SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ णय 1897- अभिधानराजेन्द्रः भाग-४ णय भाज्यो व्यञ्जनविकल्प इति विकल्पितः शब्दपर्यायो भिन्नोऽभिन्नश्चानेकाभिधान एकः, एकाभिधानश्चैक इति कृत्वा समानलिङ्गसंख्याकालाऽऽदिरनेकशब्दो घटः कुटः कुम्भ इत्यादिक एकार्थ इति शब्दनयः / समभिरूढस्तु-भिन्नाभिधेयौ घटकुटशडदौ भिन्नप्रवृत्तिनिमित्तत्वाद्रूपरसाऽऽदिशब्दवदित्येकार्थ एकशब्द इति मन्यते। एवंभूतस्तुचेष्टासमय एवघटोघटशब्दवाच्यः, अन्यथा-ऽतिप्रसङ्गात्। तदेवमभिन्नोऽर्थो वाच्योऽस्य त्वभिन्नार्थो घटशब्द इति मन्यते यत्तदन्यतो विभक्तेन स्वरूपेणैकमनेकं च वस्तूक्तं तदनन्तप्रमाणमित्याख्यातुमाहएगदवियम्मि जे अ-त्थपज्जवा वयणपज्जवा वा वि। तीयाऽणागयभूया, तावइयं तं हवइ दव्वं // 31 // एकस्मिन् जीवाऽऽदौ द्रव्येऽर्थपर्याया अर्थग्राहकाः सङ्ग्रहव्यवहारर्जुसूत्राख्यास्तद्ग्राह्या वाऽर्थभेदा वचनपर्यायाः शब्दनयाः शब्दसमभिरूद्वैवंभूतास्तत्परिच्छेद्या वस्त्वंशा वा, ते चातीताऽनागतवर्तमानरूपतया सर्वदा विवर्तन्ते, विवृताः, विवर्तिष्यन्त इति, तेषामानन्त्यावस्त्वपितावत्प्रमाणं भवति। तथाहि-अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानुगमेनासादितत्वादवस्था-तुश्वावस्थानां कथञ्चिदनन्यत्वाद्घटाऽऽदिवस्तु कुटपुरुषाऽऽदिरूपेणाऽपि कथञ्चिद्विकृतमिति सर्व सर्वाऽऽत्मकं कथञ्चिदिति स्थितम् / दृश्यते चैकं पुद्गलद्रव्यमतीतानागतवर्तमानद्रव्यगुणकर्म सामान्यविशेषपरिणामाऽऽत्मकं युगपत्क्रमेणापि तत्तथाभूतमेव, एकान्तासत उत्पादायोगात्, सतश्च निरन्वयविनाशासंभवादिति प्रतिपादितत्वात्। एवं तावद् बाह्याभ्यन्तरभेदेन द्विविधस्याऽपि वस्तुनोऽनेकान्ताऽऽत्मकत्वं प्रतिपाद्य तत्प्रतिपादनवाक्यनयानामपि तथाविधमेव स्वरूपं नान्यादृग्भूतमस्तीति प्रति पादयन्नाहपुरिसम्मि पुरिससद्दो, जम्माऽऽई मरणकालपजंतो। तस्स उबालाऽऽईया, पज्जवजोया बहुवियप्पा / / 32 // अथवा-अर्थव्यञ्जनपर्यायैः शक्ति व्यक्तिरूपैरनन्तरैरनुगतोऽर्थः सविकल्पो, निर्विकल्पकश्च / प्रत्यक्षतोऽवगत इति इदानी पुरुषदृष्टान्तद्वारेण व्यञ्जनपर्यायं तदविकल्पत्वनिबन्धनमर्थपर्याय च। तत्र सविकल्पत्वनिमित्तमाह-"पुरिसम्मि " इत्यादिना सूत्रेण, अतीतानागतवर्तमानानन्तार्थव्यञ्जनपर्यायाऽऽत्मके पुरुषवस्तुनि पुरुष इति शब्दो यस्याऽसौ पुरुषशब्दस्तद्वाच्योऽर्थो जन्माऽऽदिर्मरणपर्यन्तोऽभिन्न इत्यर्थः, पुरुष इत्यभिन्नाभिधानप्रत्ययव्यवहारप्रवृत्तेः / तस्यैव बालाऽऽदयः पर्याययोगाः परिणतिसंबन्धा बहुविकल्पा अनेकभेदाः प्रतिक्षणसूक्ष्मपरिणामान्तभूता भवन्ति, तत्रैव तथा व्यतिरेकज्ञानोत्पत्तेः / एवं च स्यादेक इत्यविकल्पः, स्यादनेक इति सविकल्पः सिद्धः / अन्यथाऽभ्युपगमे तदभाव एवेति विपक्षः " अत्थिति णिव्वियप्पं (33)" इत्यनन्तरगाथया बाधां दर्शयिष्यति, द्वितीयपातनिकया न। गाथार्थस्तुपुरुषवस्तुनि पुरुषध्वनिर्व्यञ्जनपर्यायः, शेषो बालाऽऽदिधर्मकलापोऽर्थपर्याय इति गाथासमुदायार्थः / ननु कोऽयं पुरुषशब्दः, कथं वा शब्दोऽर्थस्य पर्यायः, ततोऽत्यन्तभिन्नत्वाद्घटस्येव पटः।। (32) सम्म० १काण्ड। यच्च कथं शब्दो वस्त्वन्तरत्वात्पुरुषाऽऽदेर्वस्तुनो धर्मः ? येनाऽसौ तस्य व्यञ्जनपर्यायो भवेदित्युक्तम् / तत्र नामनयाऽभिप्रायात् " नामनामवतोरभेदात् "पुरुषशब्द एव पुरुषार्थस्य व्यञ्जनपर्यायः / यदा-पुरुष इति शब्दो वाचको यस्याऽर्थगततद्वाच्यधर्मस्यासौ पुरुषशब्दः, स चाभिधेयपरिणामरूपोव्यञ्जनपर्यायः कथं नाऽर्थधर्मः, सच व्यञ्जनपर्यायः पुरुषोत्पत्तेरारभ्याऽऽपुरुषविनाशाद्- भवतीति जन्माऽऽदिर्मरणसमयपर्यन्त उक्तः, तस्यतुबालाऽऽदयः पर्याययोगा बहुविकल्पाः, तस्य पुरुषाभिधेयपरिणामवतो बाल-कुमाराऽऽदयस्तत्रोपलभ्यमाना अर्थपर्याया भवन्त्यनन्तरूपाः। एवं च पुरुषो व्यञ्जनपर्यायेणैको, बालाऽऽदिभिस्त्वर्थपर्यायैरनेको, यथा पुरुषस्तथा सर्वं वस्त्वेकमनेकं वा, सर्वस्य तथैवोपल-ब्धेः, अन्यथाऽभ्युपगमे एकान्तरूपमपि तन्न भवेदिति दर्शयन्नाहअस्थि त्ति णिव्वियप्पं, पुरिसं जो भणइ पुरिसकालम्मि। सो बालाऽऽइवियप्पं, न लहइ तुल्लं वयावेजा॥३३॥ अस्तीत्येवं निर्विकल्पं निष्क्रान्ताशेषभेदस्वरूपं पुरुषमेकरूपंपुरुषद्रव्यं यो ब्रवीति पुरुषकाले पुरुषोत्पत्तिक्षण एवाऽसौ बालाऽऽदिभेदं न लभते, बालाऽऽदिभेदरूपतया नाऽसौ स्वयमेव व्यवस्थितिं प्राप्नुयात् , नाऽपि तद्रूपतया अपरमसौ पश्येदेवं वा भेदरूपमेव तत् पुरुषवस्तु प्रसज्येत, तुल्यं वा प्राप्नुयात् , तदप्यभेदरूपं बालाऽऽदितुल्यत्वमेव भावरूपतया प्राप्नुयाझेदाप्रतीतावभेदस्याप्यप्रतीतेरभाव इति भावः / यद्वा-अस्तीत्येवं निर्विकल्पनिश्चिनोति विकल्पो भेदो यस्मिन् पुरुषद्रव्ये तनिर्विकल्पं भेदरूपं पुरुषं तत्स्वरूपलाभकाले भणत्यसौ बालाऽऽदिविकल्पं न लभेत तुल्य-मिति द्रव्यतुल्यतामेवाऽसौ प्राप्नुयात्, अत्राऽपि पूर्ववत् तदग्रहे तदग्रहाद्भेदरूपताया अप्यभाव इति भावः। न चैवमेवास्तीति वक्तव्यम्, सर्वव्यवहारोच्छेदप्रसक्तेरिति भेदाऽभेदरूपमेव वस्तु। अस्यैवोपसंहारार्थमाहवंजणपज्जायस्स उ, पुरिसो पुरिसो त्ति णिचमवियप्पो। बालाऽऽइवियप्पं पुण, पासइ से अत्थपज्जाओ॥ 34 // शब्दपर्यायणविकल्पः पुरुषः, बालाऽऽदिना त्वर्थपर्यायण सविकल्पः सिद्ध इति गाथातात्पयार्थः / यजयति, व्यनक्ति वाऽर्थानिति व्यञ्जनं शब्दो, न पुनः शब्दनयः, तस्य ऋजुसूत्रार्थनय-विषयत्वादिति केचित्। तस्य पर्याय आ जन्मनो मरणान्तं यावद-भिन्नस्वरूपपुरुषद्रव्यप्रतिपादकत्वं, तद्वशेन तत्प्रतिपाद्य वस्तु-स्वरूपमत्र-ग्राह्यम् , उपचारात्। एवं च द्वितयमप्येतत्पुरुषः पुरुष इत्यभेदरूपतया न भिद्यते, व्यञ्जनपर्यायमतेन पुरुषवस्तु सदाऽविकल्पं, भेदं न प्रतिपद्यत इति यावत्। बालाऽऽदिविकल्पं बालाऽऽदिभेदं पुनस्तस्यैव पश्यत्यर्थपर्याय ऋजुसूत्राऽऽद्यर्थनयः / अत्रापि विषयिणा विषय ऋजुसूत्राऽऽद्यर्थनयविषयेऽभिन्ने पुरुषरूपे भेदे स्वरूपो निर्दिष्टः, उपचारात् / एवं चाभिन्नं पुरुषवस्तु भेदं प्रतिपद्यत इति यावत् / सम्म० 1 काण्ड। स्था०। (35) नयेषु मिथ्यात्वसम्यक्त्वे। अथनयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं, कस्मिश्च सम्य क्त्वमिति जिज्ञासायामाहनास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निर्वृतिः। तदुपायश्च नेत्याहु-मिथ्यात्वस्थानकानि षट्।। 123 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy