________________ णरग १९०७-अभिधानराजेन्द्रः भाग-४ णरग तस्या अधो घनोदधिः विंशतियोजनसहस्राणि बाहल्येन, तस्या अधो घनवातोऽसंख्येयानि योजनसहस्राणि बाहल्येन, तस्या अप्यधोऽसंख्येयानि योजनसहस्राणि तनुवातो बाहल्येन, तस्या अप्यधोऽसंख्येयानि योजनसहस्राणि बाहल्येनावकाशान्तरम् / एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येकं तावद्वक्तव्या यावदधः सप्तम्याः / (14) क्षेत्रच्छेदेन छिद्यमानायाः पृथिव्याःइमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए खेत्तछित्तेणं छिज्जमाणाए अस्थि दव्वाइं वण्णतो-कालनीललोहितहालिद्दसुक्किलाई, गंधतो-सुब्भिगंधाई, दुभिगंधाई, रसतो-तित्तकडुयकसायअंबिलमहुराई, फासओ-कक्खडमउयगरुलहुयसीतउसिणणिद्धलुक्खाई, संठाणतोपरिमंडलवट्टतंसचउरंसआययसंठाणपरिणयाई अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाई अण्णमण्णओगाढाई अण्णमण्णसिणेहपडिबद्धाइं अण्णमण्णघडत्ताए चिट्ठति ? हंता ! अत्थि। (इमीसे णं भंते ! इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यामशीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदनबुद्ध्यामतरकाण्डविभागेन च्छिद्यमानायाम् , अस्तीति निपातोऽत्र बहुवचनार्थगर्भ:सन्ति द्रव्याणि, वर्णतः-कालानि नीलानि लोहितानि हारि-द्राणि, शुक्लानि, गन्धतः-सुरभिगन्धीनि, दुरभिगन्धीनि च, रस-तःतिक्तरसानि, कटुकानि, कषायाणि, अम्लानि, मधुराणि, स्पर्शतःकर्कशानि, मृदूनि, गुरुकाणि, लघूनि, शीतानि, उष्णा-नि, स्निग्धानि, रूक्षाणि, संस्थानतः-परिमण्डलानि, वृत्तानि, त्र्यस्त्राणि, चतुरस्राणि, आयतानि। कथंभूतान्येतानि सर्वाण्यपी-त्यत आह-(अण्णमण्णपुट्ठाई इत्यादि) अन्योऽन्यं परस्परं स्पृष्टानि स्पर्शमात्रोपेतानि। तथा-अन्योऽन्यं परस्परमवगाढानि यत्रैकं द्रव्यमवगाढं तत्राऽन्यदपि देशतः, क्वचित्सर्वतोऽवगाढमित्यर्थः। तथाऽन्योऽन्यं परस्परं स्नेहेनप्रतिबद्धानि येनैकस्मिन् चाल्यमाने गृह्यमाणे वा अपरमपि चलनाऽऽदिधर्मोपेतं भवति / (एवमण्णोऽण्णघडताए चिट्ठति इति) अन्योऽन्यं परस्परं घटन्ते संबघ्नन्तीति अन्योऽन्यघटाः, तद्भावोऽन्योऽन्यघटता, तया परस्परं संबद्धतया तिष्ठन्ति / भगवानाह-(हंता ! अत्थि) हन्तेति प्रत्यवधारणे, सु-न्त्येवेत्यर्थः। (15) खरकाण्डस्यइमीसे णं भंते ! रयणप्पभाए पुढवीए खरस्स कंडस्स सोलसजोयणसहस्सबाहल्लस्स खेत्तछित्तेणं छिज्जंतं चेव जाव हंता अत्थि, एवं० जाव रिट्ठस्स। एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डस्य षोडशयोजनसहस्रप्रमाणबाहल्यस्य, तदनन्तरं रत्नकाण्डस्य योजनसहरन - बाहल्यस्य ततो वज्रकाण्डस्य० यावद्रिष्टकाण्डस्य। (16) पङ्कबहुलस्यइमीसे णं भंते ! रयणप्पभाए पुढवीए पंकबहुलस्स कंडस्स चउरसीतिं जोयणसहस्सबाहल्लस्स खेत्तं तं चेव / एवं आबबहुलस्स वि असीतिजोअणसहस्सबाहल्लस्स। तदनन्तरमस्यामेव रत्नप्रभायां पृथिव्यां पङ्कबहुलकाण्डस्य चतुरशीतियोजनसहस्रबाहल्यस्य तदनन्तरमब्बहुलकाण्डस्य अशीतियोजनसहस्रबाहल्यस्य। इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदहिस्स वीसं जोयणस्स बाहल्लेस्स खेत्तच्छेदे तहेव / एवं घणवातस्स असंखेज्जजोयणस्स बाहल्लस्स तं चेव। तदनन्तरमस्या एव रत्नप्रभाया घनोदधेर्यो जनविंशतिसहस्रप्रमाणबाहल्यस्य, ततोऽसंख्यातयोजनप्रमाणबाहल्यस्य घनवातस्य तत एतावत्प्रमाणबाहल्यस्य तनुवातस्य, ततोऽवकाशान्तरस्य तावत्प्रमाणस्य। सक्करप्पभाए णं भंते ! पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए खेत्तच्छेदेणं छिज्जमाणाए अस्थि दव्वाई, वण्णतो० जाव घडताए चिट्ठति ? हंता ! अस्थि / एवं घणोदहिस्स वीसं जोअणसहस्सबाहल्लस्स घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स / एवं० जाव उवासंतरस्स जहा सक्करप्पभाए, एवं जाव अहे सत्तमाए। ततः शर्कराप्रभायाः पृथिव्याः द्वात्रिंशत्सहस्रोत्तरयोजनसतसहस्रबाहल्यपरिमाणायाः तस्या एवाधस्ताद् यथोक्तबाहल्यानां घनवाततनुवाताऽवकाशान्तराणामेवं यावदधः सप्तम्याः पृथिव्या अष्टसहस्राधिकयोजनशतसहस्रपरिमाणाबाहल्यायास्ततः तस्या एवाऽधः सप्तमपृथिव्या अधस्तान्मध्ये घनोदधिधनवाततनुवातावकाशान्तराणां प्रश्ननिर्वचश्नसूत्राणि यथोक्तद्रव्यविषयाणि भावनीयानि। (17) सम्प्रति संस्थानप्रतिपादनार्थमाहइमा णं भंते ! रयणप्पभा पुढवी किंसंठिता पण्णत्ता ? गोयमा ! झल्लरिसंठिया पण्णत्ता। इमीसे णं भंते ! रयणप्पभाए पुढवीए खरे कंडे किंसंठिते पपणत्ते ? गोयमा ! झल्लरिसंठिते पण्णत्ते / इमीसे णं भंते ! रयणप्पभाए पुढवीए रयणे कंडे किंसंठिते पण्णत्ते ? गोयमा ! झल्लरिसंठिते पण्णत्ते / एवं० जाव रिटे। एवं पंकबहुले आबबहुले वि। घणोदधि वि, धणवाए वि, उवासंतरे वि, सव्वे झल्लरिसंठिया पण्णत्ता। सक्करप्पभाए णं भंते ! पुढवी किंसंठिया पण्णत्ता ? गोयमा ! झल्लरिसंठिया पण्णत्ता। सकरप्पभाए णं भंते ! पुढवीए घणोदधि किंसंठिए पण्णत्ते ? गोयमा ! झल्लरिसंठिए पण्णत्ते / एवं० जाव उवासंतरे जहा सक्करप्पभाए वत्तव्वता, एवं जाव अहे सत्तमाए वि। (इमा णं भंते ! इत्यादि) इयं प्रत्यक्षत उपलभ्यमाना, णमिति वाक्याल कृतौ / रत्नप्रभा पृथिवी, किमिव संस्थिता प्रज्ञप्ता ? भगवानाह-गौतम ! झल्लरीव संस्थिता प्रज्ञप्ता; विस्तीर्ण - वलयाऽऽकारत्वात् / एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डं, तत्राऽपि रत्नकाण्डं, ततो वज्रकाण्डम् , ततो यावत्