SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ णय 1868 - अभिधानराजेन्द्रः भाग - 4 णय (नास्तीत्यादि) नाऽस्त्यात्मेति चार्वाकमते, न नित्य इति क्षणि-क वादिमते, न कर्ता न भोक्तेति साङ्ख्यमते। यद्वा न कर्तेति साङ्ख्यमते, नभोक्तेत्युपचरितभोक्तृत्वस्यानभ्युपगमात् वेदान्तिमते, नास्ति निर्वृत्तिः सर्वदुःखविमोक्षलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तृणां यज्वना मते, अस्ति मुक्तिः परं तदुपायो नास्ति, सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिमते / इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः।। 123 // षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि। मार्गत्यागप्रवेशाभ्यां, फलतस्तत्त्वमिष्यते॥१२४ // (षडेतदिति) एतेभ्यः प्रागुक्तेभ्यो विपरीतानि षट् सम्यक्त्वस्थानकान्यपि भवन्ति-अस्त्यात्मा नित्यः कर्ता साक्षाद्भोक्ता, अस्ति मुक्तिरस्तिचतत्कारणं रत्नत्रयसाम्राज्यमिति।तदिदमुक्तम्-"अस्थि जिओ तह णिचो, कत्ता भुत्ता स पुन्नपावाणं / अस्थि धुवं णिव्याणं, तस्सोवाओ अछट्ठाणा / / 1 / / " इति चार्वाकाऽऽदिपक्षनिरासश्चातिभूयानिति लताऽऽदित एव तदवगमो विधेयः / नयो०) नयाः समुदिताः सम्यक्त्विनः। आद्यस्तुतिकारोऽप्यवोचत"नयास्तव स्यात्पदलाञ्छना इमे, रसोपविष्टा इव लोहधातयः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ।।१।।''आ० म०१ अ०१ खण्ड। अधुना परदर्शनानां परस्परविरुद्धाऽर्थसमर्थकतया मत्सरित्वं प्रकाशयन सर्वज्ञोपज्ञसिद्धान्तस्यान्योऽन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति अन्योऽन्यपक्षप्रतिपक्षमावाद्, यथा परे मत्सरिणः प्रवादाः। नयानशेषानविशेषमिच्छन पक्षपाती समयस्तथा ते // 30 // प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति प्रवादाः / यथा येन प्रकारेण, परेभवच्छासनादम्ये, प्रवादाः दर्शनानिमत्सरिणः-अतिशायने मत्वर्थीयविधानात् सातिशयाऽसहनताशालिनः क्रोधकषायकलुषितान्तःकरणाः सन्तः पक्षपातिनः इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते। कस्माद्धेतोर्मत्सरिणः? इत्याह-अन्योऽन्यपक्षप्रतिपक्षभावात् / पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्टयेन हेत्वादिभिरिति पक्षः-कक्षीकृतधर्म-प्रतिष्ठापनाय साधनोपन्यासः।। तस्य प्रतिकूलः पक्षः प्रतिपक्षः। पक्षस्य प्रतिपक्षो विरोधी पक्षः, तस्य भावः पक्षप्रतिपक्षभावः / अन्योऽन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्षत्वमन्योऽन्य-पक्षप्रतिपक्षभावस्तस्माता तथाहि-य एव मीमांसकानां नित्यः शब्दः इति पक्षः, स एव सौगतानां प्रतिपक्षः, तन्मते शब्दस्याऽ-नित्यत्वात्। य एव सौगतानाम्-अनित्यः शब्दः इति पक्षः, स एव मीमांसकानां प्रतिपक्षः। एवं सर्वप्रयोगेषु योज्यम्। तथा तेन प्रकारेण, ते तव, सम्यग् एतिगच्छति शब्दोऽर्थमनेनेति "पुन्नाम्निघः " // 5 / 3 / 130 // समयः सङ्केतः। यद्वा-सम्यगवैपरीत्येनाऽऽय्यन्ते ज्ञायन्ते जीवाऽजीवाऽऽदयोऽर्था अनेनेति समयः सिद्धान्तः। अथवा-सम्यगयन्ते गच्छन्ति जीवाऽऽदयः पदार्थाः स्वस्मिन् रूपे प्रतिष्ठा प्राप्नुवन्ति अस्मिन्निति समय आगमः। न पक्षपाती नैकपक्षानुरागी। पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषू-क्तम्। त्वत्समयस्य चमत्सरित्वाभावान्न पक्षपातित्वम्। पक्षपातित्वं हि मत्सरित्वेन व्याप्तम्। व्यापकं च निवर्तमान व्याप्यमपि निवर्तयतीति मत्सरित्वे निवर्तमाने पक्षपातित्वमपि निवर्तत इति भावः।' तव समयः इति वाच्यवाचकभावलक्षणे संबन्धे षष्ठी। सूत्रा-पेक्षया गणधरकर्तृकत्वेऽपि समयस्याऽर्थापेक्षया भगवत्कर्तृकत्वाद्वाच्यवाचकभावो न विरुध्यते-" अत्थं भासइ अरहा, सुत्तं गंथति गणहरा निउणं। " (1116) इति (भाष्य) वचनात्। अथवा-उत्पादव्ययध्रौव्यप्रपञ्चः समयः, तेषां च भगवता साक्षान्मातकापदरूपतयाऽभिधानात् / तथा चार्षम्-" उप्पन्नेइ वा, विगमेइ वा, धुवेइ वा " इत्यदोषः। मत्सरित्वाभावमेव विशेषणद्वारेण समर्थयति-" नयानशेषानविशेषमिच्छन् " इति। अशेषान् समस्तान्नयान् नैगमाऽऽदीन् अविशेषं निर्विशेष यथा भवत्येवमिच्छन्नाकाजन्, सर्वनयाऽऽत्मकत्वादनेकान्तवादस्य / यथा विशकलिताना मुक्कामणीनामेक सूत्रानुस्थूतानां हारव्यपदेशः, एवं पृथगभिसंधीनां नयानां स्याद्वादलक्षणैकसूत्रप्रोतानां श्रुताऽऽख्यप्रमाणव्यपदेश इ-ति / ननु प्रत्येक नयानां विरुद्धत्वे कथं समुदिताना निर्विरोधिता? उच्यते-यथा हि समीचीनं मध्यस्थं न्यायनिर्णतारमासाद्य परस्पर विवदमाना अपि वादिनो विवादाद्विरमन्ति, एवं नया अन्योऽन्य वैरायमाणा अपि सार्वज्ञ शासनमुपेत्य स्याच्छब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परमत्यन्तसुहृद्रूपतयाऽवतिष्ठन्ते। एव च सर्वनयाऽऽत्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद्दर्शनानाम् / न च वाच्यम् , तर्हि भगवत्समयस्तेषु कथं नोपलभ्यत इति ? समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तास्वनुपलम्भात्। तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः" उदधाविव सर्वसिन्धवः, समुदीस्त्वियि नाथ! दृष्टयः। नच तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः // 1 // अन्ये त्वेवं व्याचक्षते-यथा-' अन्योऽन्यपक्षप्रतिपक्षभावात्परे प्रवादा मत्सरिणस्तथा तव समयः सर्वनयान् मध्यस्थतयाऽङ्गीकुर्वाणो न मत्सरी / यतः कथंभूतः ? पक्षपाती, पक्षमेकपक्षाभिनिवेशं पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशनष्ठत्वात्। अत्रच व्याख्याने मत्सरीति विधेयपदं, पूर्वस्मिश्च पक्षपातीति विशेषः / अत्र च क्लिष्टाक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्य इति काव्यार्थः // 30 // स्या० / अष्ट1 सम्म०1 न कारणमेव कार्य परिणामो वा, परिणामो न कार्य नापि कारणम्, अपि तु द्रव्यमानं तत्त्वमिति, तदेव वेति नियमेनैकान्ताभ्युपगमे सर्व एवैते मिथ्यावादाः, उक्तन्यायेन नियमेन मिथ्यात्वमित्यभिधानात्। कथञ्चिदभ्युपगमे सम्यग्वाद एवैते। इत्युक्तं भवति-यत उत्पादव्ययध्रौव्याऽऽत्मकत्वे वस्तुनः स्थिते, तद्वस्तु तत्तदपेक्षया कार्यमकार्य च कारणमकरणं च कारणे कार्य सचासच कारणं कार्यकाले विनाशवदविनाशवच, तथैव प्रतीतेः, अन्यथा चाप्रतीतेः / अत एकान्तरूपस्य वस्तुनोऽभावात् सर्वेऽपि नयाः
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy