________________ णय 1861 - अभिधानराजेन्द्रः भाग - 5 णय एकान्तपक्षे आत्मसुखदुःखोपभोगनिर्वर्तकशरीरसंबन्धहे त्वदृष्टोत्पादकनिमित्तानामप्यसंभवं दर्शयन्नाहकम्म जोगनिमित्तं, वज्झइ बंधट्ठिई कसायवसा। अपरिणउच्छिण्णेसु य, बंधट्ठिइकारणं णत्थि / / 16 / / कादृष्टं योगनिमित्तं मनोवाक्कायव्यापारनिमित्तं, बध्यते आदीयते, बध्यत इति बन्धोऽदृष्ट मेव, तस्य स्थितिः कालान्तरफलदातृत्वेनाऽऽत्मन्यवस्थानम् , सा कषायवशात्क्रोधाऽऽदिसामर्थ्यात् / एतदुभयमप्येकान्तवाद्यभ्युपगत आत्मचैतन्यलक्षणे भावे अपरिणते उत्सन्ने च बन्धस्थितिकारणम् , नास्ति / न ह्यपरिणामिन्यत्यन्तानाधेयातिशये आत्मनि क्रोधाऽऽदयः संभवन्ति / नाऽप्येकान्तोत्सन्नेऽनुसन्धानविकले अहमनेनाक्रुष्ट इति द्वेषसंभवः। तथा चाऽन्य आक्रुष्टोऽन्यो व्यापृतोऽपरो बद्धोऽपरश्च मुक्त इति कुशलाऽकुशलकर्मगोचरप्रवृत्त्याद्यारम्भवैफल्यशक्तिः, न ोकसन्ततिनिमित्तोऽयं व्यवहारः, क्षणिकैकान्तपक्षे सन्ततिकल्पनाबीजभूतो-पादानोपादेयभावस्यैवाऽघटमानत्वात्। न चेयमनुसन्धानप्रतिपत्तिः, मिथ्याद्वेषगर्वशाठ्यासन्तोषाऽऽदीनामन्योन्यविरुद्धस्वभावानां क्रमवर्तिना चिद्विवर्तानां स्वसंवेदनाध्यक्षसिद्धाना तथा तथाऽनुभवितुश्च संशयविपर्यासादृढज्ञाना गोचरीकृतस्यैकस्य चैतस्यानुभवात्। न च बाधारहितानुभवविषयस्यापह्नवः, सुखाऽऽदेर-प्यनुभवविषयस्यापहृतिप्रसङ्गात्। तथा च प्रमाणप्रमेयाऽऽदिव्यवहारोच्छेदप्रसक्तिः / यदपि मिथ्याऽध्यारोपाहानार्थ यत्ने सत्यपि नोक्तरीत्युक्तं, तदप्यनेनैव प्रतिविहितम्, यथोक्तप्रतिपत्ते मिथ्यात्वासिद्धेः / न चाऽनुमाननिश्चितेऽर्थे आरोपबुद्धेरुत्पत्ति—मनिश्चया-वगतधूमध्वज इव / न च मिथ्याज्ञानस्य सहजत्वाविपरीतार्थोप-स्थापकानुमानप्रवृत्तिः, तथाऽभ्युपगमे बोधसन्तानवत्तस्य सर्वदा-ऽनिवृत्तिरित्यनुमितिप्रसक्तिः, असहज तु तत्त्वज्ञानप्रादुर्भावोऽवश्यं निवर्तते शुक्तिकावगमे रजतभ्रम इव, अनिवृतौ वा न प्रमाणबाधकं भवेत् / न च क्षणक्षयनिश्चये स एवाऽहमितिप्रत्ययो युक्तः, अपितुस इवेति स्यात्, न हि गवयनिश्चये गौरेवेति प्रत्ययो दृष्टः, अपि तु गोरिवेति / न च क्रमवत्तेष्वभिष्वङ्गद्वेषाऽऽदिपर्यायेषु चैतन्याऽनुस्यूतिप्रत्ययस्य मानसत्वमात्मनि क्षणक्षयम्, अनुमानानिश्चितत्वेऽपितदेव स्पष्टमनुभूयमानत्वाद, विकल्पद्वयस्य युगपदुत्पत्तिः परेनष्टति विकल्परूपत्वे एकत्वप्रत्ययस्य क्षणिकत्वनिश्चयसमये सद्भावो न भवेदित्येकान्तनित्यानित्यच्युतोभयपक्ष एव बन्धस्थितिकारणं युक्तिसङ्गतम्। किञ्चैकान्तवादिना संसारनिवृत्तिस्तत्सुखमुक्तिप्राप्त्यर्था प्रवृ तिश्चासङ्गतेत्याहबंधम्मि अपूरते, संसारभओहदसणं मोड्। बंधं च विणा मोक्खसु-हपत्थणा णत्थि मोक्खो य / / 20 / / बन्धे चासति संसारो जन्ममरणाऽऽदिप्रबन्धः, तत्र तत्कारणे वा मिथ्यात्वाऽऽदावुपचारात् तच्छब्दवाच्ये भयोघो भीतिप्राचुर्य, तस्य दर्शनम्-सर्वं चतुर्गतिपर्यटनं दुःखाऽऽत्मकमिति पर्यालोचन, मौदयं मूढताऽनुपपद्यमानं संसारदुःखोऽप्यविषयत्वाद् मिथ्याज्ञानं बध्यासुतजनितबाध्यगोचरभीतिविषयपर्यालोचनविद्, मिथ्याज्ञानपूर्विका च प्रवृत्तिर्विसंवादिन्येव बन्धं विना संसारनिवृत्तिः, तत्सुखप्रार्थना च न भवत्येव / अथ मोक्षस्याऽनुपपत्तौ निरपरा धपुरुषवदबद्धस्य मोक्षसंभवात, बन्धाभावश्च योगकषाययोः, प्रकृतिस्थित्यनुभागप्रदेशाऽऽत्मकबन्धहेत्वोरेकान्तपक्षे विरुद्धत्वात् / न चैकरूपत्वाद् ब्रह्मणो बन्धाऽऽद्यभावप्रेरणा न दोषाय, चेतनाऽचेतनाऽऽदिभेदरूपतया जगतः प्रतिपत्तेः / न च भेदप्रतिपत्तिर्मिथ्याऽविद्यानिर्मितत्वादिति वक्तव्यम् , अविद्यायाः प्रतिपत्तिजननविरोधात्, अविरोधे विद्यारूपताप्राप्तेः द्वैतप्राप्तिरिति प्रतिविहितश्चाद्वैतवाद इति न पुनःप्रतन्यते। तदेवमेकान्ताभ्युपगमे बन्धहेत्वाद्यनुपपत्तेरैहिकाऽऽमुष्मिकसर्वव्यवहारविलोप इत्येकान्तव्यवस्थापकाः सर्वेऽपि मिथ्यादृष्टयो नयाः, अन्योऽन्यविषयापरित्यागवृत्तयस्तु त एव सम्यक्त्वं प्रतिपद्यन्त इत्युपसंहरन्नाहतम्हा सव्वे विणया, मिच्छादिट्ठी सपक्खपडिबद्धा। अण्णोण्णणिस्सिआ उण, हवंति सम्मत्तसब्भावा।।२१।। यस्मादेकान्तनित्याऽनित्यवस्त्वभ्युपगमो बन्धाऽऽदिकारणयोगकषायाऽभ्युपगमबाधितः, तदभ्युपगमोऽपि नित्याऽऽद्येकान्ताऽभ्युपगमप्रतिहत इत्येवंभूतपूर्वोत्तराभ्युपगमस्वरूपाः, तस्मान्मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाः-स्व आत्मीयः पक्षोऽभ्युपगमः, तेन प्रतिबद्धाः प्रतिहता ये ते इति, नयज्ञानानां च मिथ्यात्वे तद्विषयस्य तदभिधानस्य च मिथ्यात्वमेव / तेनैवं प्रयोग:-मिथ्या सर्वनयवादाः, स्वपक्षेणैव प्रतिहतत्वात् , चौरवाक्यवत् / / अथ तेषां मिथ्यात्वे बन्धाऽऽद्यनुपपत्तौ सम्यक्त्वाऽनुपपत्तिः सर्वत्रेत्याहअन्योऽन्यनिःसृताः परस्परापरित्यागेन व्यवस्थिताः, पुनरिति त एव सम्यक्त्वस्य यथाऽवस्थितवस्तुप्रत्ययस्य सद्भावा भवन्तीति न बन्धाऽऽद्यनुपपत्तिः। ननु यदि नयाः प्रत्येक सन्ति, कथं प्रत्येकावस्थायां तेषां सम्यक्त्वाभावः? स्वरूपव्यतिरेकेणा-परसम्यक्त्वाभावात् ,तस्य चतेष्वभ्युपगमात्। अथन सन्ति, कथं तेषां समुदायः सम्यक्त्वनिबन्धनो भवेत् , असतां समुदाया-नुपपत्तेः ? न चाऽसतोऽपि सम्यक्त्वं, नयवादिष्वपिसम्यक्त्व-प्रसक्तेः नच प्रत्येक तेषां सतामसम्यक्त्वेऽपि तत्समुदाये सम्य-क्त्वं भविष्यति, "दव्वडिओ त्ति तम्हा, णत्थिणओ'' (6) इत्याद्युपसंहारः, तत्र विरोधात् / न च प्रत्येकमेकैकांशग्राहिणः संपूर्णवस्तुग्राहकाः समुदिताइति सम्यक्त्वव्यपदेशमासादयन्ति, तत्ततस्वगोचरापरित्यागेन तत्राऽपि विषयान्तरे तेषामप्रवृत्तेः / न च प्रत्येकमसम्यक्त्वे समुदायेऽपि सम्यक्त्वं युक्तम् , सिकतासु तैल-वत् असतः सदुत्पत्तेविरोधाच / अत्राऽभिधीयते-प्रत्येकमप्यपे - क्षितेतरांशस्वविषयग्राहकतयैव सन्तो नयाः, तद्व्यतिरिक्तरूपतया त्वसन्त इति सतां तत्समुदाये सम्यक्त्वे न कश्चिद्दोषः / नन्वितरेतरविषयापरित्यागवृत्तीनां ज्ञानानां कथं समुदायः संभवी ? येन तत्र सम्यक्त्वमभ्युपगम्येत ? अनुक्तोपालम्भ एषः न ह्येकज्ञानोत्पाद-तस्तेषां समुदायो विवक्षितोऽपि तु स्वपरित्यक्तेतररूपविषयाध्यव-साय एव समुदायः," अन्योऽन्यनिश्रिताः " इत्यनेनानेकार्थः प्रतिपादितः। न हि द्रव्यार्थिकपर्यायार्थिकाभ्यामत्यन्तपृथग्भूताभ्यामङ्गुलिद्वयसंयोगवदुभयवादोऽपरप्रारब्धः / सम्म०१ काण्ड। (28) अथ दर्शनयोजनामभिधित्सुराहजातं द्रव्यास्तिकाच्छुद्धा-दर्शनं ब्रह्मवादिनाम् / तत्रैके शब्दसन्मात्रं, चित्सन्मात्रं परे जगुः / / 110 / /