहालया महाणिरया पण्णत्ता ? एवं पुच्छियव्वं वागरेयव्वं पितहेव छट्ठी सत्तमासु काओअगणिवण्णाभा भाणियव्वा। (ते णं णरगा इत्यादि) ते नरका अन्तर्मध्यभागे वृत्ता वृत्ताकारा बहिर्बहिर्भागे चतुरस्त्राः चतुरस्राऽऽकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते। सकलपीठाऽऽद्यपेक्षया तु आवलिकाप्रविष्टा वृत्तव्यस्रचतुरस्रसंस्थानाः, पुष्पावकीस्तु नानासंस्थानाः प्रतिपत्तव्याः / एतच्चाग्रे स्वयमेव वक्ष्यति-(अहे खुरप्पसंठाणसंठिया इति) अधो भूमितले क्षुरप्रस्येव प्रहरण-विशेषस्य यत् संस्थानमाकारविशेषःतीक्ष्णतालक्षणः, तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः। तथाहि-तेषु नरकाऽऽवा- सेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्क-रामात्रसंस्पर्शेऽपि क्षुरप्रेच पादाः क्षत्यन्ते (कृत्यन्ते) (निचधकारतमसा इति) नित्यान्धकारा उद्द्योताभावतो यत्तमस्तेन तमसा नित्यं सर्वकालमन्धकारो येषु नित्यान्धकाराः। तत्रापवरकाऽऽदिष्वपि नामान्धकारोऽस्ति, केवलं बहिः सूर्यप्रकाशे मन्दं तमो भवति, नरकेषु तु तीर्थकरजन्मदीक्षाऽऽदिकालव्यतिरेके-णान्यदा सर्वकालमपि उद्द्योतलेशस्याऽप्यभावतो जात्यन्धस्येव मेघच्छन्नकालाऽर्द्धरात्र इवातीव बहलतरो भवति / तत उक्त-तमसा नित्यान्धकाराः, तमश्च तत्र सदावस्थितम् , उद्योतकारिणामभावात्। तथाऽऽह-(ववगयगहचंदसूरनक्खत्तजोइ-सपहा) व्यपगतः परिभ्रष्टो ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम, उपलक्षणमेतत्तारारूपाणां ज्योतिष्काणां पन्था मार्गो यत्र व्यपगत-सूर्यनक्षत्रज्योतिष्कपथाः। तथा-(मेययवसापूयरुहिरमंस