________________ णय 1888 - अभिधानराजेन्द्रः भाग-१ णय त्, स्वधनवत् , परकीयं तु नेच्छति, स्वकार्याऽऽप्रसाधकत्वात् , परधनवत् / तस्मादेको देवदत्ताऽऽदिरनुयुक्तोऽस्य मते आगमत एकं द्रव्याऽऽवश्यकमिति / " पहत्तं नेच्छड त्ति" अतीताऽनागतभेदतः परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ. किं तर्हि ? वर्तमानकालीनं स्वकमेव चाऽभ्युपैति, तचैकमेवेति।) तदनेनाऽस्य द्रव्यवादित्वं दर्शितम् , इति कथं पर्यायास्तिकेऽन्तर्भावः स्यात् ? इति गाथाऽर्थः।। 75 / / आह-ननु संग्रहाऽऽदिनया नामनिक्षेपं सर्वमप्येकत्वेनेच्छन्ति; भेदेन वा? एवं स्थापनाऽऽदिनिक्षेपेष्व पि प्रत्येकं वक्तव्यम् , इत्याशक्याऽऽहजं सामन्नग्गाही, संगिण्हइ तेण संगहो निययं / जेण विसेसग्गाही, ववहारो तो विसेसेइ / / 76 / / सहजुसुया पञ्जा-यवायगा भावसंगहं वेति। उवरिमया विवरीआ, भावं भिंदंति तो निययं / / 77 / / / यद् यस्मात् कारणात् संग्रहनयः सामान्यग्राही सामान्यवादी, तेन कारणेन संगृह्णात्येकत्वेनाऽध्यवस्थति प्रत्येकं त्रितयं नामस्थापनाद्रव्यनिक्षेपलक्षणं यानि कानिचिद् नाममङ्गलानि तत् सर्वमप्येक नाममङ्गलम्, तथा स्थापनामङ्गलान्यशेषाण्यप्येकं स्थापनामङ्गलम् , एवं द्रव्यमङ्गलान्यपरिशिष्टान्यप्येकं द्रव्यमङ्गलमित्यर्थः। व्यवहारनयस्तु येन कारणेन विशेषग्राही, ततो नामाऽऽदिनिक्षेपान् विशेषयति भेदेनेच्छतिनाममङ्गलानि सर्वाण्यपि पृथक् नाममङ्गलत्वेनेच्छति, एवं स्थापनाऽदिनिक्षेपेष्वपि वाच्य-म्॥७६॥ (सदुञ्जसुयेत्यादि) शब्दर्जुसूत्रनयौ पुनः पर्यायैरेकार्थ-भिन्नाऽभिधानैर्वस्तुवक्तुं शीलं ययोस्तौ पर्यायवाचिनौ सन्तौ नाम-स्थापनाद्रव्यनिक्षेपपरिहारेणैकस्यैव भावस्य भावनिक्षेपस्य संगृ-हीतिः संग्रहोऽभिन्नत्वमेकत्वं भावसंग्रहस्तंबूतः प्रतिपादयतः / इदमुक्तं भवति-ऋजुसूत्रशब्दनयौ पूर्वनयेभ्यो विशुद्धत्वादनाम-स्थापनाद्रव्यनिक्षेपं तावद् नेच्छतः, किन्त्वेकमेव भावनिक्षेपमभ्युपग-च्छतः, केवल समभिरूद्वैवंभूतनयाऽपेक्षयाऽविशुद्धत्वाद् विभिन्नाऽनेकपर्यायाऽभिधेयत्वेऽपि भावनिक्षेपस्य संग्रहमेकत्वमेव प्रतिपद्यते, न भिन्नत्वमिति भावः / ततश्चैतन्मतेन यदेव मङ्गलशब्दवाच्यं भावमङ्गलं प्रत्यूद्दोपशमकाऽनिष्टविघातकृद् विघ्नापहरणाऽऽदि-शब्दानामपि तदेव वाच्यम् , न भिन्नम् , इति तात्पर्यम्। (उवरिमया विवरीआ इत्यादि) उपरितनौ तुसमभिरूद्वैवंभूतौ नयौ ऋजुसूत्र-शब्दनयाऽपेक्षया विपरीतौ भिन्नाऽनेकपर्यायाऽभिधेयस्य भावस्यैकत्वं नेच्छतः, किन्तु भिन्नत्वमभ्युपगच्छतः / तथाहि-समभिरूढ-मतेनाऽन्यदेव मङ्गलशब्दवाच्यं भावमङ्गलम् , अन्यच प्रत्येक प्रत्यूहोपशकाऽऽदिपर्यायवाच्यम् / एवम्भूतस्याऽप्येवमेव, केवलमयं पूर्वस्माद् विशुद्धत्वादेकपर्यायाभिधेयमपि भावमङ्गलं भावमङ्गल-कार्य कुर्वदेव मन्यते, नाऽन्यदा, यथा धर्मोपकरणाऽन्वितः सम्यक् चारित्रोपयोगे वर्तमानः साधुरिति / तदेवमृजुसूत्रशब्दनयाऽभ्युपगमापेक्षया विपरीताऽभ्युपगमपरत्वाद् विपरीतावेतौ (तोत्ति)तस्माद्भाव भावमङ्गलाऽऽदिकमर्थ नियतं निश्चितं पर्यायभेदाद भिन्तः-भेदेनेच्छत इत्यर्थः / यदि हि पर्यायभेदेऽपि वस्तुनो न भेदः, तर्हि घटपटऽऽदीनामपि स न स्यादित्यादियुक्तेः पर्यायभेदेन भिन्नमेव भावमङ्गलमभ्युपगच्छत इति भावः / इति गाथाद्वयाऽर्थ / / 76 // 77 / / विशे०। (26) परस्परं द्रव्यार्थिकपर्यायार्थिकोतत्क्षणक्षयप्रधाने प्रत्यक्षाऽऽदेः प्रमाणस्थानवताराद्वाधकत्वेन च तस्यैकत्याध्यवसायिनः प्रवृत्तिप्रतिपादनाद् न पर्यायास्तिकाभिमतपूर्वापरक्षणविविक्तमध्यक्षणमात्रं वस्तु, किं त्वतीताऽनागतपर्यायाऽऽधारमेकं द्रव्यं वस्त्विति द्रव्यार्थिकनिक्षेपः सिद्धः, द्रव्यं वा न भूतपर्यायमनुभविष्यत्, पर्यायं चैकमेव, तेनाऽनुभूतपर्यायशब्देन तत्कदाचिदभिधीयते, कदाचिचानुभविष्यत्पर्यायशब्देन, यथाऽतीतधृतसंबन्धो घटो घृतघट इत्यभिधीयते; भविष्यत्तत्सं-बन्धोऽपि तथैवाभिधानगोचरचारी, शुद्धतरपर्यायास्तिकेन च नि-राकारस्य ज्ञानस्याऽर्थग्राहकत्वाऽसंभवात् , साकारस्य ज्ञानार्थ-ग्राहकत्वासंभवात् साकार ज्ञानमभ्युपगतं, तत्संवेदनमेव वाऽर्थ-संवेदनंज्ञानाऽनुभवव्यतिरेकेणाऽपरस्याऽर्थानुभवस्याभावाद् घटोपयोग एव घटः, तन्मतेन तत्पर्यायेणाऽतीतेन परिणश्यद्वा द्रव्यं तच्छब्दवाच्यं द्रव्यार्थिकमतेन व्यवस्थितं पूर्ववत् , अत एव घटाऽऽद्यर्थाभिज्ञस्तत्र चानुपयुक्तो द्रव्यमिति प्रतिपादितो द्रव्यार्थिकनिक्षेपश्च, द्रव्यमागमेवाच्यमनेकधा प्रतिपादितम्, इह तु युक्तिसंस्पर्शमात्रमेवप्रदर्श्यते / तदर्थत्वात्प्रयासस्य / भवति विवक्षितवर्तमान-समयपर्यायरूपेणोत्पद्यत इति भावः" विभाषा ग्रहः " // 3 / 1 / 143 / / (पाणि०) इत्यत्र सूत्रे केचिद्भवतेश्चेत्यपीष्यते। अथवा-भूतिर्भावो वज्रकिरीटाऽऽदिधारणवर्तमानपर्यायेण इन्द्राऽऽदिरूपतया वस्तुनो भवन, तद्ग्रहणपर्यायेण वा ज्ञानस्य भवनं, यथा चाय पर्यायार्थिकप्ररूपणा तथा प्रदर्शित एव प्राक्, न पुनरुच्यते। एष एव नयनिक्षेपानुयोगः प्रतिपादितः, उभयप्रविभागः परमार्थः, परम हृदयमागमस्यैतदव्यतिरिक्तविषयत्वात्सर्वनयवादानाम्, न हि शास्त्रपरमहृदयनयव्यतिरिक्तः कश्चिन्नयो विद्यते / सामान्यविशेषस्वरूपविषयद्वयव्यतिरिक्तविषयोऽन्तराभावाद्विषयिणोऽप्यपरस्य नयान्तरस्याऽभाव इति प्राक् प्रतिपादितम्। एतदपि नयद्वयं शास्त्रस्य परमहृदयम्-द्रव्यं पर्यायाशून्यं, पर्यायाश्च द्रव्याविरहिण इत्येवंभूतार्थप्रतिपादनपरम् , नाऽन्यथेत्येतस्याऽ-र्थस्य प्रदर्शनार्थमाहपज्जवनिस्सामण्णं, वयणं दव्वट्ठियस्स अत्थि त्ति। अवसेसो वयणविही, पज्जवभयणा सपडिवक्खो।।७।। परस्परनिक्षेपस्य नयद्वयस्य प्रत्येकमेवं वचनविधिः-द्रव्यास्तिकस्यानुषक्तविशेषं वचनमस्तीत्येतायन्मानं पर्यायास्तिकस्य स्वपरामृष्टसत्तास्वभावं द्रव्यं पृथिवी घटः शुक्ल इत्याद्याश्रितपर्याय परस्परनिरपेक्षं चोभयनयवचोऽसदेव, वचनार्थासत्त्वाद्वचनमसदर्थमिति तदर्थस्याऽप्यसत्त्वमावेदितं भवतीति समुदायार्थः / अवयवार्थस्तु-पर्यायनयेन सह निःसामान्यमसाधारणं वचन द्रव्यास्तिकस्याऽस्तीत्येतद् भेदवाद्यभ्युपगतस्य, विशेषस्य त्वनुरूपानुप्रवेशात् , एतच वचो निर्विषयं निर्विशेषत्वाद् विवत्कुसुमाऽभिधानवत् / " निर्विशेषं सामान्य, भवेत् शशविषाणवत् / '' इति प्रसाधितत्वात् नाव्याप्तिः, हे तोरसिद्धिः पराऽभ्युपगमादेव परिहृता / तन्न / एकान्तभावनाप्रवृतस्य द्रव्यास्तिक - नयस्य परमार्थिता, पर्यायास्तिक स्याऽप्येवं प्रवृत्तस्य न से ति