________________ णय १५५६-अभिधानराजेन्द्रः भाग - 4 Ury पन्ना बहवोऽपि भृत्याः सम्यगुपायतो विरोधाऽऽदिकारणान्यपनीय एकत्र मील्यन्ते, सत्प्रवृत्तिं च कार्यन्ते; यथा वा धनधान्यभूम्याद्यर्थे परस्पर विवदमाना बहवोऽप्यर्थिप्रत्यर्थिलक्षणा व्यवहारिणः सम्यगन्यायदर्शिना केनाऽप्युदासीनेन युक्तिभिर्विवादकारणान्यपनीय मील्यन्ते, सन्मार्ग च ग्राह्यन्ते, तथेहापि परस्परविरुद्धान्बहूनपि नयान् सम्यग्ज्ञानी जैनसाधुस्तेषां सावधारणतालक्षणं विरोधकारणमपनीय एकत्र मीलयति, सावधारणत्वे च मिथ्यात्वकारणेऽपनीते तान् सम्यग्रुपतां ग्राहयति / प्रचुरविषलवा अपि हि प्रौढमन्त्रवादिना निर्विषीकृत्य कुष्ठाऽऽदिरोगिणो दत्ता अमृतरूपतां प्रतिपद्यन्त एवेति // 2267 / / प्रत्येकावस्थायामेकैकांशग्राहित्वात्समुदिता अपि कथं ते वस्तुगमकाः? इत्याहदेसगमगत्तणाओ, गमग चिय वत्थुणो सुयाऽऽइ व्व। सव्वे समत्तगमगा, केवलमिव सम्मभावम्मि॥ 2268 / / इह नया वस्तुनस्तावत्सामान्येन गमका अवबोधकाः, प्रापका इति पक्षः, तद्देशगमकत्वात्। ननु वस्तुनो देशमात्रमेव प्रत्येकममी गृह्णन्ति, तत्कथं वस्तुगमका उच्यन्ते ? इत्याह-श्रुताऽऽदिवत्। इदमुक्तं भवतिघटाऽऽदीना रूपमात्रमेव चक्षुर्गृह्णाति, न रसाऽऽदिधर्मान् पर्वताऽऽदीनां चार्वाग्देशमात्रमेव गृह्णाति,न परभागमिति / एवं देशग्राहकमपि सद्वस्तु गमयत्येव, एवं नया अपि। किञ्च-एत एव सर्वे नयाः मिथ्यात्वापगमेन सम्यक्त्वसद्भावे क्रमेण विशुद्धयमानाः सर्वाऽऽवरणप्रतिबन्धाभावासमस्तवस्तुगमका भवन्ति, केवलज्ञानमिवेति / / 2268 / / आह-ननु यदि ते प्रत्येकमपि वस्तुगमकाः, तर्हि मिथ्यादृष्टयः कथम् ? | इत्याहजमणेगधम्मणो व-त्थुणो तदंसे च सव्वपडिवत्ती। अंध व्व गयावयवे, तो मिच्छद्दिविणो वीसु // 2266 / / यद्यस्मादनेकधर्मस्यानेकधर्माऽऽत्मकस्य वस्तुनस्तदंशेऽपि गृहीतेऽनित्यत्वादेकधर्ममात्रेऽपि परिच्छिन्ने बौद्धाऽऽदेर्नयवादिनः" समस्तं वस्तु मया गृहीतम् " इत्येवंभूता प्रतिपत्तिर्भवति; ततस्तस्माद्विष्वक्पृथगेकैकशी मिथ्यादृष्टयः, विपर्यस्तबुद्धित्वात् , एकस्मिन्पुच्छपादाऽऽद्यवयवे समस्तगजप्रतिपत्तारोऽन्धा इवेति / / 2266 / / समुदिता अपि तर्हि कथं ते सम्यग्दृष्टयः? इत्याहजं पुण समत्तपञ्जा-यवत्थुगमग त्ति समुदिया तेणं / सम्मत्तं चक्खुमओ, सध्वगयावयवगहणे व्व // 2270 / / यस्मात् तु समुदिता नयाः समस्तपर्याया यस्य वस्तुनः तत्समस्तपर्याय वस्तु, तस्य गमकाः प्रापकाः भवन्ति / तेन ते सम्यक्त्वं सम्यग्यादिनो व्यपदिश्यन्ते / यथा समस्तगजावयवग्रहणे सर्वगजावयवसमुदायाऽऽत्मकगजवादिनचक्षुष्मन्तः / निरवधारणोऽपर - नयसापेक्षः स्यात्पदलाञ्छित एकोऽपि नथः सम्यग्वादी, ये तुसावधारणा अन्योन्यमनपेक्षाः स्यात्पदलाञ्छिताः ते बहवोऽपि समुदिता मिथ्यादृष्टय एवेतीह तात्पर्यम्। अत एव ये सावधारणास्ते बहवोऽपि समुदितव्यपदेशं नलभन्ते, तत्त्वतस्तेषामसमुदितत्वा-त्। निरवधारणास्तु नयाः पृथगपि स्थिताः परस्परं सापेक्षत्वेन समुदिता भण्यन्त इति / / 2270 / / दृष्टान्तान्तरेणाऽपि समुदितानां समस्तवस्तुगमकत्वं समथर्यन्नाहन समत्तवत्थुगमगा, वीसुं रयणाऽऽवली मणओ व्व। सहिया समत्तगमगा, मणओ रयणाऽऽवलीए व्व / / 2271 / / न समस्तवस्तुगमकाः पृथग्भूता नयाः, परस्परनिरपेक्षत्वात् , पृथस्थितरत्नावलीव्यपदेशानहमणय इव / त एव समुदिताः समस्तवस्तुगमकाः, यथास्थानविनियोगेन परस्परसापेक्षत्वाद्, एकसूत्रक्रमप्रोतरत्नावलीमणय इवेति / / 2271 / / अथ परस्परं विवदमानान्नयान्समीक्ष्य ये मुह्यन्ति, न किचिदिह परस्परं मिलति' इत्यादि भाषणतः समयाऽऽ सातनां च कुर्वन्ति, तदुपदेशगर्भमुपसंहरन्नाहएवं सविसयसच्चे, परविसयपरंमुहत्तए नाउं। नेएसुन संमुज्झइ, न य समयाऽऽसायणं कुणइ // 2272 / / एवमुक्तप्रकारेण यो यस्य द्रव्यास्तिकायाऽऽदिनयस्याऽऽत्मीयो नित्यत्वाऽऽदिको विषयस्तन्मात्रप्रतिपादने सत्योऽवितथो नयः, परस्य तुपर्यास्तिकाऽऽदिनयस्य योऽनित्यत्वाऽऽदिको विषयस्तत्र पराङ्मुखः, नतं निराकरोति, निरवधारणत्वेन सम्यग्नयत्वात्, नाऽपितं स्थापयति, नयत्वेनैकांशग्राहित्वादित्यर्थः / एवंभूतान् सर्वानपि नयान् ज्ञात्याऽन्योऽन्यरूपतया तेषां स्वविषयप्रतिपादनेऽपि नयविधिज्ञः साधु येषु वस्तुषु न संमुह्यति, न दोलायमानमानसो भवति / नाऽपि निन्दाऽऽदिभिः समयाऽऽशातनां विधाय मिथ्यात्वमुपगच्छति, किंतु' कथञ्चिदेतदप्यस्ति, कथञ्चिदिद-मपि च घटते ' इत्यादिरूपतया नयान्विषयविभागेन व्यवस्थाप्य वस्त्वर्थ गमयतीति / / 2272 / / विशे० / उत्त० / स्था०। (25) वस्तुनिबन्धनाऽध्यवसायनिमित्तव्यवहारमूलकारणतामनयोः प्रतिपाद्याधुनाऽध्यारोपितानध्यारोपितनामस्थापनाद्रव्यभावनिबन्धनव्यवहारनिबन्ध नतामनयोरेव प्रतिपादयन्नाहाऽऽचार्यःनामं ठवणा दविए, तिएसु दव्वट्ठियस्स निक्खेवो। भावो उपज्जवट्ठिअ-परूवणा एस परमत्थो / / 6 / / (नाम ठवणेत्यादि)अस्याश्च समुदायार्थः-नामस्थापनाद्रव्यमित्येष द्रव्यार्थिकस्य निक्षेपः / भावस्तु पर्यायार्थिकनिरूपणाया निक्षेप इत्येव परमार्थः / सम्म०१ काण्ड / (नामाऽऽदीनां व्याख्या स्वस्वस्थाने / नामस्थापनाद्रव्यभावनयानां स्वस्वस्थाने मतानि) तदेवं नामाऽऽदिनयानां परस्परविप्रतिपत्तिमुपदो पसंहारपूर्वकं मिथ्येतरभावं दर्शयितुमाहएवं विवयंति नया, मिच्छाऽभिनिवेसओ परोप्परओ। इयमिह सव्वनयमयं, जिणमयमणवजमचंतं / / 72 // एवमुक्तप्रकारेण परस्परतो मिथ्याभिनिवेशाद् विवदन्ते विवाद कुर्वन्ति नामनयाऽऽदयो नयाः / ततश्च मिथ्यादृष्टय एते, असंपूर्णाथंग्राहित्वात्, गजगात्रभिन्नदेशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवत्। यदि नामैते मिथ्यादृष्टयः, तर्हि निर्मिथ्यं किम् ? इत्याहइदमिहैव लोके वर्तमानमनुभवप्रत्यक्षसिद्धं जिनमतं जैनाऽभ्युपगमरूपम् / कथंभूतम् ? सर्वनयमयं निःशेषनयसमूहाभ्युपगमनिवृत्तम् , अत्यन्तमनवध नामाऽऽदिनयपरस्परोद्भाविताऽविद्यमाननिःशेष