________________ णय 1852 - अभिधानराजेन्द्रः भाग - 4 णय त्ताऽऽदिलक्षणं वस्तु स्वरूपमपहाय कथमन्यत्र विलक्षणस्वरूपे वस्तुनि आकाशलक्षणे वर्तितुमुत्सहते / तथा चाऽत्र प्रयोगः-यवस्तु सत् तत् सर्वमात्मस्वरूपे वर्तते, यथा चेतना जीवे, वस्तुचदेव-दत्ताऽऽदिकमिति तदपि स्वस्वरूप एव वर्तते, नान्यत्रेति / अथवा-ऽयं व्यतिरेकमुखेन प्रयोगः-विवादाऽऽस्पदीभूतो देवदत्तो नाऽऽ-काशप्रदेशेष्यवतिष्ठते, ततो विलक्षणत्वात् , यद् यतो विलक्षणं न तत्तत्र वर्त्तते, यथा छाया आतपे, विलक्षणाश्वाचेतनत्वेन देवदत्ता-दाकाशाप्रदेशा इति नासौ तत्र वर्तते। उक्तं च भाष्यकारैः" आगासे वसइत्ति य, भणिए भणइ किह अन्नमन्नम्मि। मोत्तूणाऽऽयसहावं, वसेज वत्थु विहम्मम्भि।। 2241 / / वत्थु वसइ सहावे, सत्ताओ चेयणा व जीवम्मि। न विलक्खणत्तणाओ, भिन्ने छायातवे चेव / / 2242 / / एष वसतिदृष्टान्तः। (21) संप्रति प्रदेशदृष्टान्तभावनातत्र प्रकृष्टो देशः प्रदेशः, स एव दृष्टान्तः प्रदेशदृष्टान्तः / स चायम्नैगमो वदति-षण्णां जगति प्रदेशः / तद्यथा-धर्मास्तिकायप्रदेशः / अधर्मास्तिकायप्रदेशः, आकाशास्तिकायप्रदेशः, जीवप्रदेशः, स्कन्धप्रदेशः, स्कन्धगतैकदेशप्रदेशश्च। सर्वत्र षष्ठीतत्पुरुषः समा-सः। / यथा धर्मास्तिकायस्य प्रदेशो धर्मास्तिकायप्रदेशः / एवं सर्व-त्रापि। स च धर्मास्तिकायप्रदेशाऽऽदिः सामान्यविवक्षया एको, विशेषविवक्षयाऽनेक इति / एवं वदति नैगमे संग्रहो वदति-यद ब्रूवे-षण्णा प्रदेश इत्यादि। तन्न भवति / यस्माद् सः स्कन्धगतैकदेश-प्रदेशः, स तस्यैव स्कन्धस्य प्रदेशः, देशस्य स्कन्धाव्यतिरिक्तत्वात्। तथा च लोकेऽपि वक्तार:-" दासेन मे खरः क्रीतो, दासो-ऽपि मे खरोऽपि मे। " एवं यत्स्कन्धस्य संबन्धिनो देशस्य प्रदेशः,सतस्यैव स्कन्धस्य। ततो मैवं वादीः-यदुत षण्णां प्रदेश इत्यादि, किं त्वेवं वद-यथा पश्चानां प्रदेशः। तद्यथा-धर्मास्तिकायप्रदेशः, अधर्माऽस्तिकायप्रदेशः, आकाशास्तिकायप्रदेशः,जीवप्रदेशः, स्कन्धप्रदेश इति। अयं च धर्मास्तिकायप्रदेश: स्वस्वधर्मास्ति-कायाऽऽद्यनुगतः सर्वोऽप्येक एव द्रष्टव्यः, सामान्यविवक्षणात्। एवं च संग्रहोऽविशुद्धः प्रतिपत्तव्यः, अपरसामान्याभ्युपगमात्। एवम-भिदधानं संग्रह प्रति व्यवहारोऽभिधत्तेयद्वदति भवानपञ्चानां प्रदेश इति, नान्यथा। न चैतदस्ति। तस्मादेवं वक्तव्यम्-पञ्चविधः प्रदे-शः। तद्यथा-धर्मास्तिकायप्रदेशो यावत् स्कन्धप्रदेश इति एवमुक्ते व्यवहारेण ऋजुसूत्रो वदति-यभाषते भवान्-पञ्चविधः प्रदेश इ-त्यादि / तदसम्यक् ।तत्राऽपि शब्दार्थे विचार्यमाणेऽतिप्रसङ्गदोषा-पत्तेः। तथाहिपञ्चविधः प्रदेश इत्युक्ते शब्दार्थपर्यालोचनायां यो यः प्रदेशः स पञ्चविध इति प्राप्तम् , एवं च सत्येकैकः प्रदेशः पञ्चविंशतिविधः प्रदेशः प्रसक्तः। न चैतदस्ति / तस्मादेवमत्र वक्तव्यम्- भाज्यः प्रदेशः / तद्यथास्याद्धर्मास्तिकायप्रदेशः, स्यादधर्मा-स्तिकायप्रदेशः, स्यादाकाशास्तिकायप्रदेशः, स्याजीवप्रदेशः, स्यात् स्कन्धप्रदेशः / एवमाचक्षाणमृजुसूत्रंशब्दनयः प्रत्याचष्टे-यद्वदसि भाज्यः प्रदेश इत्यादि। तन्न भवति। कथमुच्यते ? यदि भाज्यः प्रदेश इति समं ततः स्यात्पदलाञ्छने प्रतिनियते धर्मा-स्तिकायाऽऽद्यनुगतप्रदेशस्वरूपावधारणासंभवात् , धर्मास्तिका-यप्रदेशोऽपि स्यादधर्मास्तिकायप्रदेशः, अधर्मास्तिकाय- | प्रदेशोऽपि स्याद्धर्मास्तिकायप्रदेश इत्यादि / तत एवं वक्तव्यम्- | धर्मास्तिकायः प्रदेशः प्रदेशोऽधर्मास्तिकायः, अधर्मास्तिकायः प्रदेशः प्रदेशो धर्मास्तिकाय इत्यादि। एवं हि वदतः शब्दनयस्यायमभिप्रायःय एव धर्मास्तिकायाऽऽदिरूपो देशी स एव देशः प्रदेशो वा न स्यात् , तदव्यतिरिक्तत्वात्। न खलु देशिनो भिन्नो देशः प्रदेशो वा भवितु-मर्हति, भेदे सति तस्याऽसौ देशःप्रदेशो वेति संबन्धानुपपत्तेः। न हिघटः पटस्येति सचेतसा वक्तुं शक्यम् , संबन्धश्चेत्तर्हि संबन्धस्या-ऽन्यथाऽनुपपद्यमानत्वाद्देशः प्रदेशो वा देशिनः सकाशादभिन्नः प्रतिपत्तव्यः, तथा च सतिय एव देशी स एव देशः प्रदेशश्चेति सिद्ध सामानाधिकरण्यम् / एतदेव च सामाधिकरण्यं समभिरूढोऽपि मन्यते / एवंभूतस्तु प्रदेशवस्तुनो देशः प्रदेशो वा, युक्त्ययोगात्। तथाहि-देशः प्रदेशो वा देशिनो भिन्नोऽभिन्नो वा, गत्यन्तराभावात्। यदि भेदस्तस्येति संबन्धानुपपत्तिः / अथाभेदस्ततो देशः प्रदेशो वा देश्येव, तदव्यतिरिक्तत्वात्, स्वरूपवत्। तथा च सति यौ देशप्रदेशशब्दौ तौ परमार्थतो धर्मास्तिकायाऽऽदिदेशप्रतिपादकौ, ततो यथा पर्यायशब्दत्वादेककालमेकस्मिन् वस्तुनि घटकुटौ नो-चार्येते, एके नाऽपि शब्देन तदर्थस्य प्रतिपादने द्वितीयशब्दप्रयोगस्य नैरर्थक्यात्। एवमिहापि धर्मास्तिकायाऽऽदिरूपे वस्तुनि धर्मास्तिकायाऽऽदिशब्दो देशप्रदेशाऽऽदिशब्दश्व नैककालमुचारणम-हतः, द्वयोरप्येकार्थतयैकेनापि तदर्थस्याऽभिधानत्वेऽपरशब्दप्रयोगस्य वैयर्थ्यात् / तथा च सति धर्मास्तिकायप्रदेशः, अधर्मास्तिकायप्रदेश इत्यादि वचनजातं सर्वमुपपन्नम् / देशप्रदेशशब्दयोः परमार्थतो धर्मास्तिकायाऽऽदिरूपदेशिवाचकतया पौनरुक्त्यदोषानुषङ्गात् / योऽपि च नोशब्द एकदेशवचनः, सोऽप्येतन्मते सर्वथाऽनुपपन्नः, तत्राप्युक्तदोषानतिक्रमात् / तथाहि-नोशब्दः सम्पूर्ण वस्त्वभिदध्यात् , वस्त्वेकदेशं वा ? यदि सम्पूर्ण, ततस्तस्य प्रयोगों निरर्थकः, धर्मास्तिकायाऽऽदिपदेनैव तस्याऽभिधानात् / अथ वाऽस्त्वेकदेशमिति पक्षः। सोऽप्यसमीचीनः, वस्तुनो देशाभावात्। न हि वस्तुनो भिन्नो देश उपपन्नते, तस्येति संबन्धाऽभावात्। अभेदे तु देश्येव, न देश इत्युपपादितमेतत्। उक्तं च भाष्यकारैः"नो सद्दो वि समत्तं, देसं व भणिज्ज जइ समत्तं तो। तस्स पओगोऽणत्थो, अह देसो तो न सो वत्थु / / 2256 / / " अत्र (न सो वत्थु त्ति) न स देशो वस्तु, भेदपक्षेऽभेदपक्षे वा, तस्यासंभवादिति / येऽपि च नीलोत्पलाऽऽदयः शब्दा लोकप्रसिद्धाः, तेऽप्येतन्मतेन विचार्यमाणाः सर्वथाऽनुपपन्नाः। तथाहि-तन्मतेन सर्व वस्तु प्रत्येकमखण्डरूपं, न तस्य गुणाः पर्यायावा देशाः प्रदेशा वा सर्वथा कथञ्चिद्वा वस्त्वन्तररूपा वर्तन्ते, ततो नीलशब्देनाऽपि तदेव वस्त्वखण्डमभिधीयते, उत्पलशब्देनाऽपि तदेवेति, नीलोत्पलशब्दयोरन्यतरशब्देन तदर्थस्याऽभिधानात् / द्वितीयशब्दप्रयोगो व्यर्थ इत्ययुक्ता नीलोत्पलाऽऽदयः शब्दाः / प्रकृते प्रदेशदृष्टान्तभावनाऽपि तथैव / तदेवमुक्ता नयाः / एतेषां च नयानामाद्याश्चत्वारो नया अर्थनयाः, मुख्यवृत्त्या जीवाऽऽद्यर्थ-समाश्रयणात्। शेषास्तुत्रयः शब्दाऽऽदयो नयाः शब्दनयाः, शब्दत एवार्थभेदोपयोगात्। उक्तंच" चत्वारोऽर्थनया ह्येते, जीवाऽऽद्यर्थविनिश्चयात्। त्रयः शब्दनयाः सत्य-पदविद्यां समाश्रिताः " // 1 //