________________ णरंग 1910- अभिधानराजेन्द्रः भाग-४ णरग - - छज्जोयणबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स० जाव हंता अस्थि, एवं० जाव अहे सत्तमाए जं जस्स बाहल्लं / इमीसे णं भंते ! रयणप्पभाए पुढवीए घणवायवलयस्स अद्धपंचमजोयणबाहल्लस्स खेत्तच्छेदेण छिज्ज० जाव हंता अत्थि एवं० जाव अहे सत्तमाए जं जस्स बाहल्लेणं, एवं तणुवातवलयस्स वि० जाव अहे सत्तमा जं जस्स बाहल्लं। इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधिवलए किंसंठिए पण्णत्ते ? गोयमा ! वट्टवलयागारसंठाणसंठिते पण्णत्ते / जेणं इमं रयणप्पभं पुढविं सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठति / एवं० जाव अहे सत्तमाए पुढवीए घणोदधिवलए, णवरं अप्पाणं पुढविं संपरिक्खिवित्ता णं चिट्ठति। इमीसे णं भंते ! रयणप्पभाए पुढवीए घणवातवलए किंसंठिते | पण्णत्ते ? गोयमा ! वट्टवलयागारे तहेव० जाव जेणं इमीसे णं रयणप्पभाए पुढवीए घणोदधिवलयं सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठइ। एवं जाव अहे सत्तमाए घणवातवलयं / इमीसे णं भंते ! रयणप्पभाए पुढवीए तणुवातवलए सिंठिते पण्णत्ते ? गोयमा! वट्टवलयागारसंठाणसंठिए० जाव जेणं इमीसे णं भंते ! रयणप्पभाए पुढवीए घणवातवलयं सव्वतो समंता संपरिखिवित्ताणं चिटुंति। एवं जाव अहे सत्तमाए तणुवातवलयं / / (इमीसे णं भंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः घनोदधिवलयः किमिव संस्थितः किंसंस्थितः प्रज्ञप्तः ? भगवानाहगौतम ! वृत्तः चक्र बालतया परिवर्तुलो वलयस्य मध्ये शुषिरवृत्तविशेषस्याऽऽकार आकृतिबलयाऽऽकार इव संस्थानं वलयाऽऽकारसंस्थानं, तेन संस्थितो क्लयाऽऽकारसंस्थानसंस्थितः / कथमेवं गम्यते ?-वलयाऽऽकारसंस्थानसंस्थित इति ? तत आह-(जेणमित्यादि) येन कारणेन इमां रत्नप्रभा पृथिवीं सर्वतः सर्वासु दिक्षु विदिक्षु च संपरिक्षिप्य सामस्त्येन वेष्टयित्वा तिष्ठति वर्तते, तेन कारणेन वलयाऽऽकारसंस्थासंस्थितः प्रज्ञप्तः। एवं घनवातवलयसूत्र, तनुवातवलयसूत्रं च परिभावनीयम् / नवरं धनवातवलयो घनोदधिवलयं संपरिक्षिप्येति वक्तव्यम्। तनुवातवलयो धनवातवलयं संपरिक्षिप्येति / एवं शेषास्वपि पृथिवीषु प्रत्येकं त्रीणि सूत्राणि भावनीयानि। (25) आयामविष्कम्भौ पृथ्वीनाम्इमा णं भंते ! रयणप्पभा पुढवी केवतियं आयामविक्खंभेणं पण्णत्ता? गोयमा! असंखेजाई जोअणसहस्साई आयामविक्खंभेणं, असंखेज्जाइं ज़ोयणसहस्साइं परिक्खेवेणं पण्णत्ता। एवं० जाव अहे सत्तमा। (इमा णं भंते ! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी कियता आयामविष्कम्भेण, समाहारो द्वन्द्वः / आयामविष्कम्भाभ्यां प्रज्ञप्ता / | भगवानाह-असंख्येयानि योजनसहस्राणि आयामविष्कम्भेन। किमुक्तं भवति? असंख्येयानि योजनसहस्राणि आयामविष्कम्भेन / किमुक्तं भवति ?-असंख्येयानि योजनसहस्राणि आयामतोऽसंख्येयानि योजनसहस्राणि विष्कम्भेन, आयामविष्कम्भयोस्तुपरस्परमल्पबहुत्वचिन्तने तुल्यत्वम्, तथा असंख्येयानियोजनसहस्राणि परिक्षेपेण परिधिना प्रज्ञता। एवमेकैका पृथिवी तावद्वक्तव्या यावदधः सप्तमी पृथिवी। (26) अन्तर्बहिर्वा समाः पृथ्व्यःइमा णं भंते ! रयणप्पभा पुढवी अंते य मज्झेय सव्वत्थ समा बाहल्लेणं पण्णत्ता ? हंता गोयमा ! इमा णं रयणप्पभा पुढवी अंते य मज्झे य सव्वत्थ समा बाहल्लेणं एवं जाव अहे सत्तमा। (इमाणं भंते! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी अन्ते च मध्ये च सर्वत्र समाबाहल्येन पिण्डभावेन प्रज्ञप्ता? भगवानाह-(गौतम! इत्यादि) सुगमम् / एवं क्रमेणकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी। (27) पृथिवीषु जीवाः सर्वत्र उपपन्नपूर्वाःइमीसे णं भंते ! रयणप्पभाए पुढवीए सव्वजीवा उववन्नपुटवा सव्वजीवा उववन्ना ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए सव्वजीवा उववण्णपुव्वा, नो चेवणं सव्वजीवा उववण्णा, एवं० जाव अधे सत्तमाए पुदवीए॥ (इमीसे णं भंते ! इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वाः कालक्रमेण तथा सर्वजीवा उपपन्ना उत्पन्ना युगपत् / भगवानाह-गौतम ! अस्यां रत्नप्रभायां पृथिव्यां सर्व जीवाः सांव्यवहारिक जीवराश्यन्तर्गताः प्रायो वृत्तिमाश्रित्य सामान्येन उपपन्नपूर्वा उत्पन्नपूर्वाः कालक्रमेण संसारस्याऽनादित्वात, न पुनः सर्वजीवा उपपन्ना उत्पन्ना युगपत् , सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकाऽऽदिभेदाभावप्रसक्तेः / चैतदस्ति, तथा जगत्स्वाभाव्यात्। एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधः सप्तम्याः। इमा णं भंते ! रयणप्पभा पुढवी सव्वजीवेहिं विजढपुव्वा सव्वजीवेहिं विजढा? गोयमा! इमाणं भंते ! रयणप्पभा पुढवी सव्वजीवेहिं विजढपुवा, नो चेवणं सव्वजीवेहिं विजढा, एवं० जाव अहे सत्तमा॥ (इमा णं इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी (सव्वजीवेहि विजढपुव्या इति) सर्वजीवैः कालक्रमेण परित्यक्तपूर्वा; तथा सर्वजीवैर्युगपद् विजडा परित्यक्ता। भगवानाह-गौतम ! इयं रत्नप्रभा पृथिवी प्रायो वृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकः कालक्रमेण परित्यक्तपूर्वा, नतुयुगपत, परित्यागस्यासंभवात् तथानिमित्ताभावात्, एवं तावद्वक्तव्यं यावदधः सप्तमी पृथ्वी। (28) पृथ्वीषु सर्वे जीवाः प्रविष्टपूर्वाःइमीसे णं मंते ! रयणप्पभाए पुढवीए सव्वपोग्गला पविट्ठपुटवा, सव्वपोग्गला पविट्ठा ? गोयमा ! इमीसे गं रयणप्पभाए पुढवीए सव्वपोग्गला पविठ्ठपुवा, नो चेव