SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ णय 1900 - अभिधानराजेन्द्रः भाग - 4 णय मणां कुर्यात् , तथाविधमतिमान्द्ये तु नैकमपि नयं भावेत, इत्येत-दपि द्रष्टव्यमिति॥ 2278 // तदेवमुक्तं नयद्वारम् / विशे० / अनु०। (37) अथवा ज्ञानक्रियानयद्वये संग्रहाऽऽदीनां समवता रोऽतस्तत्स्वरूपमाहनाणाहीणं सव्वं, नाणनओ भणइ किं व किरियाए। किरियाए करणनओ, तदुभयगाहो य सम्मत्तं / / 3511 // ज्ञानाधीनमेव सर्वमैहिकाऽऽमुष्मिकं सुखम् , किमत्र क्रियया कर्तव्यम् ? युक्तिश्चेहानन्तरमेव वक्ष्यति। करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तेरेव सर्वमैहिकाऽऽमुष्मिकं सुखं क्रियाया एवाऽऽधीनमिति भणति / उभयग्राहश्चेद सम्यक्त्वं स्थितपक्ष इति / / 3561 // विशे० आव० / सूत्र० / सम्म० / नि० चू० / अनु० / आचा० / आ० म० / विपा० / आ० चू० / (ज्ञानक्रियानयशब्दयोर्मतमनयोरवलोकनीयम्।' अणुओग ' शब्दे प्रथमभागे 358 पृष्ठे ' अजरक्खिय ' शब्दे 214 पृष्ठे च नयानां पार्थक्यमार्यवरेण कृतम्) (38) क्वैतेषां नयानां समवतारः, क्व वाऽनवतारः? इति संशयापनोदार्थमाहमूढनइयं सुयं का-लियं तु न नया समोयरंति इहं / अपुहत्ते समोयारो, नत्थि पुहत्ते समोयारो / / 2276 / / मूढा अविभागस्था नया यत्र तन्मूढनयं, तदेव मूढनयिकम् , किं तत् ? कालिकं श्रुतम्-काले प्रथमचरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यत इति कालिकं, तत्र न नयाः समवतरन्त्यत्र प्रतिपदं न भण्यन्त इत्यर्थः। क्व पुनस्तहमीषां समवतार आसीत्, कदा चाऽयमनवतारस्तेषाभूद् ? इत्याह-(अपुहत्ते इत्यादि) चरणकरणाऽनुयोगधर्मकथाऽनुयोगगणिताऽनुयोगद्रव्याऽनुयोगानामपृथग्भावोऽपृथक्त्वं प्रतिसूत्रमविभागेन वक्ष्यमाणेन विभागाभावेन प्रवर्तनं प्ररूपणमित्यर्थः / तस्मिन्नपृथक्त्वे नयानां विस्तरेणाऽऽसीत् समवतारः / चरणकरणाऽऽद्यनुयोगानां पुनर्वक्ष्यमाणलक्षणे पृथक्त्वे नाऽस्ति समवतारो नयानाम् , भवति वा क्वचित्पुरुषापेक्षोऽसौ / इति नियुक्तिगाथार्थः / / 2276 / / भाष्यकारव्याख्याअविभागत्था मूढा, नय त्ति मूढनइयं सुयं तेण / न समोयरंति संता, पइप्पयं जंन भण्णंति / / 2280 // अपुहत्तमेगभावो, सुत्ते सुत्ते सवित्थरं जत्थ। भण्णंतणुओगा चर-णधम्मसंखाण दव्वाणं / / 2281 // तत्थेव नयाणं पि हु, पइवत्थु वित्थरेण सव्वेसिं। देसिंति समोयारं, गुरवो भयणा पुहत्तम्मि| 2282 // एगो चिय देसिज्जइ, जत्थऽणुओगोन सेसया तिण्णि। संता वितं पुहत्तं, तत्थ नया पुरिसमासज्ज / / 2283 // चतस्रोऽपि गतार्थाः, नवरं प्रथमगाथोत्तरार्द्ध यद्यस्मात्सन्तो- ऽपि प्रतिपदं न भण्यन्ते, अपृथक्त्वं किमुच्यते ? इत्याह-एक-भावः। एकभावमेव विवृणोति-(सुत्ते सुत्त इत्यादि) यत्र सूत्रे सूत्रेऽनुयोगा व्याख्यानानि भण्यन्ते / केषाम् ? इत्याह-(चरणेत्यादि) संख्यानं गणितमुच्यते / ततश्चेदमत्र हृदयम्-यत्रैकै कस्मिन् सूत्रे चरणकरणा ऽनुयोगः, धर्मकथानुयोगः, गणितानुयोगः, द्रव्यानु-योगश्च सविस्तर व्याख्यायते, न तु वक्ष्यमाणेन पार्थक्येन तदपृथ-क्त्वमिति शेषः / पृथक्त्वंतु किमुच्यते? इत्याह-(एगो चियइत्यादि) इदंच" कालियसुयं च"(२२६४) इत्यादिवक्ष्यमाणगाथायांव्यक्तीभविष्यतीति इयं च गाथा ग्रन्थतोऽवसेया, नेह गृहीता।। 2250 / / 2281 // 2282 // 2283 // आह-क्रियन्तं कालं यावत्पुनरिदं पृथक्त्वमासीत् ? कुतो वा पुरुषविशेषादारभ्य पृथक्त्वमभूदित्याहजावंति अज्जवइरा, अपुहत्तं कालियाऽणुओगस्स। तेणाऽऽरेण पुहत्तं, कालियसुय दिट्ठिवाए य / / 2284 // यावदार्यवैरा गुरवो महामतयस्तावत्कालिकश्रुताऽनुयोगस्यापृथक्त्वमासीत् , तदा व्याख्यातॄणां च तीक्ष्णप्रज्ञत्वात् / कालिकग्रहण च प्राधान्यख्यापनार्थम्, अन्यथोत्कालिकेऽपि सर्वत्र प्रतिसूत्रं चत्वारोऽप्यनुयोगास्तदानीमासन्नेवेति / तदारतस्त्वार्यरक्षितेभ्यः समारभ्य कालिकश्रुते दृष्टिवादे चाऽनुयोगानां पृथक्त्वमभूत् / इति नियुक्तिगाथार्थः / / 2284 // भाष्यम्अपुहत्तमासि वइरा, जावं ति पुहत्तमारओऽभिहिए। के ते आसि कया वा, पसंगओ तेसिमुप्पत्ती / / 2285 / / आर्यवैराद्यावदपृथक्त्वमासीत् , तदारतस्तु पृथक्त्वमुक्तम् एतस्मिश्वाऽभिहिते क एते आर्यवराः, कदाच ते आसन् ? इति विनेयपृच्छायां प्रसङ्गत आर्यवैराणामुत्पत्तिरुच्यत इति गाथार्थः // 2285 // विशे० / ('अजरक्खिय' शब्दे 212 पृष्ठे सर्वं वृत्तम्) नयविभागे विशेषतः कारणमाहसविसयमसद्दहंता, नयाण तम्मत्तयं च गिण्हता। मण्णंताय विरोह, अपरीणामाऽतिपरिणामा॥ 2292 / / गच्छेज मा हु मिच्छं, परिणामा य सुहुमाइबहुभेए। होजाऽसत्ते घेत्तुं, न कालिए तो नयविभागो / / 2263 / / (सविसयेत्यादि) इह शिष्यास्त्रिविधाः / तद्यथा-अपरिणामाः, अतिपरिणामाः, परिणामाश्चेति / तत्राऽविपुलमतयोऽगीतार्था अपरिणतजिनवचनरहस्या अपरिणामाः / अतिव्याप्त्याऽपवाददृष्टयोऽतिपरिणामाः / सम्यक्परिणतजिनवचनास्तु मध्यस्थवृत्तयः परिणामाः / तत्र ये अपरिणामास्ते नयानांयः स्वः स्व आत्मीय आत्मीयो विषयो"ज्ञानमेव श्रेयः क्रिया चाऽश्रयेः "इत्यादिकः, तमश्रद्दधानाः। ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन क्रिया-ऽऽदिकं वस्तु प्रोक्तं तदेव तन्मात्रं प्रमाणतया गृह्णन्त एकान्तनित्याऽऽदिकवस्तुप्रतिपादकनयानां च परस्परविरोधं मन्वाना मिथ्यात्वमागच्छेयुः, येऽप्युक्तस्वरूपाः परिणामाः शिष्यास्ते यद्यपि मिथ्यात्वं न गच्छन्ति, तथाऽपि विस्तरेण नयख्यिायमानैर्ये सूक्ष्माः सूक्ष्मतराश्च तद्भेदाः, तान् गृहीतुमशक्ता असमर्था भवेयुरिति मत्वा तत आर्यरक्षितसूरिभिः कालिक इत्युपलक्षणत्वात्सर्वस्मिन्नपि श्रुते नयविभागो विस्तरव्याख्यारूपो न कृत इति गाथा (दया) र्थः / / 2262 // 2263 // विशे० / आ० चू० / आ० क०। आ० म० / अभिप्रायविशेषे, चं० प्र०१ पाहु०। आ० म०। न्याये, औ० / नीतौ च / विशे०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy