________________ णय १८९६-अमिधानराजेन्द्रः भाग - 4 णय स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः परागमाः। ज्ञेयोपयुज्य तदियं, दर्शने नययोजना / / 122 / / (स्याद्वादेति) तैयैः स्याद्वादनिरपेक्षैः स्याद्वादैकवाक्यतारहितैस्तावन्तो वचस्तुल्यसंख्या एव परागमाः परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् / इदमुक्तं सम्मतितृतीयकाण्डे-" जावइया वयणपहा, तावइआ चेव हुंति णयवाया। जावइया णयवाया, तावइया चेव परसमया || 47 // एतावत्स नयेष्विच्छाकल्पितसंयोगजभेदेऽपि समवायान्तराक्षेपकः सुलभ एव, इयं दर्शने नययोजनोपयुज्य ज्ञेया, न त्वापातत एव; आपातज्ञानस्य स्वसमयपरसमयविपर्यासफलत्वात्। अत एव वस्तुस्थितिविचारे-'जे पज्जवेसु णिरदा, जीवा परसमयगतिविणिहिट्ठा। आयसहावम्मि ठिया, ते सगसमया मुणेयव्वा " // 1 // इति दैगम्बरं वचनं वक्तुः सम्यक स्वसमयनिष्णाततामभिव्यञ्जयति / द्रव्यास्तिकाभिप्रायः स्वसमयः, पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वान्नयवाक्यमेवैतदिति चेत् , तर्हि प्रवचनप्रक्रियाव्युत्पादने क इवास्योपयोगः ? स्थूलसूक्ष्मनयार्थानां क्रमव्युत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत्। यदपि प्रावचनिकानां जिनभद्रसिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवक्तव्यताप्रतिबन्धप्रतिपादनं, तदप्यभिनिवेशेन चेत्तदा प्रावचनिकत्वक्षतिरिति / तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम् अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः / अत एव च नयाभिप्रायेणोभयसमा- | धानमस्माभिर्ज्ञानबिन्दौ विहितमिति / एवमन्यत्राऽपि दर्शनप्रयोजनाभ्यामुपयोगो विधेयः समयनिष्णातैः / / 122 / / नयो०। (34) के पुनरेषु नयेष्वर्थप्रधानाः, के च शब्दनया इति दर्शयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः / / 44 / / शेषास्तु त्रयः शब्दवाच्याऽर्थगोचरतया शब्दनयाः॥ 45 / / कः पुनरत्र बहुविषयः, को वाऽल्यविषयो नय इति विवेचयन्तिपूर्वः पूवो नयः प्रचुरगोचरः, परः परस्तुपरिमितविष-यः॥ 46 // तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो नैगमात्परः, किं तर्हि नैगम एव संग्रहात्पूर्व इत्याहुः सन्मात्रगोचरात्संग्रहान्नैगमो भावाऽभावभूमिकत्वाद् भूम-1 विषयः॥४७॥ भावाऽभावभूमिकत्वाद्भावाऽभावविषयत्वाद्, भूमविषयो बहुविषयः॥४७॥ संग्रहाद्व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकान्यवहारतः संग्रह समस्तसत्समूहोपदशकत्वाद् बहुविषयः॥ 48|| व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकारायां समूहं ख्यापयतीति बहुविषयः॥४८|| व्यवहारात् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यान्तिवर्तमानविषयादृजुसूत्राट्यवहारस्त्रिकालविषयाऽवलम्बि- | त्वादनल्पार्थः // 46 // वर्तमानक्षणमात्रस्थायिनमर्थमजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तुकालत्रितयवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति॥ 46 // ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्तिकालाऽऽदिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः / / 50 // शब्दनयो हि कालाऽऽदिभेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः, ऋजुसूत्रस्य कालाऽऽदिभेदतोऽप्यभिन्नमर्थं सूचयतीति बहुविषय इति / / 50 // __ शब्दात्समभिरूढो महार्थ इत्यारेका पराकुर्वन्तिप्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्रिपर्ययाऽनुयायित्वात् प्रभूतविषयः॥५१॥ समभिरूढनयो हि पर्यायशब्दानांव्युत्पत्तिभेदेन भिन्नार्थतामर्थयत इति तनुगोचरोऽसी, शब्दनयस्तु तेषां तद्भेदेनाऽप्येकार्थतां समर्थयत इति समधिकविषयः॥५१॥ समभिरूढादेयम्भूतो भूमविषय इत्यप्याकूतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्समभिरूढस्तदन्यथाऽर्थस्थापकत्वान्महागोचरः॥५२॥ एवंभूतनयो हि क्रियाभेदेन मिन्नमर्थं प्रतिजानीत इति तुच्छविषयोऽसौ, समभिरूढस्तु तद्भेदेनाऽप्यभिन्नं भावमभिप्रेतीति प्रभूतविषयः // 52 // अथ यथा नयवाक्यं प्रवर्तते तथा प्रकाशयन्तिनयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति / / 53 // नयवाक्यम्-प्राग्लक्षितविकलाऽऽदेशस्वरूपं; न केवलं स कलाऽऽदेशस्वभावं प्रमाणवाक्यमित्यपिशब्दीऽर्थः / स्वविषये स्वाऽभिधेये प्रवर्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनय-युग्मसमुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति, प्रमाणसप्तभङ्गीवदेतद्विचारः कर्तव्यः, नयसप्तभङ्गीष्वपि प्रतिभङ्ग स्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् / तासां विकलाऽऽदेशत्वादेव सकलाऽऽदेशाऽऽत्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात्। विकलाऽऽदेशस्वभावा हि नयसप्तभङ्गी, वस्त्वंशमात्रप्ररूपकत्वात्; सकलाऽऽदेशस्वभावा तु प्रमाणसप्तभङ्गी सम्पूर्णवस्तुस्वरूपप्ररूपकत्वादिति / / 53 / / रत्ना०७ परि०। यावदेवभेदाभेदरूपं वस्तूपदर्श्य भेदस्य पर्यायार्थिक विषयस्य द्वैविध्यमाहसो पुण समासओ चिय, वंजणणियओ य अत्थणियओ य। अत्थगओ य अभिण्णो, भइयव्वो वंजणवियप्पो॥ 30 // स पुनर्विभागः समासतः संक्षेपतो व्यञ्जननियतः शब्दनयनिबन्धनोऽर्थनियतश्चार्थनयनिबन्धनश्च, तत्राऽर्थगतस्तु विभागोऽभिन्नः संग्रहव्यवहारर्जुसूत्रार्थप्रधाननयाविषयोऽर्थप योऽभिन्नोऽसदद्रव्यातीतानागतव्यवछिन्नाभिन्नार्थपर्यायरूपत्वात्तद्विषया नया अप्यर्थगतो विभागोऽभिन्न इत्युच्यते /