________________ णय 1892- अमिधानराजेन्द्रः भाग - 4 णय (जातमित्यादि) शुद्धाद्रव्यास्तिकाद्ब्रह्मवादिनां दर्शनं जातम्। तदाह वादी-" दव्वालियनयपयडीसुद्धा संगहपरूवणा विसओ।"(५) इति। तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये च चित्सन्मात्रम् / तत्राऽऽद्यमतावलम्बी शब्दस्वभावं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिरित्यभ्युपैति / नयो० / सम्म० / सर्वमेकं सत् , अविशेषादिति द्रव्यास्तिकाऽभिप्रायः। सम्म०३ काण्ड / स्या०। (शब्दब्रह्मवादिनां मतम् ' सह शब्दे वक्ष्यते) (26) अथवा व्यवहारनिश्चयनयद्वये तेषां समवतारोऽतस्तस्यैव व्यवहारनिश्चयनयद्वयस्य स्वरूपमुपदर्शयन्नाहलोगव्यवहारपरो, ववहारो भणइ कालओ भमरो। परमत्थपरो मण्णइ, निच्छइओ पंचवण्णो त्ति। 3556 / / लोकव्यवहाराऽभ्युपगमपरो नयाँ व्यवहारनय उच्यते / स च / कालवर्णस्यैव उत्कटत्वेन लोके व्यवह्रियमाणत्वाद्भणति प्रति-पादयति कालको भ्रमर इति / परमार्थपरस्तु पारमार्थिकार्थवादी नैश्वयिको निश्चयनय उच्यते / स पुनर्मन्यते-' पञ्चवर्णो भ्रमरः 'बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पन्नत्वात् , शु-क्लाऽऽदीनां च न्यग्भूतत्वेनानुपलक्षणादिति / / 3586 / / विशे० / निश्चयव्यवहारौ हि, द्रौ च मूलनयाँ स्मृतौ। निश्चयो द्विविधस्तत्र, शुद्धाशुद्धविभेदतः॥१॥ (निश्चय इति) हि निश्चितम् , अध्यात्मभाषायां मूलनयौ द्वौ स्मृ-तौ। तौ च निश्चयव्यवहारौ, निश्चिनोति तत्त्वमिति निश्चयः / 1 / व्यवहियते इति व्यवहारः। 2 / तत्राऽपि निश्चयो नाम द्विविधोः द्विप्रकारःस, एकः शुद्धनिश्चयनयः, द्वितीयोऽशुद्धनिश्चयनयः। एवं द्विप्रकारो ज्ञेयः // 1 // यथा केवलज्ञानाऽऽदि-रूपो जीवोऽनुपाधिकः। शुद्धो मत्यादिकस्त्वात्मा-ऽशुद्धः सोपाधिकः स्मृतः।। 2 // यथा हि केवलज्ञानाऽऽदिरूपो जीवोऽनुपाधिकः, उपाधिः कर्म-जन्यः, तेन विहीनोऽनुपाधिकः, शुद्ध इति शुद्धनिश्चयभेदेन प्रथ-मः / अत्र हि केवलज्ञानमासाद्य शुद्धगुणमयाऽऽत्मकरूपेण जीव-स्याऽभेदो दर्शितः। तथा च मतिज्ञानाऽऽदिक आत्मा अशुद्धनि-श्वयभेदेन द्वितीयः। अत्र हि आत्मनः सोपाधिकस्याऽऽवरणक्षय-जनितज्ञानविकल्पेनाऽऽत्मा मतिज्ञानी अशुद्ध उपलक्ष्यते। सोपा-धिकत्वात् केवलज्ञानाऽऽख्यो गुणः शुद्धगुणस्तदुपेत आत्माऽपि शुद्धस्तन्नामनयोदयात् शुद्धनिश्चयनयः। 1 / मतिज्ञानाऽऽदिगुणो-ऽशुद्धस्तदुपेत आत्माऽप्यशुद्धस्तदाख्यया नयोऽपि अशुद्धनिश्चय इति / निश्चयशब्द आत्ममात्रपरः, शुद्धशब्दः कर्माऽऽवरणविशि-ष्टः / आवणक्षये शुद्धः, सति तस्मिन्नशुद्धः॥२॥ अथ व्यवहारस्य भेदंदर्शयतिसद्भूतश्चाऽप्यसद्भूतो, व्यवहारो द्विधा भवेत्। तत्रैकविषयस्त्वाद्यः, परः परगतो मतः / / 3 / / व्यवहारोऽपि सद्भूतः पुनरसद्भूत इति भेदाभ्यां द्विधा द्विप्रकारः। तत्र आद्यः प्रथम एकविषय एकद्रव्याऽऽश्रितः सद्भूतव्यव-हारः / परः परविषयः परद्रव्याऽऽश्रितोऽसद्भूतव्यवहार इति / / 3 / / उपचरितसद्भूता-नुपचरितभेदतः। आद्यो द्विधा च सोपाधि-गुणगुणिनिदर्शनात्॥४॥ उपचरितसद्भूतभेदेन, अनुपचरितसद्भूतभेदेन च आद्यः एकद्रव्याऽऽश्रितसद्भूतव्यवहारो द्विधा द्विप्रकारः / तत्र च सोपाधिकगुणगुणिभेदात् प्रथमो भेदो भवति // 4 // यथोपचारतो लोके, जीवस्य मतिरुच्यते। यथा जीवस्य मतिज्ञानम् / अत्र हि मतिरुपाधिः कर्माऽऽवरणकलुषिताऽऽत्मनः सकलज्ञानत्वेन ज्ञानमिति कल्पनं सोपाधिकम् , उपचारतो जातमिदम्। अथ द्वितीयभेदभाहअनुपचरितसद्भूतो-ऽनुपाधिगुणतद्वतोः।।५।। उपाधिरहितेन गुणेन अनुपाधिक आत्मा यदा संपद्यते, तदा अनुपाधिकगुणगुणिनोर्भेदाभिन्नोऽनुपचरितसद्भूतोऽपि द्वितीयो भेदः समुत्पद्यते इति।।५।। अथास्योदाहरणं श्लोकार्द्धनाऽऽहकेवलाऽऽदिगुणोपेतो, गुण्यात्मा निरुपाधिकः। केवलाऽऽदिगुणोपेतः केवलज्ञानसहितः कर्मक्षयाविर्भूतप्रभूतानुभवभावाऽऽत्मको जीवो निरुपाधिकगुणोपेतो निरुपाधिको गुणी भवति / आत्मा हि संसारावस्थायाम् अष्टकर्मजनिताऽऽवरणपरिस्फुटप्रभावभावितः सोपधिकगुणैर्मत्यादिभिस्तद्वानिति सोपाधिक आत्मेति व्यपदेशभाग भवति। अत्र तु तदभावे तदभावाद् निरुपाधिकगुणगुणिभेदभावनासमुत्पादादनुपचरितसद्भूतभेदोऽपि समुत्पन्नः / केवलाऽऽदिरिति केवलस्यैकत्वात् आदिरिति तदुत्थानन्तगुणोदयात् केवलादिरिति कथनम्। अथाऽसद्भूतव्यवहारस्यापीत्थमेव भेदद्वयं प्रकटयन्ना ह श्लोकार्द्धनअसद्भूतव्यवहारो, द्विधैवं परिकीर्तितः॥६॥ (असद्भूतेति) असद्भूतव्यवहारोऽपि एवं पूर्वोक्तसद्भूतवद् द्विधा द्विप्रकारः परिकीर्तितः कथित इति // 6 // अर्थतस्यासद्भूतव्यवहारस्य भेदद्वयं सोदाहरण पूर्वकं प्रकटयन्नाहअसंश्लेषितयोगेऽग्न्यो, देवदत्तधनं यथा। स्यात्संश्लेषितयोगेऽन्यो, यथाऽऽस्ते देहमात्मनः॥७॥ (असंश्लेषितेति) अत्र द्वयोरपि भेदयोर्मध्ये, अयः अग्रे भवो-ऽग्रयो मुख्यः प्रथमः, असंश्लेषितयोगे कल्पिसंबन्धविषये उप-चरितासद्भूतव्यवहारो भवेत् / यथा-देवदत्तधनम् / इह धनेन देवदत्तस्य संबन्धः स्वस्वामिभावरूपश्च जायते, तदपि कल्पितत्वात् उपचरितम् / यतो देवदत्तः पुनर्धन चैकद्रव्यं, न हि तस्माद्भिन्नद्रव्यत्वादसद्भूतभावनाकरणे नासद्भूतय्यवहार इति / तथा द्वितीयोऽन्यः संश्लेषितयोगे कर्मजसंबन्धे भवति। यथा आत्मनो जीवस्य देहमिति आस्ते तिष्ठति। अत्र हि आत्म-देहयोः संबन्धे देवदत्तधनसंबन्धमिव कल्पनं नास्ति विपरीत-भावनानिवर्त्यत्वाद् यावज्जीवस्थायित्वादनुपचरितं, तथा भिन्न-विषयत्वादसद्भूतव्यवहार इति॥७॥