________________ णरग 1906 - अभिधानराजेन्द्रः भाग-४ णरग घनोदध्यादीनां परिमाणमुक्त, तन्मध्यभागे द्रष्टव्यम् / ते हि मध्यभागे यथोक्तप्रमाणबाहल्याः, ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरभूताः; तनुतरीभूत्वा स्वस्वपृथिवीवलयाऽऽकारेण वेष्टयित्वा स्थिताः। अत एवामूनि वलयान्युच्यन्ते, तेषां वलयानामुचस्त्वं सर्वत्र स्वस्वपृथिव्यनुसारेण परिभावनीयम् , तिर्यग्वाहल्यं पुनरगे वक्ष्यते / इदानीं तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तम् , एवमस्या रत्नप्रभायाः पृथिव्याः शेषासु दिक्षु, एवं शेषाणामपि पृथिवीनां चतसृष्वपि दिक्षु प्रत्येक विभागसूत्रं भणितव्यम्। (21) संप्रति घनोदधिवलयस्य तिर्यग्बाहल्यमानमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पण्णत्ते ? गोयमा! छज्जोयणाई बाहल्लेणं पण्णत्ते / / (इमीसे ण भंते ! इत्यादि) अस्या भदन्त! रत्नप्रभायाः पृथिव्याः सर्वासु दिक्षुचरमान्तेघनोदधिवलयः कियबाहल्येन तिर्यग्बाहल्येन प्रज्ञप्तः ? भगवानाह-गौतम ! षड्योजनानि बाहल्येन प्रज्ञप्तः / तत ऊर्ध्व प्रतिपृथिवि योजनस्य विभागो वक्तव्यः। तद्यथासक्करप्पभाए णं भंते ! पुढवीए घणोदधिवलए केवतियं बाह- | ल्लेणं पण्णत्ते ? गोयमा ! सतिभागाई छज्जोयणाइं बाहल्लेणं पण्णत्ते / बालुयप्पभाए पुच्छा ? गोयमा ! तिभागूणाई सत्त जोयणाई बाहल्लेणं पण्णत्ते / एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं, धूमप्पभाए सतिभागाइं सत्त जोयणाई पण्णत्ते / तमप्पभाए तिभागणाइं अट्ठ जोयणाइं बाहल्लेणं पण्णत्ते / अहे सत्तमाए अट्ठ जोयणाई बाहल्लेणं पण्णत्ते। शर्कराप्रभायाः सत्रिभागानि, बालुकाप्रभायास्त्रिभागोनानि सप्त योजनानि, पङ्कप्रभायाः परिपूर्णानि सप्त योजनानि, धूमप्रभावाः सत्रिभागानि सप्त योजनानि, तमःप्रभायाः त्रिभागोनानि अष्टौ योजनानि, अधः सप्तमपृथिव्याः परिपूर्णानि अष्टौ योजनानि। सूत्राक्षराणि तु सर्वत्र पूर्ववद् योजनीयानि। (22) संप्रति घनवातवलयस्य तिर्यग् बाहल्यपरिमाण प्रतिपादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए घणवातवलए केवतियं बाहल्लेणं पण्णत्ते ? गोयमा ! अद्धपंचमाइंजोयणाइंबाहल्लेणं पण्णत्ते॥ सक्करप्पभाए पुच्छा? गोयमा! कोसूणाईपंच जोयणाई बाहल्लेणं पण्णत्ते // एवं एएणं अभिलावेणं बालुयप्पभाए पंच जोयणाई बाहल्लेणं पण्णत्ते / / पंकप्पभाए सक्कोसाइं पंच जोयणाई बाहल्लेणं पण्णत्ते / / धूमप्पभाए अद्धछट्ठाइं जोयणाई बाहल्लेणं पण्णत्ते / तमप्पभाए कोसूणाई छ जोयणाई बाहल्लेणं पण्णत्ते / अहे सत्तमाए छ जोयणाई बाहल्लेणं पण्णत्ते / / (इमीसे णं भंते ! इत्यादि) अस्या रत्नप्रभायाः पृथिव्याः धनवातवलयः तिर्यग् बाहल्येन अद्धपञ्चमानि सार्द्धानि चत्वारि योजनानि प्रज्ञप्तः / अत ऊर्ध्वं तु प्रतिपृथिवि गव्यूतं वद्धनीयम् / तथा चाऽऽहद्वितीयस्यः पृथिव्याः क्रोशोनानि पञ्च योजनानि, तृतीयस्याः पृथिव्याः परिपूर्णानि पञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानिपञ्च योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि सानिपञ्च योजनानि, षष्ठ्याः पृथिव्याः क्रोशोनानिषड्योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानिषड्योजनानि। (23) संप्रति तनुवातवलयस्य तिर्यग् बाहल्यपरिमाणप्रति पादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए तणुवातवलए केवतियं बाहल्लेणं पण्णत्ते ? गोयमा ! छक्कोसेणं बाहल्लेणं पण्णत्ते / एवं एतेणं अभिलावेणं सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं पण्णत्ते। वालुयप्पभाए तिभागूणे सत्तकोसे बाहल्लेणं पण्णत्ते। पंकप्पभाए पुढवीए सत्तकोसे बाहल्लेणं पण्णत्ते। धूमप्पभाए सतिभागे सत्तकोसे बाहल्लेणं पण्णत्ते / तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं पण्णत्ते / अहे सत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पण्णत्ते / (इमीसे णं भंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथिव्यास्तनुवातवलयः कियत् किंप्रमाणं बाहल्येन प्रज्ञप्तः ? भगवानाहषट्क्रोशं बाहल्येन प्रज्ञप्तः / अत ऊर्ध्वं तु पृथिवीक्रोशस्य त्रिभागो बर्द्धनीयः / तथा चाऽऽह-द्वितीयस्याः पृथिव्याः सत्रिभागोनान् षट् क्रोशान् बाहल्येन प्रज्ञप्तः / तृतीयस्याः पृथिव्याः त्रिभागोनान् सप्त क्रोशान, चतुर्थ्याः पृथिव्याः परिपूर्णान् सप्त क्रोशान्, पञ्चम्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् ,षष्ट्याः पृथिव्याः त्रिभागोनान् अष्टौ क्रोशान्, अधः सप्तम्याः पृथिव्याः परिपूर्णान् अष्टौ क्रोशान्। उक्तंच"छचेव अद्ध पंचम, जोयणसद्धं च होइ रयणाए। उदहीघणतणुवाया, जहसंखेणं विणिद्दिहा / / 1 / / तिभागो गाउयं चेव, तिभागो गाउयस्स य। आइ धुवे पक्खेवो, अम्हें अहो जाव सत्तमिया // 2 // " एतेषा च त्रयाणामपि घनोदध्यादिविभागानाम् एकत्र मीलने प्रतिपृथिवि यथोक्तमपान्तरालमानं भवति। (24) संप्रति एतेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्ण वर्णाऽऽधुपेतद्रव्यास्तित्वप्रतिपादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधिवलयस्स छजोयणबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दवाई वण्णओ काल० जाव हंता अत्थि। सकरप्पभाए णं भंते ! पुढवीए घणोदधिवलयस्स सतिभाग