________________ णय 1854 - अभिधानराजेन्द्रः भाग - 4 णय प्येव व्यवहृतिर्दृश्यते। यथा कश्चिदाह-मदीयदासेन खरः क्रीतः, तत्र दासोऽपि मदीयः, खरोऽपि मदीयः, दासस्य मदीयत्वात् तत्-क्रीतः खरोऽपि मदीय इत्यर्थः / एवमिहाऽपि देशस्य द्रव्यसंबन्धित्वात् तत्प्रदेशोऽपि द्रव्यसंबन्ध्येवेति भावः। तस्मान्मा भणषण्णां प्रदेशः, अपि त्वेवं भण-पञ्चानां प्रदेश इति, त्वदुक्तषष्ठदेशस्यैवाऽघटनादित्यर्थः। तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि। एतानि पञ्च द्रव्याणि, तत्प्रदेशश्वेत्येवमविशुद्धसंग्रह एवं मन्यते, अवान्तरद्रव्यसामान्याऽऽद्यभ्युपगमात्। विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनांच नेच्छत्येव, सर्वस्यैव वस्तुसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन। प्रकृतमुच्यते-एवं वदन्तं संग्रह ततोऽपि निपुणो व्यवहारो भणति-यद्भणसि-पञ्चानां प्रदेश इति, तन्न भवति न युज्यते, कस्मात् ? यदि यथा पञ्चानां गोष्ठिकानां पुरुषाणा किञ्चित् द्रव्यं सामान्यमेकं भवति / तद्यथा-हिरण्यं वेत्यादि / एवं यदि प्रदे-शोऽपि स्याततो युज्यते वक्तुं पञ्चानां प्रदेश इति। इदमुक्तं भवतियथा केषाञ्चित्पञ्चानां पुरुषाणां साधारणं किञ्चिद्विरण्याऽऽदि भवति, एवं पञ्चानामपि धर्मास्तिकायाऽऽदिद्रव्याणां यद्येकः कश्चित्साधारणप्रदेशः स्यात्तदेयं वाचो युक्तिर्घटत; न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्। तस्मान्मा भणपञ्चानां प्रदेशः / अपि तु पञ्चविधः पञ्चप्रकारः प्रदेशः, द्रव्यलक्षणस्याऽऽश्रयस्य पञ्चविधत्वादिति भावः। तदेवाऽऽह-धर्मप्रदेश इत्यादि। एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यद्भणसिपञ्चविधः प्रदेशः, तन्न भवति, कस्मात् ? यस्मादेव पञ्चविधः प्रदेशः, एवमेकैको धमास्तिकायाऽऽदिप्रदेशः पञ्चविधः प्रज्ञप्तः, शब्दादत्र वस्तुव्यवस्था, शब्दे त्वेवमेव प्रतीतर्भवति / एवं च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति। तन्मा भणपञ्चविधः प्रदेशः, किं त्वेवं भण-भाज्यः प्रदेशः स्याद्धर्मप्रदेश इत्यादि / इदमुक्तं भवति-भाज्यो विकल्पनीयो विभजनीयः प्रदेशः कियद्भिर्विभागैः स्याद्धर्मप्रदेश इत्यादि पञ्चभिः, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति। स च यथा स्वमात्मीयमात्मीय एवाऽस्ति, नपरकीयः, तस्यार्थक्रियासाधकत्वात्, प्रस्तुतनयमतेनासत्त्वा-दिति। एवं भणन्तमृजुसूत्रं प्रति शब्दनयो भणति-यद्भणसि-भाज्यः प्रदेशः, तन्न भणति, कुतः ? यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायाऽऽदिप्रदेशः स्यात् , अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायाऽऽदिप्रदेशः स्यात् , इत्थमपि भजनाया अनिवारितत्वात् , यथा एकोऽपि देव-दत्तः कदाचिद्राज्ञो भृत्यः, कदाचिदमात्याऽऽदेरिति। एवमाकाशास्तिकायाऽऽदिप्रदेशेऽपि वाच्यम्। तदेवं नैयत्याभावादनवस्था प्रपद्यते। तन्मैवं भण-भाज्यः प्रदेशः, अपि तु इत्थं भण-" धम्मे पएसे से पएसे धम्मे" इत्यादि। इदमुक्तं भवतिधर्मप्रदेश इति, धर्माऽऽत्मकः प्रदेश इत्यर्थः। अत्राऽऽह-नन्वयं प्रदेशः सकल-धर्मास्तिकायादव्यक्तिरिक्तः सन् धर्माऽऽत्मक इत्युच्यते, आहो-स्थित् तदेकदेशाव्यतिरिक्तः सन् , यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः संस्तत्प्रदेशो जीवाऽऽत्मक इतिव्यप-दिश्यत इत्याह-(से पएसे धम्मे त्ति) स प्रदेशो धर्मः, सकलधर्मा-स्तिकायादव्यतिरिक्त इत्यर्थः / जीवास्तिकाये हि परस्पर भिन्ना-न्येवानन्तानि जीवद्रव्याणि भवन्त्यतो य एकजीवद्रव्यस्य प्रदेशः, सनिःशेषजीवास्तिकायैकदेशवृत्तिरेव सन जीवाऽऽत्मक इत्यु-च्यते। अत्र तुधर्मास्तिकाय एकमेव द्रव्य, ततः सकलधर्मास्ति-कायाव्यतिरिक्त एव संस्तत्प्रदेशो धात्मक उच्यत इति भावः / अधर्माऽऽकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयम्। जीवास्तिकायेतु (जीवे पएसे पएसे नो जीवे त्ति) जीवः प्रदेश इति, जीवास्तिकायाऽऽत्मकः प्रदेश इत्यर्थः / स च प्रदेशो नोजीवः, नोशब्दस्येह देशवचनत्वात् , सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः / यो ह्येक जीवोद्रव्याऽऽत्मकः प्रदेशः स कथमनन्तजीवद्रव्याऽऽत्मके समस्तजीवास्तिकाये वर्तेत इति भावः / एवं स्कन्धाऽऽत्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः / एवं वदन्तं शब्दनयं नानार्थसमभिरोहणासमभिरूढः प्राऽऽह-यद्भणसिधर्मः प्रदेशो धर्म इत्यादि, तन्न भवति न युज्यते, कस्मात् ? इत्याह-इह खलु द्वौ समासौ भवतः / तद्यथातत्पुरुषः, कर्मधारयश्च / इदमुक्तं भवति-" धम्मे पएसे से पएसे धम्मे" इत्युक्ते समासद्वयाऽऽरम्भकवाक्यद्वयमत्र संभाव्यते / तथाहि-यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्याऽऽरम्भकमिदं वाक्यम् / यथा वने हस्तीत्यादि / अथवा-प्रथमा, तदा कर्मधारयस्य / यथानीलमुत्पलमित्यादि। ननु यदि वाक्यद्वयमेवाऽत्र संभाव्यते, तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ? उच्यतेसमासाऽऽरम्भकवाक्ययोः समासोपचारात्। अथवा-अलुक्समासविवक्षया समासावप्येतौ भवतः, यथा-कण्ठे काल इत्यादी-त्यदोषः / यदि नाम द्वौ समासावत्र भवतः, ततः किमित्याह-तन्न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण ? कर्मधारयेण वा ? यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसंभवादिति शेषः। स चाऽयं दोष: धर्मे प्रदेश इति भेदाऽऽपत्तिः, यथा कुण्डे वदराणी-ति।नच प्रदेशप्रदेशिनौ भेदेनोपलभ्येते। अथ अभेदेऽपि सप्तमी दृश्यते। यथा-घटे रूपमित्यादि। एवमुभयत्र दर्शनात्संशयलक्षणो दोषः स्यात्। अथ कर्मधारयेण भणसि, ततो विशेषेण (धम्मे असे पएसे असे त्ति) धर्मश्च स प्रदेशश्च स इति समानाधिकरणः कर्मधारयः। एवं च सप्तम्याशङ्काऽभावतो न तत्पुरुषसंभव इति भावः। आह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते, उत तदेकदेशवृत्तिः सन् ? यथा जीवास्तिकायैकदेशवृत्तिजीवप्रदेश इत्याशङ्कयाऽऽह-(मे से पएसे धम्मे ति) स च प्रदेशः सकलधर्मास्तिकायाऽऽदिव्यतिरिक्तो, न पुनस्तदेकदेशवृत्तिरित्यर्थः / शेषभावना पूर्ववत्।" से पएसे नो जीवे से पएसे नो खंधे " इत्यत्राऽपि पूर्ववदेवार्थकथनम् / एवं वदन्तं समभिरूढं प्रत्येवंभूतो भणति-यद्यद् धर्मास्तिकायाऽऽदिक वस्तु भणसि, तत्तत्सर्वसमस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णमात्मस्वरूपेणाऽविकलं निरवशेषं तदेवैकत्वानिरवयवम् , एक्ग्रहणगृहीतम् एकाभिधानाभिधेयं, नामानि होकस्मिन्नर्थे नेच्छन्ति, अभिधानभेदे वस्तुभेदाभ्युपगमात् / तदेवंभूतं तद् धर्मास्तिकायाऽऽदिकं वस्तु भण, न तु प्रदेशाऽऽदिरूपतया, यतो देशप्रदशौ ममाप्रदेशौ अवस्तुभूतो, अखण्डस्यैव वस्तुनः सत्त्वेनोफ्गात् / तथा-हि-प्रदेशप्रदेशिनोभेंदोऽभेदो वा ? यदि प्रथमः पक्षः, तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति / अथाऽभेदस्तर्हि धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्। न च पर्यायशब्दयोर्युगपदुचारणं युज्यते, एकेनैव तदर्थप्रतिपादने