________________ णय 1896 - अभिधानराजेन्द्रः भाग-४ णय स्वविषयपरिच्छेदसमर्था अपीतरनयविषयव्यवच्छेदेन स्वविषये वर्तमाना मिथ्यात्वं प्रतिपद्यन्त इत्युपसंहरन्नाहणिययवयणिज्जसचा, सव्वनया परवियालणे मोहा। ते पुण ण दिवसमओ, विभइ य सच्चे व अलिए वा // 28 // / निजकवचनाये स्वाशे परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपाः सर्व एव नयाः संग्रहाऽऽदयः परविचालने परविषयोत्खनने मोहाः महन्तीति मोहा मिथ्याप्रत्ययाः, परविषयस्याऽपि सत्यत्वेनोन्मूलयितुमशक्यत्वात् तदभावे स्वविषयस्याऽप्यव्यवस्थितेस्ततश्च परविषयस्यासत्त्वे स्वविषयस्याप्यसत्त्वात्।तत्प्रत्ययस्य मिथ्यात्वमेव, तद्व्यतिरिक्तग्राह्यग्राहकप्रमाणस्य वा भावात्तानेव नयान पुनः-शब्दस्यावधारणार्थत्वात्, नेति प्रतिषेधे, विभजनक्रियाया दृष्टः समयः सिद्धान्तवाच्यमनेकान्ताऽऽत्मकं वस्तुतत्त्वं येन सा सतथा सन विभजते सत्येतरतया स्वेतरविषयमवधारयमाणोऽपि तथा तन्नैव विभजते / अपि वितरनयविषयसव्यपेक्षमेव स्वनयाऽभिप्रेतं विषयं सत्यमेवावधारयतीति यावद् ग्राह्यसत्यासत्ये इत्येव-मभिधानम्। तच्च दृष्टाऽनेकान्तत्वस्य विभजनम्, स्यादस्त्येव द्रव्यार्थतइत्येवरूपः। अतो नयप्रमाणाऽऽत्मकैकरूपताव्यवस्थितमात्मस्वरूपमनुगतव्यावत्ताऽऽत्मकमत्सर्गापवादरूपग्राह्यग्राहकाऽऽत्मकत्वाद व्यवतिष्ठत इत्यर्थप्रदर्शनायाऽऽहदव्वट्ठियवत्तवं, सव्वं सव्वेण णिचमवियप्पं / आरद्धो अविभागो, पज्जववत्तव्वमग्गो य // 26 // यत् किञ्चिद् द्रव्यार्थिकस्य संग्रहाऽऽदेः सदादिरूपेण व्यवस्थितं वस्तु वक्तव्यं परिच्छेद्यतत्सर्व सर्वेण प्रकारेण नित्यं सर्वकालमविकल्पं निर्भेद, सर्वस्य सदविशेषाऽऽत्मकत्वात्। तच भेदेन संपृक्तमिति दर्शयितुमाहआरब्धश्चाविभागः, स एवाविभागः सत्तारूपो यो द्रव्याऽऽदिनाऽऽकारेण प्रस्तुतः, चशब्दस्य प्रक्रान्ताविभागान्न कर्षणार्थत्वात् : पर्यायवक्तव्यमार्गश्च पर्यायार्थिकस्य यद्वक्तव्यं विशेषस्तस्य मार्गः पन्थाः जातः पर्यायार्थिकपरिच्छेद्यस्वभावो विशेषः संपन्न इति। सम्म०१ काण्ड (36) एवं नयस्य लक्षणसंख्याविषयान व्यवस्थाप्येदानी फलं स्फुटयन्तिप्रमाणवदस्य फलं व्यवस्थापनीयम्॥ 54 // प्रमाणस्येव प्रमाणवत् , अस्येति नयस्य, यथा खल्वानन्तर्येण प्रमाणस्य संपूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम्, तथा नयस्याऽपि वस्त्वेकदेशाज्ञाननिवृत्तिः फलमानन्तर्येणावधार्यम्।यथाचपार-म्पर्येण प्रमाणस्योपादानहानोपेक्षाबुद्धयः संपूर्णवस्तुविषयाः फलत्वेनाभिहिताः, तथा नयस्याऽपि वस्त्वंशविषयाः, ताः परम्पराफलत्वेनावधारणीयाः / तदेतद् द्विप्रकारमपि नयस्य फलं, ततः कथञ्चिभिन्नमभिन्नं वाऽवगन्तव्यम्, नयफलत्वान्यथाऽनुपपत्तेः / कथञ्चिद्भेदाभेदप्रतिष्ठा च नयफलयोः प्रागुक्तप्रमाणफलयोरिव कुशलैः कर्तव्या 1 रत्ना०७ परि०। नन्यनेन संमोहहेतुना नयविचारेण मूलत एव किं प्रयोजनम् ? इत्याहअत्थं जो न समिक्खइ, निक्खेवनयप्पमाणओ विहिणा। तस्साजुत्तं जुत्तं, जुत्तमजुत्तं व पडिहाइ।। 2273 / / परसमएगनयमयं, तत्पडिवक्खनयओ निवत्तेज्जा। समए व परिग्गहियं, परेण जं दोसबुद्धीए / / 2274 / / यो नामस्थापनाऽऽदिद्वारेण, तथा नैगमाऽऽनियः, प्रत्यक्षाऽऽदि-भिश्च प्रमाण रथं सूक्ष्मेक्षिकया विचार्य न समीक्षते न परिभावयति, तस्याऽविचारितरमणीयतया अयुक्त युक्तं प्रतिभाति, युक्तमपि वाऽन्यतयाऽयुक्तं प्रतिभाति, अतः कर्तव्यो नयविचारः।।२२७३|| किश्चबौद्धाऽऽदिपरसमयरूपमनित्यत्वाऽऽदिप्रतिपादकस्य ऋजुसूत्राऽऽदिकनयस्य यन्मतं तन्त्रयविधिज्ञः साधुः (तप्पडिवक्ख-नयओ त्ति) तस्यानित्यत्वाऽऽदिप्रतिपादकनयस्य प्रतिपक्षभूतो नित्यत्याऽऽदिप्रतिपादको यो द्रव्यास्तिकाऽऽदिनयस्तस्मात्ततो निवर्तयेन्निराकुर्यात् / अथवा-समये स्वसिद्धान्ते, जैनागमेऽपीत्यर्थः / यदज्ञानद्वेषाऽऽदिदोषकलुषितेन परेण दोषबुद्ध्या किमपि जीवाऽऽदिकं वस्तु परिगृहीतं भवति, तदपि नयविधिज्ञो निवर्तयेत्-नयोक्तिभिर्गुणरूपतया तत्स्थापयेदित्यर्थः / अस्मात्कर्त्तव्यो नयविचार इति गाथा (द्वया) ऽर्थः // 2274 // आह-किं सर्वत्र सर्वदा सर्वोऽपि कर्तव्यो नयविचा ? न, इत्याहएएहिँ दिट्ठिवाए, परूवणा सुत्त-अत्थकहणाय। इह पुण अणब्भुवगमो, अहिगारो तीहि ओसन्नं / / 2275 / / एभिर्नेगमाऽऽदिभिर्नयैः सप्रभेदैर्दृष्टिवादे सर्ववस्तुप्ररूपणा सूत्राऽर्थकथना च, क्रियते इति शेषः / इह पुनः कालिकश्रुतेऽनभ्युप-गमो, नावश्यं नयैर्व्याख्या कार्या / यदि च-श्रोत्रपेक्षया नवविचारः क्रियते, तदा त्रिभिराद्यैरुत्सन्नं प्रायेणात्राधिकार इति नियुक्तिगाथार्थः / / 2275 / / किमिति त्रिभिरेवाऽऽद्यनयैरिहाधिकारो, न शेषैः ? इत्याहपायं संववहारो, ववहारं तेहिँतिहिँ य ज लोए। तेण परिकम्मणत्थं, कालियसुत्ते तदहिगारो॥ 2276 / / सुगमा / नवरं शिष्यमतिपरिकर्मणार्थ तैः स्थूलसंव्यवहारार्थप्रतिपादकैरेव नैगमसंग्रहव्यवहारनयैरिहाधिकार इति गाथार्थः / / 2276 // आह-नन्दिह पुनर्नाभ्युपगम इत्यभिधाय पुनस्विनयानुज्ञा किमर्थम् ? इत्याहनत्थि नएहि विहूणं, सुत्तं अत्थो य जिणमए किंचि। आसज्ज उसोयारं, नए नयविसारओ बूया // 2277 / / सूत्रमर्थो वा नास्ति जिनमते नयैर्विहीनं किञ्चिदपि, तथाऽप्याचार्यशिष्याणां मतिमान्द्यापेक्षया सर्वनयविचारनिषेधः कृतः / विमलमतिं श्रोतारं पुनरासाद्य नयविशारदः सूरिः समनुज्ञातमाद्यन-यत्रयं शेषान् वा नयान् ब्रूयादिति नियुक्तिगाथार्थः / / 2277 / / अत्र भाष्यम् - मासिज्ज वित्थरेण वि, नयमयपरिणामणासमत्थम्मि। तदसत्ते परिकम्मण-मेगनएणं पि वा कुजा / / 2278 / / सुगमा / नवरं वाशब्दान्नयद्वये न त्रयेण वा शिष्यमतिपरिक