________________ णय 1890- अभिधानराजेन्द्रः भाग - 4 णय भूतं पुनर्द्रव्यमस्ति? इत्याह-उत्पादस्थितिभङ्गा यथा व्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्तिनः, हन्दीत्युपप्रदर्शने / द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापको धर्म एव दृश्यताम् , यतः पूर्वोत्तरपर्यायपरित्यागोत्पादाऽऽत्मकै का स्वयं प्रतिपत्तिः तथाभूतद्रव्यसत्त्वं प्रतिपादयतीति उत्पादव्ययध्रौव्यलक्षणं वस्त्वभ्युपगन्तव्यम् / एतच त्रितयं परस्परानुबिद्धम् , अन्यतमाभावे तदितरयोरप्यभावात्। सम्म०१ काण्ड। (27) एते च परस्परसव्यपेक्षा द्रव्यलक्षणं च स्वतन्त्रा इति प्रदर्शनायाऽऽहएए पुण संगहओ, पाडिक्कमलक्खणं दुविण्हं पि। तम्हा मिच्छदिट्ठी, पत्तेयं दो वि मूलणया।। 13 / / एते उत्पादादयः संग्रहतः शिविकोद्वाहिपुरुषा इव परस्परस्वरूपोपादानेनैव लक्षणं, प्रत्येकमेकका उत्पादादयो द्वयोरपि द्रव्यास्तिकपर्यायास्तिकयोरलक्षणम्, उक्तवत्तथाभूततद्विषयाभावे तद्ग्राहकयोरपि तथाभूतयोरभावात्, उत्पादादीनां च परस्परविविक्तरूपाणामसंभवात् / तस्मान्मिथ्यादृष्टी एव प्रत्येक परस्परविविक्ता द्वावप्येतौ द्रव्यार्थिकपर्यायार्थिकस्वरूपो मूलनयौ समस्तनयराशिकारणभूतस्योत्पादे। तद्भवतु परस्परनिरपेक्षयोर्मिथ्यात्वम् , उभयनयाऽऽब्ध स्त्वेकः सम्यग्दृष्टिभविष्यतीत्याहणय तईओ अत्थि णओ, ण य सम्मत्तं ण तेसु पडिपण्णं / जेण दुवे एगता, विभजमाणा अणेगंता / / 14 // न च तृतीयः परस्परसापेक्षोभयथाऽस्ति नयः कश्चित् , तथाभूतार्थस्यानेकान्ताऽऽत्मकत्वात्तदग्राहिणः प्रत्ययस्य नयाऽऽत्मकत्वानुपपत्तेः / न च सम्यक्त्व न तयोः प्रतिपूर्णम् , प्रतिषेधद्वयेन प्रकृतार्थविगतः, अशेषं हि प्रामाण्यं सापेक्षं गृह्यमाणयोरेव विषययोर्व्यवस्थितम, येन द्वावप्येकान्तरूपतया व्यवस्थितौ मिथ्यात्वनिबन्धनतत्परित्यागेनान्वयव्यतिरेको विशेषेण परस्परात्यागरूपे-ण भज्यमानौ गृह्यमाणावनेकान्तौ भवत इति सम्यक्त्वहेतुत्वमेत-योरिति / एवं सापेक्षद्वयग्राहिणो नयत्वानुपपत्तेस्तृतीयनयाभावः। प्रदर्शितनिरपेक्षग्राहिणा तु मिथ्यात्वं दर्शयितुमाहजह एए तह अण्णे, पत्तेयं दुण्णया णया अन्ने / हंदिहु मूलणयाणं, पण्णवणा वावडा ते वि।।१५।। यथैतौ निरपेक्षद्वयग्राहिणौ मूलनयौ मिथ्यादृष्टी, तथा उभयवाद-रूपेण व्यवस्थितानामपि परस्परनिरपेक्षत्वस्य मिथ्यात्वनिबन्धनस्य तुल्यत्वात् प्रत्येकमितरानपेक्षा अन्येऽपि दुर्नयाः / न च प्रकृतनयव्ययव्यतिरिक्तनयान्तराऽऽधत्वादुभयवादस्य नयानामपि वैचित्र्यादन्यत्राऽऽरोपयितुमशक्यत्वात् तद्रूपस्यान्ये सम्यक् प्रत्य-या भविष्यन्तीति वक्तव्यम् , यतः हन्दीत्येवं गृह्यताम, हुरिति हेतौ, मूलनयद्वयपरिच्छिन्नवस्तुनि ये व्यापृतास्तेऽपि तद्विषयव्यतिरिक्तविषयान्तराऽभावात् सर्वनयवादानां च सामान्यविशेषोभयैकान्तविषयत्वात् तन्न नयान्तरसद्भावः, यतस्तदारब्धोभयवादे नयान्तरं भवेत्। ननु संग्रहाऽऽदिनयसद्भावात् कथंतव्यक्तिनयान्तराभावः ? सत्यम्। सन्ति संग्रहाऽऽदयः, किं तु तद्विषयव्यतिरिक्तविषयान्त-राभावतस्तदुद्वितविषयास्तेऽपि तदूषणेनैव दूषिता यतो न मूलच्छेदे तच्छाखास्तदवस्थाः संभवन्तीत्याह सव्वणयसमूहम्मि वि, णत्थि णओ उभयवायपण्णवओ। मूलणयाण उ आणं, पत्तेयविसेसियं विति॥ 16 // संग्रहाऽऽदिसकलनयसमूहेऽपि नास्ति कश्चिन्नय उभयवादप्ररू-पकः, यतो मूलनयाभ्यामेव यत् प्रतिज्ञातं वस्तु तदेवाऽऽश्रित्य प्रत्येकरूपाः संग्रहाऽऽदयः पूर्वपूर्वनयाधिगतांशविशिष्टमंशान्तरमधिगच्छन्तीति न विषयान्तरगोचरः। अतोऽवस्थितं परस्परात्यागप्रवृत्तसामान्यविशेषविषयसंग्रहाऽऽद्यात्मकनयद्वयद्वयाधिगमाऽऽत्मकत्वात वस्त्वप्युभयाऽ5त्मकं न केवलं बाह्यघटाऽऽदि वस्तु उभयात्मकं, तथाविधप्रमाणग्राह्यत्वात् किन्त्वान्तरमपि,हर्षशोकभयकरुणौदासीन्याऽऽद्यनेकाऽऽकारविवर्ताऽऽत्मकैकचेतनास्वरूपं तदात्मकहर्षाऽऽद्यनेकविकाराऽनेकाऽऽत्मकं च स्वसंवेदाध्यक्षप्रतीतं, तस्य भेदैकान्तैकरूपताऽभ्युपगमे दृष्टाऽदृष्टविषयसुखदुःखसाधनस्वीकारत्यागार्थप्रवृत्तिनिवृत्तिस्वरूपसकलव्यवहारोच्छेदप्रसक्तिरिति प्रतिपाद यितुमाहण य दव्वट्ठियपक्खे, संसारो णेव पञ्जवणयस्स। सासयवियत्तिवाई, जम्हा उच्छेअवाईआ।। 17 // द्रव्यार्थिकपर्यायार्थिकनयद्वयाऽभिमते वस्तुनि न संसारः संभव-ति, शाश्वतव्यक्ति प्रतिक्षणान्यत्वैकान्ताऽऽत्मक चैतन्यग्राहकविषयीकृतत्वात्, पावकज्ञानविषयीकृते उदकवत्। तथाहि-संसारः संसृतिः, सा चैकान्तनित्यस्य पूर्वावस्थापरित्यागे सति न संभवति; तत्परित्यागेनैव गतेर्भवान्तराऽऽपत्तेर्वा संसृतेः संभवात्। नाऽप्यु-च्छेदे उत्पत्त्यनन्तरनिरन्वयध्वंसलक्षणे संसृतिः संभवति, गते - वान्तरापत्ते कथञ्चिदन्वयिरूपमन्तरेणायोगात् / अथैकस्य पूर्वापरशरीराभ्यां वियोगयोगगौ संसारः, असावपि सदाऽविकारिणि न संभवति, नित्यस्य पूर्वाऽपरशरीराभ्यां वियोगयोगाऽनुपपत्तेः। निरन्वयक्षणध्वंसिनोऽप्येकाधिकरणत्वाऽसंभवान्न तल्लक्षणः संसारः, न चाऽमूर्तस्याऽऽत्मनः सर्वगतैकमनोऽभिष्वक्तशरीरेण विशिष्टयोगयोगौ संसारो, मनसोऽकर्तृकत्वेन शरीरसंबन्धस्याऽ-नुपपत्तेः। यो ह्यदृष्टस्य विधाता स तन्निर्वर्तितशरीरेण सह संबध्यते, न चैवं मनः / न च मनसः शरीरसंबन्धेऽपि तत्कुतसुखदुःखोपभो-क्कत्वमात्मनि तस्याऽपगमात. तदर्थ च शरीरसंबन्धोऽभ्युपगम्यत इति तत्संबन्धपरिकल्पनं मनसोव्यर्थम, मनसि सुखदुःखोपभो-कृत्वाभ्युपगमे वा आत्मनः कल्पनावैयर्थ्यम्, मनस आत्मसि-द्धः / / 17 / / सुहदुक्खसंपओगो, ण जुञ्जई णिचवायपक्खम्मि। एगंतच्छेयम्मिवि, सुहदुक्खवियप्पणमजुत्तं / / 18|| सुखेनाऽबाधस्वरूपेण, दुःखेन बाधनालक्षणेनं, संप्रयोगः संब-न्धी, न युज्यते न घटते आत्मनः नित्यवादपक्षे द्रव्यास्तिकाभ्यु-पगमे सुखस्वभावस्याऽविचलितरूपत्वात् सदा सुखरूपतैवाऽऽ-त्मनो न दुःखसंप्रयोगः, दुःखस्वभावत्वे तद्रूपतैव, तत्त्वादेव, एका-न्तोच्छेदे च पर्यायास्तिकपक्षे सुखदुःखसंप्रयोगो न युज्यत इति संबन्धः / तथा पक्षद्वयेऽपि सुखार्थ दुःखवियोगार्थं च विशिष्टनयनं कल्पतेरत्र यतनार्थत्वात्, अयुक्तमघटमानकं सुखदुःखोपादानत्यागार्थप्रयत्नस्याप्ययुक्तत्वम् , उक्तन्यायात् / संसरति निरुपभोगभावैरधिवासितं लिङ्गमिति साङ्ख्यमतमपि निरस्तम्, न्यायस्य सर्वकान्तसाधारणत्वात्।