________________ णय 1559 - अभिधानराजेन्द्रः भाग - 4 णय पश्चार्द्धन प्रतिपादयति-अवशेष इति शेषः, स चोपयुक्तादन्यः; वचनविधिर्वचनभेदः सत्तविकलविशेषप्रतिपादकः; पर्यायेषु सत्ताव्यतिरिक्तेष्वसत्सुभजनात् सत्ताया आरोपणात् , सत्प्रतिपक्ष इति-सतः प्रतिपक्षो विरोध्यसन भवति / / तथाहि-प्रतिपादको वचनविधिरवस्तुविषयो, निःसामान्यत्वात् , खपुष्पवत् / भावना तु द्रव्यार्थिकवचनविपर्ययेण प्रयोगस्य कार्या / अथवा-अर्थाभिधानप्रत्ययास्तुल्यनामधेया इत्यनयोः स्वरूपमभिधायाभिधानस्य द्रव्यास्तिकस्वरूपस्य तदभिधायकस्य प्रतिपादनार्थमाह-(पज्जवणिस्सामण्णमित्यादि) पर्यायान्निष्क्रान्तं तद्विकलं, सामान्य संग्रह स्वरूपं यस्मिन् वचने तत्पर्यायानिःसामान्यं वचनम् / कि पुनस्तदित्याह-अस्तीति, तच द्रव्यार्थिकस्य रूप, प्रतिपादकं वा / यद्वापर्यायऋजुसूत्रनयविषयादन्यो द्रव्यत्वाऽऽदिविशेषः, स एव च निश्चित सामन्यं वचन, द्रव्यत्वाऽऽदिसामान्यविशेषा-ऽभिधायीति यावत / तच्चाशुद्धद्रव्यार्थिक संबन्धि, तत्प्रतिपाद-कत्वेन तत्स्वरूपत्वेन वा अवशेषो वचनविधिर्वर्णपद्धतिः, स प्रतिपक्षोऽस्य वचनस्य पर्यायार्थिक नयरूपः, तत्प्रतिपादको वा पर्यायमेव, अन्यथा कथमवशेषवचनविधिः स्यात् , यदि विशेष नाऽश्रयेत् ? एवं तायद् द्रव्यार्थिकभेदेन भेदमनुभवतां नयानां स्वरूप प्रतिपाद्यानेकान्तभावाभावतयैवेषां सत्यता नास्त्येत्त्प्रतिपादनार्थ ज्ञानानेकान्तमेव तावदाहपज्जवणयवोकतं, वत्थु दव्वट्ठियस्स वयणिज्ज / जाव दविओवओगो, अपच्छिमवियप्पनिव्वयणो / / 8 // / द्रव्यास्तिकस्य वक्तव्यं परिच्छेद्यो विषयो, निश्चयकर्तृवचनं च विकल्पनिर्वचनं, विद्यते पश्चिमं यस्मिन् विकल्पनिर्वचने तत्तथा, ततः परं विकल्पवचनाप्रवृत्तेः, यावदपश्चिमविकल्पनिर्वचनो द्रव्यो-पयोगः प्रवति, तावद् द्रव्यार्थिकस्य विषयो वस्तुतत्त्वपर्यायाऽऽ-क्रान्तमेव / अन्यथा ज्ञानार्थयो रप्रतिपत्ते रसत्त्व प्रसक्तिः / न हि पर्यायानाक्रान्तसत्तामात्रसद्भावग्राहकं प्रत्यक्षमनुमानं वा प्रमाणमस्ति, द्रव्याऽऽदिपर्यायाऽऽक्रान्तस्यैव सर्वदा सत्तारूपस्य ताभ्यामवगतेः। यद्वायद्वस्तु सूक्ष्मतरतमाऽऽदिबुद्धिना पर्यायनयेन स्थूलरूपत्यागेनोत्तरतत्तत्सूक्ष्मरूपाऽऽश्रयणाद् व्युत्क्रान्तं गृहीतत्यक्तम् , यथा किमिदंभूतसामान्य घटाऽऽदिभिर्विना प्रतिपत्तिविषयः, तावत् शुक्लतमरूपस्वरूपोऽन्यो विशेष एव, न द्रव्यार्थिकस्य वस्तुविषयो, यतो यावदपश्विमविकल्प-निर्वचनोऽन्यो विशेषस्तावद् द्रव्योपयोगो द्रव्यज्ञानं प्रवर्तते / न हि द्रव्याऽऽदयो विशेषान्ताः सदादिप्रत्यया विशिष्टकान्तव्यावृत्तिबुद्धिग्राह्यतया प्रतीयन्ते, तथाऽप्रतीयनास्तथाऽभ्युपगमार्हाः, अतिप्रसङ्गात्। तदेवं न सत्ता विशेषविरहिणी, नाऽपि विशेषाः सत्तावि कला इति प्रदोपसंहरन्नाहदव्वढिओ त्ति तम्हा, नत्थि णओ नियम सुद्धजाईओ। न य पज्जवडिओ णा-मको य भयणाय उ विसेसो // 6 // तस्माद् द्रव्यार्थिक इति नयः शुद्धजातीयो विशेषविनिर्मुक्तो नास्ति नियमेनेत्यवधारणाऽर्थः, विषयाभावेन विषयिणोऽप्याभावात् / न च पर्यायार्थिकोऽपि कश्चिन्नयो नामेति प्रसिद्धाऽर्थो नियमेन शुद्धस्वरूपः संभवति, सामान्यविकलात्यन्तव्यावृत्तविशेषविषयाभावेन विषयिणोऽप्यभावात् / यदि विषयाभावादिमौ नयौ न स्तः, यदुक्तम् - ' तीर्थकरवचनसंग्रह ' इत्यादि, तद्विरुध्यते इत्याह-(भयणाय उविसेसो त्ति) भजनायास्तु विवक्षाया एव विशेष इदं द्रव्यमयं पर्याय इत्ययं भेदः, तथा तभेदाद्विषयिणोऽपि तथैव भेद इत्यभिप्रायः / भजना च सामान्यविशेषाऽऽत्मके वस्तुतत्त्वे उपसर्जनीकृतविशेष यदन्वयिरूपं तद्रव्यम् इति विवक्ष्यति यदा तदा द्रव्यार्थिक विषयः, यदा तूपसर्जनीकृतान्वयिरूपं तस्यैव वस्तुनो यदसाधारणं रूपं तद्विवक्ष्यते तदा पर्यायनयविषयस्तद्-भवतीति। एवंरूपभजनाकृतमेव भेद दर्शयितुमाहदव्वट्ठियवत्तव्वं, अवत्थु णियमेण होइ पञ्जाए। तह पन्जव वत्थु अव-त्थुमेव दव्वट्ठियनयस्स / / 10 / पर्यायास्तिकस्य द्रव्यास्तिकाभिधेयमस्तित्वमवस्त्वेव, भेदरूपापन्नत्वात् , द्रव्यास्तिकस्याऽपि पर्यायास्तिकाभ्युपगता भेदा अवस्तुरूपा एव भवन्ति, सत्तारूपाऽऽपन्नत्वात् / अतो भजनामन्तरेणैकत्र सत्ताया अपस्त्र भेदानांनष्टत्वादिदं द्रव्यमेतेच पर्याया इति नास्ति भेदः / न च प्रतिभासमानयोर्द्रव्यपर्याययोः कथं पर्यायास्तिकद्रव्यास्तिकाभ्यां प्रतिवक्तव्यम् ? यतः प्रतिभासोऽप्रतिभासस्य बाधकः, न तु निथ्यात्वस्य, मिथ्यारूपस्यापि प्रतिभासनात्। तथाहिपर्यायास्तिकः प्राऽऽह-न मया द्रव्यप्रतिभासो निषिध्यते, तस्याऽनुभूयमानत्वात् , किं तु विशेषव्यतिरेकेण द्रव्यस्याप्रतिभासनादव्यतिरेके तुव्यक्तिस्वरूपवत्तस्यानन्चयात् , उभयरूपतायाश्चैकत्र विरोधाऽऽदिगत्यन्तराभावाद् द्रव्याऽप्रतिभासस्तत्र मिथ्यैव, विशेषप्रतिभासस्त्वन्यथा, बाधकाभावात् , यतः प्रतिक्षणं वस्तुनो वृत्ते शोत्पादौ पर्यायलक्षणं न स्थितिः / द्रव्यार्थिकस्तु भजनोत्थापितास्वरूपः प्राऽऽह-अस्माकमप्ययमेवाभ्युपगमः, न विशेष प्रतिभासप्रतिक्षेपः, किं तु तस्य भेदोभयविकल्पैर्वाध्यमानत्वाद् मिथ्यारूपतैव, अभेदप्रतिभासस्त्वनुत्पादव्ययलक्षणस्य द्रव्यत-द्विषयसर्वदाऽवस्थितेरबाध्यमानत्वात् सत्य इति कल्पना। व्यवस्थापितपर्यायास्तिकद्रव्यास्तिकयोरेवंलक्षणप्रदर्शितस्वरूपयोर्मिथ्यारूपताप्रतिपत्तिः सुकरा भविष्यतीत्याहउप्पजंति वयंति अ, भावा निअमेण पञ्जवणयस्स। दव्वट्ठियस्स सव्वं,सया अणुप्पण्णमविणटुं / / 11 // उत्पद्यन्ते प्रागभूत्वा भवन्ति, विशेषेण निरन्वयरूपतया व्रजन्ति गच्छन्ति नाशमनुभवन्ति भावाः पदार्था नियमेन इति अवधारणे / पर्यायनयस्य मतेन प्रतिक्षणमुत्पादविनाशस्वभावा एव भावाः पर्यायस्याऽभिमताः, द्रव्यार्थिकस्य सर्व वस्तु सदाऽनुत्पन्नमविनष्टम् , आकालं स्थितिस्वभावमेवेति मतम् / एतच नयद्वयस्याऽभिमतवस्तुकस्य सर्वं वस्तु सदाऽनुत्पन्नमिति प्राक् प्रतिपादितमिति न पुनरुच्यते। परस्परनिरपेक्षे च उभयनयप्रदर्शितं वस्तु प्रमाणाभावतो न संभवतीत्याहदव्वं पञ्जवविजुयं, दव्वविउत्ता य पज्जवा णत्थि। उप्पायद्विइमंगा, हंदि दवियलक्खणं एयं / / 12 / / द्रव्यं पर्यायविमुक्तं नास्ति, मत्पिण्डस्थासकोशकु शूलाऽऽद्यनुगतमृत्सामान्यप्रतीतेः। द्रव्यविरहिताश्च पर्यायान सन्ति, अनुगतैकाऽऽकारमृत्सामान्यात् तु विरुद्धतया मृत्पिण्डस्थासकोशकुशूलाऽऽदीनां विशेषाणां प्रतिपत्तेः / अतो द्रव्यार्थिकाभिमतं वस्तु पर्यायाऽऽकान्तमेव, न तद्विविक्तं पर्यायाऽभिमतमपि द्रव्यार्थानुषक्तं तद्विकलं, परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात् / किं