SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ णय 1885 - अभिधानराजेन्द्रः भाग - 4 णय द्वितीयस्य वैयर्यात् , तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति / तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः / एते च परस्परं निरपेक्षा दुर्नयाः सौगताऽऽदिसमयवत् . परस्परसापेक्षास्तुसुनयाः, तैश्च परस्परसापेक्षैः समुदितैरव संपूर्णजिनमतं भवति, नैकैकावस्थायाम्। उक्तं च स्तुतिकारण" उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ! दृष्टयः। न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ||1|| एते च नया ज्ञानरूपाः, ते जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति, तथाऽपि प्रत्यक्षाऽऽदिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् सिद्धत्वाद् बहुविचारविषयत्वाजिनाऽऽगमे प्रतिस्थानमुपयोगित्वाच्च गुणप्रमाणाः पृथगुक्ताः, तदेतत्प्रदेशदृष्टान्तेनेति निगमनम् / प्रस्थकाऽऽदिदृष्टान्तत्रयेणैव नयप्रमाणं प्रतिपाद्योपसंहरति-तदेत-नयप्रमाणमिति। अनेन च दृष्टान्तत्रयेण दिगमात्रदर्शनमेव कृतं,यावता यत्किमपिजीवाऽऽदिवस्त्वस्ति, तत्र सर्वत्र नयविचारः प्रवर्तते, इत्यलं बहुजल्पितेनेति। अनु०। (22) एतैर्दृष्टान्तैरयमस्मान्नयाच्छुद्ध इति कथं ज्ञेयम् ? इत्याहशुद्धा ह्येतेषु सूक्ष्मार्थाः, अशुद्धाः स्थूलगोचराः। फलतः शुद्धतां त्वाहु-र्व्यवहारे न निश्चये / / 74 / / (शुद्धा हीति) एतेषु नयेषु उक्तदृष्टान्तरीत्या ये यतः सूक्ष्मार्थाः ते ततः शुद्धाः, ये च यतः स्थूलगोचराः ते ततोऽशुद्धाः, सूक्ष्मत्वं स्थूलत्वं चाऽर्थानां तादृशतादृशबुद्धिविषयत्वेनानुगमनीयम् , न तु बह्वल्पविषमभावेन, तथासत्युत्तरोत्तरेभ्यः पूर्वपूर्वेषां सूक्ष्मार्थत्वप्राप्तेः। यत उक्तम् (प्रमाणनयतत्त्वालोकालङ्कारे)- पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषयः॥ 46 / / सन्मात्रगोचरात् संग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः / / 47 / / सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः / / 48 / / वर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयाऽवलम्बित्वादनल्पार्थः / / 46 / / कालाऽऽदिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः // 50 // प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुया-यित्वात्प्रभूतविषयः / / 51 प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात् समभिरूढस्तदन्यथाऽर्थस्थापकत्वाद्महागोचरः // 52 // " इति। एवं सदृजुसूत्राऽऽदेर्व्यवहारस्य वह्वर्थत्वेन सूक्ष्मार्थत्वं स्यादिति बहुविचारसहत्वं सूक्ष्मार्थत्वम्, अल्पविचारसहत्वं च स्थूलार्थत्वमित्यादिकं वा यथासमयं परिभाषणीयम्, इत्थंचनिश्चयनया एवैतेषु शुद्धाः, व्यवहारनयाश्चाशुद्धा इति फलितम / निश्वयत्वं च | व्यवहारतदुपजीवनयान्यनयत्वं व्यवहारतदपजीवितयाऽन्यतरत्वमिति / विवेकः / "अहवा सव्वणयमयं, विणिच्छओ इगमयं च ववहारो (विशे०)" इति भाष्योक्तं पक्षान्तरं च निश्चयस्य सप्तभड्ग्यादिविशेषिततयोपपादनीयम् / अयं च निश्चयव्यवहारयोः शुद्धाशुद्धत्वोपन्यासः स्वरूपतः; फलतः शुद्धतां त्वभियुक्तां च व्यवहारनये प्राहुन तु निश्चये / / 74 ।नयो०। व्य०॥ (23) के पुनस्ते प्रभेदाः ? इत्याहइक्किको य सयविहो, सत्त नयसया हवंति एमेव / अन्नो वि य आएसो, पंचेव सया नयाणं तु / / 2264 / / एतेषां मूलजातिभेदतः सप्तानां नैगमाऽऽदिनयानामेकैकः प्रभेदतः शतविधः शतभेदः / एवं च सर्वैरपि प्रभेदैः सप्त नयशतानि भवन्ति / अन्योऽपि चाऽऽदेशः प्रकारः, तेन पच नयशतानि भवन्ति / शब्दाऽऽदिभिस्त्रिभिरपि नयैर्यदा एक एव शब्दनयो विवक्ष्यते तदा पञ्चैव मूलनया भवन्ति, एकैकस्य च शतविधत्वात्पञ्चशतविधत्वं नयानाम्। (अन्नो वि यत्ति) अपिशब्दात्षट्, चत्वारि, द्वे वा शते नयानाम् / तत्र यदा सामान्यग्राहिणो नैगमस्य संग्रहे, विशेषग्राहिणस्तु व्यवहारेऽन्तर्भावो विवक्ष्यते, तदा मूलनयानां षड्विधत्वादेकैकस्य च शतभेदत्वात्षट् शतानि नयानाम् ; यदा तु संग्रहव्यवहारऋजुसूत्रलक्षणास्त्रयोऽर्थनयाः विवक्ष्यन्ते, एकस्तु शब्दनयः पर्यायास्तिकस्तदा चत्वारो मूलनया भवन्ति, प्रत्येकं च शतभेदत्वाचत्वारि नयशतानि। यदातुनैगमाऽऽदयश्वत्वारोऽप्येको द्रव्यास्तिकः, शब्दनयास्तु त्रयोऽप्येक एव पर्यायास्तिक इत्येवं द्वावेव नयौ विवक्ष्येते, तदा अनयोः प्रत्येक शतभेदत्याद्वे नयशते भवतः / इति नियुक्तिगाथार्थः / / 2264 / / (24) अथवा किमनेन स्तोकभेददर्शनेन ? उत्कृष्टतोऽसंख्याता अपि नया भवन्ति, तेऽपि चापिशब्दाद् द्रष्टव्या इतिदर्शयन्नाहजावंतो वयणपहा, तावंतो वा नया विसद्दाओ। ते चेव य परसमया, सम्मत्तं समुदिया सवे / / 2265 / / ' वा ' अथवा, यावन्तो वचनपथा वचनमार्गाः, वचनप्रकारास्तेऽपीहापिशब्दात्संगृहीताः। य एव च नयास्त एव च सावधारणाः सर्वेऽपि परसमयास्तीर्थिकसिद्धान्ताः, समुदितास्तु निरवधारणाः स्याच्छन्दलाञ्छिताः सर्वेऽपि नयाः सम्यक्त्वं जिनशासनभावं प्रतिपद्यन्त इत्यर्थः / आह च स्तुतिकारः-"उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ! दृष्टयः। न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः // 1 // इति / / 2265 / / एतदक्षममाणः परः प्राऽऽहन समेंति न य समेया, सम्मत्तं नेव वत्थुणो गमगा। वत्थुविघायाय नया, विरोहओ वेरिणो चेव / / 2266 // न समयन्ति न समुदायभावमापद्यन्ते नयाः, नाऽपि समेतास्ते सम्यक्त्वं भवन्ति, प्रत्येकावस्थायां मिथ्यादृष्टित्वात्, तत्समुदाये महामिथ्यात्वप्रसङ्गात्, प्रचुरविषलवसमुदाये विषप्राचुर्यवत् / नाऽपि तेसमेता वस्तुनो गमकाः, प्रत्येकावस्थायां तदगमकत्वात् / समुदिताश्च ते विवदमानाः प्रत्युत वस्तुविधातायैव भवन्ति, न पुनस्तद्गमकाः / कुतः पुनस्ते न समयन्ति ? नच समुदिताः सम्यक्त्वं, नाऽपि वस्तुगमकाः? इत्याहविरोधित्वाद्वैरिवदिति // 2266 // अत्रोत्तरमाहसव्वे समयंति सम्म, चेगवसाओ नया विरुद्धा वि। मिच्चववहारिणो इव, राओदासीणवसवत्ती।। 2267 / / परस्परविरुद्धा अपि नयाः सर्वेऽपि समयन्ति समुदिता जायन्ते, सर्व च सम्यक्त्यं भवन्ति / कु तः ? इत्याह-एक स्य जिनसाधोर्वशवर्तित्वाद् , राजवशवर्तिनानाऽभिप्रायभृत्यवर्गवत् / अथवाव्यवहारिण इवोदासीनवशवर्तिनः / इदमुक्तं भवति-यथा नयदर्शिना आज्ञासारेण एके न राज्ञा विरोधाऽऽदिभावमा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy