________________ णरग 1905 - अमिधानराजेन्द्रः भाग - 4 णरग (इमा णं भंते ! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी कतिविधा कतिप्रकारा-कतिविभागा प्रज्ञप्ता ? भगवानाह-गौतम! त्रिधा त्रिविभागा प्रज्ञप्ता। तद्यथा-(खरकंडमित्यादि) काण्डं नाम-विशिष्टो भूभागः, खरं कठिनं पङ्कबहुलमबहुलं चान्वर्थतः प्रतिपत्तव्यम्। क्रमश्चैतेषामेवमेव / तद्यथा-प्रथमं खरकाण्ड, तदनन्तरं पङ्कबहुलं, ततोऽब्बहुलमिति। (6) खरकाण्डवक्तव्यतामाहइमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे कतिविधे पण्णत्ते ? गोयमा ! सोलसविधे पण्णत्ते / तं जहा-रयणे, वइरे, वेरुलिए, लोहितक्खे, मसारगल्ले, हंसगन्भे, पुलए, सोइंधिए, जोतिरसे, अंजणे, अंजणपुलए, रयते,जातरूवे, अंके,फरिहे, रितु कंडे॥ (इमीसेणंभंते! इत्यादि)अस्यां भदन्त! रत्नप्रभायां पृथिव्यांखरकाण्ड कतिविधं प्रज्ञप्तम् ? भगवानाह-गौतम ! षोडशविधं षोडशविभाग प्रज्ञप्तम् / तद्यथा-(रयणे इति) पदैकदेशे पदसमुदायोपचारात् रत्नकाण्डम्-तच प्रथमम् , द्वितीयं वजकाण्डम्, तृतीयम्-वैडूर्यकाण्डम्, चतुर्थम्-लोहिताक्षकाण्डम् / पञ्चमम्-मसारगल्लकाण्डम् , षष्ठम्हंसगर्भकाण्डम् , सप्तमम्-पुलककाण्डम् , अष्टमम्-सौगन्धिककाण्डम्, नवमम्-ज्योतीरसकाण्डम् , दश-मम्-अञ्जनकाण्डम् , एकादशमम्अञ्जनपुलाककाण्डम्, द्वा-दशम्-रजतकाण्डम् , त्रयोदशम् - जातरूपकाण्डम् , चतुर्दशम्-अङ्ककाण्डम् , पञ्चदशम्-स्फटिककाण्डम्, षोडशम्-रिष्टकाण्डम् / तत्र रत्नानि कर्केतनाऽऽदीनि तत्प्रधान काण्ड रत्नकाण्डम्, वजरत्नप्रधान काण्डं वज्रकाण्डम्। एवं शेषाण्यप्येकैकंच काण्ड योजनसहस्रबाहुल्यम्। (7) रत्नकाण्डवक्तव्यतामाहइमीसे णं भंते ! रयणप्पभाए पुढवीए रयणकंडे कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते / एवं० जाव रिटे। इमीसे णं भंते ! रयणप्पभाए पुढवीए पंकबहुले कडे कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते / इमीसे णं मंते ! रयणप्पभाए पुढवीए आवबहुले कंडे कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते। सकरप्पभाए णं भंते ! पुढवी कतिविधा पण्णत्ता ? गोयमा! एगागारा पण्णत्ता / एवं० जाव अहे सत्तमाए। (इमीसे णं भंते ! इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्या रत्नकाण्ड कतिविधं कतिप्रकारं, कतिविभागमिति भावः / प्रज्ञप्तम् ? भगवानाह-एकाकारं प्रज्ञातम्। एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण भणनीयानि। एवं पङ्कबहुलाऽब्बहुल-विषयाण्यपि। जी० 3 प्रति० / प्रज्ञा०। (8) संप्रति प्रतिपृथिवीनरकाऽऽवाससंख्याप्रतिपादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए केवतिया णिरयावाससयसहस्सा पण्णत्ता? गोयमा ! तीसं निरयावाससतसहस्सा पण्णत्ता / एवं एतेणं अभिलावेणं सव्वासिं पुच्छा। इमा गाथा अणुगंतव्वा"तीसाय पण्णवीसा, पण्णरस दसेव तिण्णि य हवंति। पंचूण सतसहस्सं,पंचेव अणुत्तरा णरगा।।१॥" ०जाव अहे सत्तमाएपंच अणुत्तरा महतिमहालया महाण-रगा पण्णत्ता / तं जहा-काले, महाकाले, रोरुए, महारोरुए, अपतिट्ठाणे॥ (इमीसे णं भंते! इत्यादि) सुगमम्। नवरमियमत्र सङ्ग्रहणी गाथा-" तीसा य पण्णवीसा, पण्णरस दसेव सयसहस्साई / तिण्णेगं पंचूणं, अणुत्तरा णिरया // 1 // " अधः सप्तम्यां च पृथिव्यां कालाऽऽदयो महा नरका अप्रतिष्ठानाऽभिधानकस्य नरकस्य पूर्वाऽऽदिक्रमेण / उक्तं च-" पुव्वेण होइ कालो, अवाइणा अप्पइट्ठ महकालो। रोरू दाहिणपासे, उत्तरपासे महारोरू // 1 // " रत्नप्रभाऽऽदिषु च तमःप्रभापर्यन्तासु षट्सु पृथिवीषु प्रत्येक नरकाऽऽवासा द्विविधाः / तद्यथा-आवलिकाप्रविष्टाः, प्रकीर्णकरूपाश्च। तत्र रत्नप्रभायां पृथिव्यां त्रयोदश प्रस्तटाः / प्रस्तटा नामवेश्मभूमिकाकल्पाः / तत्र प्रथमे प्रस्तटे पूर्वाऽऽदिषु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरकाऽऽवासाः, चतसृषु च विदिक्षु प्रत्येकमष्टचत्वारिंशत् , मध्ये च सीमान्तकाऽऽख्यो नरकेन्द्रकः, सर्वसंख्यया प्रथमप्रस्तटे नरकाऽऽवासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि 386, शेषेषु व द्वादशसु प्रस्तटेषु प्रत्येकं यथोत्तरं दिक्षु विदिक्षु च एकैकनरकाऽऽवासहानिभावात् अष्टकाष्टकहीना नरकाऽऽवासा द्रष्टव्याः। ततः सर्वसंख्यया रत्नप्रभायां पृथिव्यामावलिकानरकाऽऽवासाश्चतुश्चत्वारिंशत् शतानि त्रयस्त्रिंशदधिकानि 4433 / शेषासु एकोनत्रिंशल्लक्षणानि पञ्चनवतिसहस्राणि पाशतानि सप्तषष्ट्यधिकानि 2665567 प्रकीर्णकाः / तथा चोक्तम्-" सत्तट्ठी पंच सया, पणनउइ सहस्स लक्ख गुणतीसं / रयणाए सेढिगया, चोयालसया उ तेत्तीसं // 1 // " उभयमीलने त्रिंशल्लक्षा नरकाऽऽवासानाम् 3000000 / शर्कराप्रभायामेकादश प्रस्तटाः; नरकपटलानि अधोऽधो द्वन्द्वहीनानीति वचनात् / तत्र प्रथमे प्रस्तटे चतसृषु दिक्षु षट्त्रिंशत् आवलिकाप्रविष्टा नरकाऽऽवासाः, विदिक्षु पञ्चत्रिंशत् , मध्ये चैको नरकेन्द्रकः। सर्वसंख्यया द्वे शते पञ्चाशीत्यधिके 285, शेषेषु दशसु प्रस्तटेषु प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकयानिः, प्रतिदिन 2 एकैकनरकाऽऽवासहानेः, ततस्तत्सर्वसंख्यया आवलिकाप्रविष्टा नरकाऽऽवासाः षट्विंशतिशतानि पञ्चनवत्यधिकानि 2665, शेषाश्चतुर्विंशतिलक्षाः सप्तनवतिसहस्राणि त्रीणि शतानि पश्चोत्तराणि 2467305 पुष्पावकीर्णकाः / उक्तं च-"सत्ताणउइ सहस्सा, चउवीसलक्ख तिसयपंचविहं / वीयाए सेढिगया, छब्बीससया उ पणनउया''।। 1 / / उभयमीलने पञ्चविंशतिलक्षा नरकाऽऽवासानाम् 2500000 /