SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ णयाभास 1903 - अभिधानराजेन्द्रः भाग - 4 णरकंतप्पवाय आदिशब्दाद् धर्मिद्वयधर्मधर्मिद्वययोः परिग्रहः / ऐकान्तिकपार्थक्याभिसन्धिरैकान्तिकभेदाऽभिप्रायो नैगमाऽऽभासो नैगमदुर्नय इत्यर्थः // 11 // अत्रोदाहरन्तियथाऽऽत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः / / 12 // आदिशब्दाद्वस्त्वाख्यपर्यायवद् द्रव्याऽऽख्ययोर्धर्मिणोः सुखजीवलक्षणयोधर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनंतदाभासत्वेन द्रष्टव्यम्। नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम्।।१२।। (रत्ना०) संग्रहाऽऽभासमाहुःसत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः / / 17 // अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहाख्यां लभते, / न चाऽयं तथेति तदाभासः॥ 17 // उदाहरन्तियथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात्॥१८॥ अद्वैतवादिदर्शनान्यखिलानि साङ्ख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् / अद्वैतवादस्य सर्वस्याऽपि दृष्टष्टाभ्यां विरुध्यमानत्वात्॥१८॥ (रत्ना०) व्यवहाराऽऽभासं वर्णयन्तियः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः // 25 // यः पुनः परामर्शविशेषः कल्पनाऽऽरोपितद्रव्यपर्यायप्रविवेकं मन्यते, सोऽत्र व्यवहारदुर्नयः प्रत्येयः // 25 // उदाहरन्तियथा चार्वाकदर्शनम्॥२६॥ चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायाऽऽदिप्रविभागं कल्पनाऽऽरोपितत्वेनापछुते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्र तु स्थूललोकव्यवहारानुयायितया समर्थवत इत्यस्य दर्शनं व्यवहारनयाऽऽभासतयोपदर्शितम् // 26 // (रत्ना०) ऋजुसूत्राऽऽभासंब्रुवतेसर्वथा द्रव्यापलापीतदाभासः॥३०॥ सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राऽऽभासः॥ 30 // उदाहरन्तियथा तथागतमतम्॥३१॥ तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं तु प्रत्यभिक्षाऽऽदिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम्।३१।। (रत्ना०) शब्दाऽऽभासंब्रुवतेतभेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥ तद्भेदेन कालाऽऽदिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव, तदाभासः | शब्दाभासः / / 34 // उदाहरन्तियथा बभूव भवति भविष्यतिसुमेरुरित्यावयो त्तिन्नकालाःशब्दा भिन्नमेवाऽर्थमभिदधति, भिन्नकालशब्दत्वात् , तादृक् सिद्धान्यशब्दवदित्यादिः॥३५॥ अनेन हि तथाविधपरामर्शोत्थेन वचनेन कत्तनावऽदिभेदाद्भिनस्यैवाऽर्थस्याऽभिधायकत्वं शब्दानां व्यञ्जितम् / एतच्च प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाऽऽभासत्वस् / आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम्।।३५॥ (रत्ना०) समभिरूढनयाऽऽभासमाभाषन्तेपर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः // 38 // तदाभासः समभिरूढाऽऽभासः॥३८ / / उदाहरन्तियथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दया भिन्नाऽभिधेया एव, मिन्नशब्दत्वात्, करिकुरङ्गतुरङ्गशब्दवदित्यादिः // 36 // (रत्ना०) एवंभूताऽऽभासमाचाक्षतेक्रियाऽनाविष्ट वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः।। 42 // क्रियाऽऽविष्टं वस्तु ध्वनीनामभिधेयः प्रतिजानानोऽपि यः परामर्शस्तदनाविष्ट तत्तेषां तथा प्रतीतिपति न तूपेक्षते, स एवंभूतनयाऽऽभासः, प्रतीतिविघातानाऽपि // 42 // उदाहरन्तियथा विशिष्टचेष्टाशून्यं घटाऽऽख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्, पटवदित्यादिः॥ 13 // अनेन हि वचसा क्रियाऽनाविष्टस्य घटाऽऽदेर्वस्तुनो घटाऽऽदिशब्दवाच्यतानिषेधः क्रियते, स च प्रमाणबाधित इति तद्वचनमेवंभूतनयाऽऽभासोदाहरणतयोक्तम् // 43 // रत्ना०७ परि०॥ णर पुं०(नर) नृणन्ति विवेकमासाद्य नयधर्मपरा भवन्तीति नराः। कर्म० 4 कर्म०।" वाऽऽदौ"॥१॥२२६ असंयुक्तस्याऽऽदौ वर्तमानस्य नस्य णः / इति नस्य णः। प्रा० 1 पाद / मनुष्ये, आ० म० 1 अ०२ खण्ड। आचा० / औ० / प्रश्न० / कर्म० / रा० / नराश्चतुर्विधाःसम्मूर्छिमाः, कर्मभूमिकाः, अकर्मभूमिकाः, अन्तर्भूमिकाः / आ० म० 1 अ० 1 खण्ड / सामान्यमनुष्ये, सूत्र०१ श्रु० 2 अ० 1 उ० / रा०। प्राकृतपुरुष, शास्त्रावबोधविकले, सूत्र०१ श्रु०१ अ०३ उ० / पुरुष, सूत्र०१ श्रु०२ अ०३ उ०। पुसि, ध०१ अधि०। औ०। णरउसम पुं०(नरवृषभ) अङ्गीकृतकार्यभरनिर्वाहकत्वाद् वृषभो-पडिते नरे, औ०। णरकंतप्पवाय पुं०(नरकान्तप्रपात) जम्बूद्वीपे मन्दरस्योत्तरतो रम्यकवर्षे नरकान्तानद्या उद्गमप्रपातह्नदे, स्था० ठा० 3 उ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy