SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ णय 1887 - अभिधानराजेन्द्रः भाग - 4 णय दोषम् , सम्पूर्णाऽर्थग्राहित्वात् , चक्षुष्मतां समन्तात् समस्तहस्ति- | शरीरदर्शनोल्लापवत् / इति गाथार्थः / / 72 // तथा चसम्पूर्णाऽर्थग्रहरूपं जिनमतमेव दर्शयतिनामाऽऽभेअसद्द-त्थबुद्धिपरिणामभावओ निययं / जंवत्थुमत्थि लोए, चउपज्जायं तयं सव्वं / / 73 / / घटपटाऽऽदिकं यत् किमपि वस्त्वस्ति लोके, तत् सर्व प्रत्येकमेव नियतं निश्चितं चत्वारः पर्याया नामाऽऽकारद्रव्यभावलक्षणा यत्र तचतुष्पर्यायम्; न पुनर्यथा नामाऽऽदिनयाः प्राहुः, यथा-केवल-नाममयं वा, केवलाऽऽकाररूपं वा, केवलद्रव्यताश्लिष्ट वा, केवल-भावाऽऽत्मकं वेति भावः / कुतश्चतुष्पर्यायमेव ? इत्याह-(नामादि-भेअ इत्यादि) नामाऽऽदिभेदेष्वेकत्वपरिणतिसंवलितनामाऽऽकारद्रव्यभावेष्वेवेत्यर्थः / शब्दश्चाऽर्थश्व बुद्धिश्च शब्दार्थऽबुद्धय-स्तासां परिणामस्तस्य भावः सद्भावस्तस्मात् , नामाऽऽदिभेदेषु समुदितेष्वेव योऽयंशब्दाऽर्थबुद्धीना परिणामसद्भावस्तस्माद्धेतोः सर्वं चतुष्पर्याय वस्त्वित्यर्थः / प्रयोगःयत्र शब्दार्थबुद्धिपरिणामसद्भावः, तत् सर्व चतुष्पर्यायम्, चतुष्पायत्वाभावे शब्दाऽऽदिपरिणामभावोऽपि न दृष्टः, यथा शशशृङ्गे, तस्माच्छदाऽऽदिपरि-णामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमिति भावः / इदमुक्तं भवति-अन्योऽन्यसंवलितनामाऽऽदिचतुष्टयाऽऽत्मन्येव वस्तुनि घटाऽऽदिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा, अर्थस्याऽपि पृथुबुध्नोदराऽऽद्याकारस्य नामाऽऽदिचतुष्टयाऽऽत्मकतयैव परिणामः समुपलब्धः, बुद्धेरपि तदाकारग्रहणरूपतया परिणतिस्तदा-त्मन्येव वस्तुन्यवलोकितान चेदंदर्शनं भ्रान्तम् , बाधकाऽभावात्। नाऽप्यदृष्टाऽऽशङ्कयाऽनिष्टकल्पनायुक्तिमती, अतिप्रसङ्गात्, न हि दिनकराऽस्तमयोदयोपलब्धरात्रिन्दिवाऽऽदिवस्तूनां बाधकसम्भावनयाऽन्यथात्वकल्पनासङ्गतिमावहति / न चेहाऽपि दर्शनाऽदर्शने विहायाऽन्यद् निश्चायकं प्रमाणमुपलमामहे, तस्मादेकत्वपरिणत्यापन्ननामाऽऽदिभेदेष्वेव शब्दाऽऽदिपरिणतिदर्शनात् सर्वं चतुष्पर्यायं वस्त्विति स्थितम्। इति गाथाऽर्थः / / 73 / / आह-ननु यदि नामाऽऽदिचतुष्पर्यायं सर्वं वस्तु, तर्हि किं नामा-ऽऽदीनां भेदो नास्त्येव ? इत्याहइय सव्वभेअसंघा-यकारिणो भिन्नलक्खणा एते। उप्पाया इति जं पिव, धम्मा पइवत्थुमाउज्जा / / 74 // इत्येवं ये पूर्व भिन्नलक्षणा भिन्नस्वरूपा धर्मा नामाऽऽदयः प्राक्तोः, ते प्रतिवरत्वायोज्या आयोजनीया इति सम्बन्धः / कथम्भूताः सन्तः? इत्याह-भेदश्च सातश्च भेदसङ्घातौ, सर्वस्य स्वाऽऽश्रय-भूतवस्तुनो भेदसवातौ, तौ कर्तुं शीलं येषां ते सर्वभेदसजातका- रिणो, निजाऽऽश्रयस्य सर्वस्याऽपि वस्तुनः कशिद् भेदकारिणः, कथञ्चित्त्वभेदकारिण इत्यर्थः / तथाहि-केनचिदिन्द्र इत्युच्चरिते अन्यः प्राऽऽह-किमनेन नामेन्द्रो विवक्षितः, आहोस्वित् स्थापनेन्द्रः, द्रव्येन्द्रः, भावेन्द्रो वा? नामेन्द्रोऽपि द्रव्यत किं गोपालदारकः, हालिकदारकः, क्षत्रियदारकः, ब्राह्मणदारकः, वैश्यदारकः, शूद्रदारको वा ? इत्यादि। तथा क्षेत्रतोऽपि नामेन्द्रः, किं भारतः, ऐरवतः, महाविदेहजो वा ? इत्यादि / कालतोऽपि किम-तीतकालसंभवी, वर्तमानकालभावी, | भविष्यन् वा ? इत्यादि; अतीतकालभाव्यपि किमितोऽनन्ततमसमयभावी, असङ्ख्यात-तमसमयभावी, संख्याततमसमयभावी वा ? इत्यादि / भावतोऽपि किं कृष्णवर्णः, गौरवर्णः, दीर्घः, मन्थरो वा ? इत्यादि / तदेवमेको-ऽपि नामेन्द्रस्याऽऽश्रयभूतोऽर्थस्तावद् द्रव्यक्षेत्रकालभावभेदाऽधिष्ठितोऽनन्तभेदत्वं प्रतिपद्यते। तथा स्थापनाद्रव्य-भावाऽऽश्रयस्याऽप्युक्ताऽनुसारतः प्रत्येकमनन्तभेदत्वमनुसरणीयम् / इत्येवमेते नामाऽऽदयो भेदकारिणः / अभेदकारिणस्तहिं कथम् ? इति चेत् / उच्यते-यदैकस्मिन्नपि वस्तुनि नामाऽऽदयश्वत्वारोऽपि प्रतीयन्ते, तदाऽभेदविधायिनः / तथाहि-एकस्मिन्नपि शचीपत्यादौ ' इन्द्र' इति नाम, तदाकारस्तु स्थापना, उत्तरावस्थाकारणत्वंतु द्रव्यत्वम् दिव्यरूपसम्पत्तिकुलिशधारण-परमैश्वर्याऽऽदिसंपनत्वं तु भाव इति चतुष्टयमपि प्रतीयते / तस्मादेव सर्वस्य स्वाऽsश्रयभूतस्य वस्तुनो भेदसङ्घातकारिणो भिन्नलक्षणा एते नामाऽऽदयो धर्मा उत्पादव्ययध्रौव्यत्रिकवत् प्रतिवस्तु आयोजनीयाः पर-स्पराऽविनाभाविनः प्रतिवस्तु द्रष्टव्या इति तात्पर्यम् / इति गाथार्थः // 74 / / " नत्थि नएहिँविहूणं, सुत्तं अत्थो अजिणमए किंचि। आसज्जउ सोयारं, नएण य विसारओ बूया ''||1 // इतिवचनाजिनमते सर्व वस्तु प्रायो नयैर्विचार्यते. अतो नामस्थापनाऽऽदीनपि प्रस्तुतान् नयैर्विचारयन्नाहनामाऽऽइतियं दव्व-ट्ठियस्स भावो य पज्जवनयस्स। संगहववहारा पढ-मगस्स सेसा य इयरस्स।। 75 / / एतेषु नामाऽऽदिषु मध्ये नामस्थापना-द्रव्यनिक्षेपत्रयं द्रव्यास्तिकनयस्यैवाऽभिमतं, न पर्यायास्तिकस्य, नामाऽऽदिनिक्षेपत्रयस्य विवक्षितभावशून्यत्वात् , पर्यायास्तिकस्य तु भावग्राहित्वादिति। भावो भावनिक्षेपः पुनः पर्यायास्तिकनयस्याऽभिमतो नेतरस्य, तस्य द्रव्यमात्रग्राहित्वेन भावाऽनवलम्बित्वादिति। आहननु नया नैगमाऽऽदयः प्रसिद्धाः, ततस्तैरेवाऽयं विचारो युज्यते, अथ तेऽत्रैव द्रव्य - पर्यायास्तिकनयद्येऽन्तर्भवन्ति, तयुच्यता कस्य कस्मिन्नन्तर्भावः ? इत्याशड्क्याऽऽह-(संगहेत्यादि) नैगमस्तावत् सामान्यग्राही संग्रहेऽन्तर्भवति, विशेषग्राही तु व्यवहारे, संग्रहव्यव-हारी तु प्रस्तुतनयद्वयस्य मध्ये प्रथमकस्य द्रव्यास्तिकस्य मतम-भ्युपगच्छतः द्रव्यास्तिकमतेऽन्तर्भवत इति तात्पर्यम् / शेषास्तु ऋजुसूत्राऽऽदय इतरस्य द्वितीयस्य पर्यायास्तिकस्य मतमभ्युप-गच्छन्तोऽत्रैवाऽन्तभवन्तीति हृदयम् / आचार्यसिद्धसे नमतेन चेह ऋजुसूत्रस्य पर्यायास्तिकेऽतभावो दर्शितः, सिद्धान्ताऽभिप्रायेण तु संग्रहव्यवहारवद् ऋजुसूत्रस्याऽपि द्रव्यास्तिक एवान्तर्भावो द्रष्टव्यः। तथा चोक्तं सूत्रे-" उजुसुयस्स एगे अणुवउत्ते आगमओ एग दव्यावस्सयं पुहत्तं नेच्छइ" इति / (अस्याऽर्थः-ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकं द्र- व्यावश्यक पृथक्त्वं नेच्छति / अनुयोगद्वारसूत्रस्योऽयं पाठः / तट्टीका चेयम्- " उज्जुसुयस्सेत्यादि " ऋजु अतीताऽनागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयत्यभ्युपच्छतीति ऋजुसूत्रः, अयं हि वर्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नाऽतीतम्: विनष्टत्यात् ; नाऽप्यनागतम्, अनुत्पन्नत्यात् वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy