________________ णरग 1911 - अभिधानराजेन्द्रः भाग - 4 णरग णं सव्वपोग्गला पविट्ठा, एवं जाव अहे सत्तमाए पुढवीए।। (इमीसे णं इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वे पुद्गला लोकोदरविवरवर्तिनः कालक्रमेण प्रविष्टपूर्वाः, तद्भावेन परिणतपूर्वाः; तथा सर्वे पुद्गला प्रविष्टा एककालं तद्भावेन परिणताः ? भगवानाहगौतम! अस्यां रत्नप्रभायां पृथिव्यां सर्वे पुद्गला लोकवर्तिनः प्रविष्टपूर्वाःतद्भावेन परिणतपूर्वाः, संसारस्याऽनादित्वाद्, नपुनरेककालं सर्वपुद्गलाः प्रविष्टाः-तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणतो रत्नप्रभाव्यतिरेकेणाऽन्यत्र सर्वत्राऽपि पुद्गलाभावप्रसक्तेः न चैतदस्ति, तथाजगत्-स्वाभाव्यात्। एवं सर्वासु पृथिवीषुक्रमेण वक्तव्यं, यावदधः सप्तम्यां पृथिव्यामिति। (26) सर्वे पुद्गलाः त्यक्तपूर्वाःइमा णं भंते ! रयणप्पभा पुढवी सव्वपोग्गले हिं विजढपुव्वा, सव्वपोग्गले विजढा? गोयमा ! इमाणं मंते ! रयणप्पमा पुढवी सव्वपोग्गलेहिं विजढपुव्वा, नो चेव णं सव्वपोग्गले विजढा, एवं० जाव अहे सत्तमा / (इमाणं भंते ! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्- गलैः कालक्रमेण (विजढपुव्वा इति) परित्यक्तपूर्वा, तथा सर्वपुद्- गलैरेककालं परित्यक्ता ? भगवानाह-गौतम ! इयं रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण परित्यक्तपूर्वा, संसारस्याऽनादित्वात्, न पुनः सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालं परित्यागे तस्याः सर्वथा स्वरूपाभावप्रसक्तेः। न चैतदस्ति.तथाजगत्स्वाभाव्यतः शाश्वतत्वात्। एतचानन्तरमेव वक्ष्यति। एवमेकैका पृथिवी क्रमेण तावद्वाच्या, यावदधः सप्तमी पृथिवी। (30) शाश्वती, अशाश्वती वा रत्नप्रभा?इमा णं मंते ! रयणप्पमा पुढवी किं सासता, असासता ? गोयमा ! सिय सासता, सिय असासता। सेकेणतुणं भंते ! एवं वुचइ-सिय सासता, सिय असासता ? गोयमा ! दव्वट्ठयाए सासता, वण्णपज्जवेहिं गंधपज्जवेहिं रसपञ्जवेहिं फासपज्जवेहिं असासता, से एएणडेणं गोयमा! एवं वुचति-तं चेव० जाव सिय असासता, एवं० जाव अहे सत्तमा। (इमा णं भंते ! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी किं शाश्वती, अशाश्वती ? भगवानाह-गौतम ! स्यात् कश्चित् , कस्याऽपि नयस्याऽभिप्रायेत्यर्थः / शाश्वती। स्यात् कथञ्चित् अशाश्वती। एतदेव सविशेष जिज्ञासुः पृच्छति-(से के णढे णमित्यादि) ' से ' शब्दोऽथशब्दार्थः / स च प्रश्ने, केन अर्थेन कारणेन भदन्त! एवमुच्यतेयथा स्यात् शाश्वती, स्यादशाश्वतीति ? भगवानाह-गौतम ! (दव्वट्टयाए इत्यादि) द्रव्यार्थतया शाश्वती, तत्र द्रव्यं सर्वत्राऽन्वयि सामान्यमुच्यते, द्रवति गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमिति व्युत्पत्तेः, द्रव्यमेवाऽर्थः तात्त्विकपदार्थो यस्य, न तु पर्यायाः, स द्रव्यार्थी द्रव्यमात्रास्तित्यप्रतिपादको नयविशेषः, तद्भावो द्रव्यार्थता, तथा द्रव्यमानास्तित्वप्रतिपादकतयाऽभिप्रायेणे ति यावत् / शाश्वती द्रव्यार्थिकनयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदाभावाद् वर्णपर्यायैः कृष्णाऽऽदिभिः, गन्धपर्यायैः सुरभ्यादिभिः, रसपायैस्तिक्ताऽऽदिभिः स्पर्शपर्यायः कठिनत्वाऽऽदिभिः, अशाश्वती अनित्या, तेषां वर्णाऽऽदीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथा-न्यथाभवनात्, अतादवस्थ्यस्य चाऽनित्यत्वात् / न चैवमपि भिन्नाधिकरणे नित्यत्वाऽनित्यत्वे द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्ययोभयोरप्यसत्त्वाऽऽपत्तेः / तथाहिशक्यते वक्तुं पर-परिकल्पितं द्रव्यमसत् , पर्यायव्यतिरिक्तत्वात् , बालत्वाऽऽदिपर्यायशून्यबन्ध्यासुतवत् , तथा परपरिकल्पिताः पर्याया असतः द्रव्यत्वव्यतिरिक्तत्वात् , बन्ध्यासुतगतबालत्वाऽऽदिपर्यायवत्। उक्तं च-" द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः / क्व कदा केन किंरूपाः, दृष्टा मानेन केन वा ? // 1 // " इति कृतं प्रसङ्गेन। विस्तरार्थना धर्मसंग्रणिटीका निरूपणीया।" (से एएणऽटेण-मित्यादि) उपसंहारमाह-' से 'शब्दोऽथशब्दार्थः। स चाऽत्र वाक्योपन्यासे, अथ एतेनाऽनन्तरोदितेन कारणेन गौतम ! एवमुच्यतेस्यात् शाश्वती, स्यादशाश्वती। एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तमी पृथिवी। इह ययावत्संभवाऽऽस्पदं तच तावन्तं कालं शश्वद्भवति, तदा तदपि शाश्वतमुच्यते / यथा तन्त्रान्तरे-" आकप्पट्ठाई पुढवी सासया " इत्यादि / ततः संशये किमेषा रत्नप्रभा पृथिवी सकलकालवस्थाचिन्तया शाश्वती ? उताऽन्यथा ? यथा तन्त्रान्तरीयैरुच्यते इति, ततस्तदपनोदार्थ पृच्छति। (31) कालस्थितिःइमा णं भंते ! रयणप्पभा पुढवी कालतो केवचिरं होति ? गोयमा ! ण कदा विण आसि,ण कदा विणस्थि,ण कदा विण भविस्सति, भूविं य, भवति य, भविस्सति य, धुवा णियता सासता अक्खया अव्वया अवट्ठिता णिचा एवं जाव अहे सत्तमा। (इमाणं भंते! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी कालतः कियचिरं कियन्तं कालं यावद्भवति? भगवानाह-गौतम ! न कदाचिन्नासीत् , सदैवासीदिति भावः / अनादित्वात्। तथा न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः / अत्रापि स एव हेतुः, सदा भावादिति / तथा न कदाचिन्न भविष्यति, भविष्यचिन्तायाः सर्वदैव भविष्यतीति भावः, अपर्यवसितत्वात् / तदेवं लालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय संप्रत्यस्तित्वं प्रतिपादयति-(भुविं चेत्यादि) अभूत, भवति, भविष्यति च। एवं त्रिकालभावित्वेन ध्रुवा, ध्रुवत्वादेव नियता नियतावस्थाना, धर्मास्तिकायाऽऽदिवत्, नियतत्यादेव च शाश्वती शश्वद्भावे प्रलयाभावात्, शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकसद इवान्यतर-पुद्गलविचटनेऽप्यन्यतरपुद्गलोपचयभावादक्षया, अक्षयत्वादेव चाव्यया मानुषोत्तराद् बहिः समुद्रयत, अव्ययत्वादेवावस्थिता स्वप्रमाणावस्थिता सूर्यमण्डलाsऽदिवत् , एवं सदाऽवस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवत्। यदि वा ध्रुवाऽऽदयः शब्दा इन्द्रशक्राऽऽदिवत् पर्यायशब्दा नानादेशजविनेयानुग्रहार्थमुपन्यस्ता इत्यदोषः। एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या, या