________________ णयाभास 1904 - अभिधानराजेन्द्रः भाग - 4 णरकंतप्पवाय णरकंता स्त्री०(नरकान्ता) रम्यकवर्षे पूर्वाऽर्णवगामिन्यां महानद्याम् , जं० 4 वक्षः / नरकान्ता महापुण्डरीकहदाद्दक्षिणतोरणेन विनिर्गत्य रम्यकवर्ष भजतीति हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता। स्था० 2 ठा०३ उ०। रा० / जं० / स०। णरकताकूड न०(नरकान्ताकूट) जम्बूद्वीपे मन्दरस्य पर्वतस्योत्तरेण रुक्मिवर्षधरपर्वतस्य चतुर्थे कूटे, स्था०८ ठा०। णरकिंदगपुं०(नरकेन्द्रक) सीमान्तकाऽऽदिषु नरकवरेषु, स्था०६ ठा० / णरग पुं०(नरक) नरान् कायन्ति शब्दयन्ति योग्यताया अनतिक्रमेणाऽऽकारयन्ति जन्तून् स्वस्वस्थाने इति नरकाः।नं०। आ० म०।' कै' '''' शब्द इतिधातोः नरान् शब्दयन्तीत्यर्थः / आव०१ अ०। पापकर्मिणां यातनास्थानेषु, सूत्र०२ श्रु०१ अ०। निरये, स्था० 4 ठा० 130 / रत्नप्रभाऽऽदिषु नारकोत्पत्तिस्था-नेषु, उत्त०३ अ०। (1) नरकपदनिक्षेपार्थ नियुक्तिकृदाहणिरए छकं दव्वं, णिरयाउ इहेव जे भवे असुभा। खेत्तं णिरओगासो, कालो णिरएसु चेव ठिई // 65 // भावे उणिरयजीवा, कम्मुदओ चेव णिरयपाओग्गो। सोऊण णिरयदुक्खं, तवचरणे होइ जइयव्वं / / 65 / / "णिरए छक्कं " इत्यादि गाथाद्वयम्। तत्र नरकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः। तत्र नामस्थापने क्षुण्णे। द्रव्यनरक आगमतः, नो आगमतस्तु ज्ञशरीरभव्यशरीरव्यक्तिरिक्तः / इहैव मनुष्यभवे, तिर्यग्भवे, केचनाऽशुभकारित्वादशुभाः सत्त्वाः कालकसौकरिकाऽऽदय इति / यदि वा-यानि कानिचिदशुभानि स्थानानि चारकाऽऽदीनि, याश्च नरकप्रतिरूपा भेदनाः, ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते। यदि वा-कर्मशयनो-कर्मद्रव्यभेदाद् द्रव्यनरको द्वेधातत्र नरकवेद्यानि यानि बद्धानि तानि चैकभविकस्य बद्धायुष्कस्याऽभिमुखनामगोत्रस्य चाऽऽश्रित्य द्रव्यनरको भवति / नोकर्मद्रव्यनरकस्त्विहैव येऽशुभा रूपरसगन्धवर्णशब्दस्पर्शा इति / / क्षेत्रनरकस्तु नरकावकाशकालमहा-कालरौरवमहारौरवप्रतिष्ठानाऽभिधानाऽऽदिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः / / कालनरकस्तु यत्र यावती स्थितिरिति / / भावनरकस्तु ये जीवा नरकाऽऽयुष्कमनुभवन्ति / तथा नरकप्रायोग्यः कर्मोदय इति / एतदुक्तं भवतिनरकान्तवर्तिनो जीवास्तथा नरकाऽऽयुष्कोदयाऽऽपादिताऽसातावेदनीयाऽऽदिकर्मोदयाश्चैतद् द्वितयमपि भावनरक इत्यभिधीयते। तदेवं श्रुत्वाऽवगम्य तीव्रमसह्यं नरकदुःखं क्रक चपाटनकुम्भीपाकाऽऽदिकं परमाऽधर्मिकाऽऽपादितं परस्परोदीरणाकृतं च, तपश्चरणे संयमाऽनुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गगमनैकहे तोर्वाऽऽत्महितमिच्छता प्रयतितव्यम्-परित्यक्तान्यकर्तव्येन यत्नो विधेय इति। सूत्र० 1 श्रु०५ अ०१ उ०। नरकविभक्तिः समाप्ता। (2) नरकपृथिव्यः सप्तरयणप्पभा, सक्करप्पभा, वालुकप्पभा, पंकप्पभा, धूमप्पभा, | तमप्पभा, तमतमप्पभा। प्रज्ञा०२ पाद। (3) साम्प्रतं पृथ्वीनामगोत्रं वक्तव्यम् - पढमा णं भंते ! पुढवी किंनामा? किंगोता पण्णत्ता ? गोयमा! धम्मा नामेणं, रयणप्पभा गोत्तेणं / दोचा णं भंते ! पुढवी किनामा किंगोत्ता पण्णत्ता? गोयमा! वंसा नामेणं, सक्करप्पमा गोत्तेणं / एवं एतेणं अमिलावणं सव्वासिं पुच्छा। नामाणि इमाणि-सेला तचा, अंजणा चउत्था, रिट्ठा पंचमा, मघा छट्ठा, माघवती सत्तमा / बालुयप्पभा० जाव तमतमप्पभा गोत्तेणं पण्णत्ता। तत्र नामगोत्रयोरय विशेषः-अनादिकालप्रसिद्धमन्वर्थरहितं नाम, सान्वर्थ नाम गोत्रमिति। तत्र नामगोत्रप्रतिपादनार्थमाह-(इमा णं भंते ! इत्यादि) इयं भदन्त! रत्नप्रभा पृथिवी किनामा किमनादिकालप्रसिद्धान्यर्थरहितनामा? किंगोत्रा किमन्वर्थयुक्तनामगोत्रा ? भगवानाह-गौतम! नाम्ना घर्मेति प्रज्ञप्ता, गोत्रेण रत्नप्रभा / तथा चात्रान्वर्थमुपदर्शयन्ति पूर्वसूरयः-रत्नानां प्रभा बाहुल्यं यत्र सा रत्नप्रभा, रत्नबहुलेति भावः / एवं शेषसूत्राण्यपि प्रति-पृथिवीप्रश्ननिर्वचनरूपाणि भावनीयानि। नवरं शर्कराप्रभाऽऽदी-नामियमन्वर्थभावनाशर्कराणां प्रभा बाहुल्यं यत्र सा शर्कराप्रभा / एवं बालुकाप्रभा, पङ्कप्रभा इत्यपि भावनीयम् / तथा धूमस्येव प्रभा यस्यां सा धूमप्रभा। तथा तमसः प्रभा बाहुल्यं यत्र सा तमःप्रभा, तमस्तमसः प्रकृष्टतमसः प्रभा बाहुल्यं यत्र सातमस्तमःप्रभा। अत्र केषुचित पुस्तकेषु संग्रहणी गाथे" घम्मा वंसा सेला, अंजण रिहा मघा य माघवती। सत्तण्डं पुढवीणं, एए नामा उ नायव्वा / / 1 / / रयणा सक्कर-वालय-पंका धमा तमा तमतमा य। सत्तण्डं पुढवीणं, एए गोत्ता मुणेयव्या" // 2 // (4) अधुना प्रतिपृथिवीबाहल्यमभिधित्सुराहइमा णं भंते ! रयणप्पभा पुढवी केवतिया बाहल्लेणं पण्णत्ता ? गोयमा ! इमा णं रयणप्पभा पुढवी असीउत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता। एवं एतेणं अभिलावेणं इमा गाथा अणुगंतव्वा" आसीतं बत्तीसं, अट्ठावीसं तहेव वीसं च। अट्ठारस सोलसगं, अतुत्तर हेट्ठिमया // 1 // (इमाणं भंते! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी कियबाहुल्येन प्रज्ञप्ता ? अत्र गोत्रेण प्रश्नो नाम्नो गोत्रं प्रधानम् , न च प्रश्नोपपन्नमिति न्यायप्रदर्शनाथः। उक्तंच-"नहीना वाग् सदा सतामिति। "भगवानाहअशीत्युत्तरम्-अशीतियोजनसहस्राभ्यधिकं योजनशतसहसं बाहल्येन प्रज्ञप्ता / एवं सर्वाण्यपि सूत्राणि भावनीयानि। अत्र संग्रहणी गाथा"आसीणं बत्तीसं, अट्ठावीसंतहेव वीसं च। अट्ठारस सोलसगं, अळुत्तरमेव हेठिमया।॥ 1 // " (5) काण्डानिइमा णं भंते ! रयणप्पभा पुढवी कतिविधा पण्णत्ता ? गोयमा! तिविधा पण्णत्ता। तं जहा-खरकंडे, पंकबहुले कंडे,आवबहुले कंडे।