________________ णय 1951 - अभिधानराजेन्द्रः भाग - 4 णय ऽपि संभवान्न तदनुपपत्तिरिति द्रष्टव्यम् / शब्दाना शब्दसमभिरुढवंभूताऽऽख्यानां त्रयाणां नयानां मते स प्रस्थकः ज्ञकर्तृगताद्भावानातिरिच्यते न भिद्यते / ज्ञश्च कर्ता च ज्ञकर्तारौ, ज्ञकोंर्गतो ज्ञकर्तृगतः, तस्मादिति समासः / प्रस्थकाद् ज्ञगतात् प्रस्थककतृगताद्वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं ते न सहन्ते निश्चयज्ञानात्मकप्रस्थकस्य जडवृत्तित्वायोगाद् बाह्यप्रस्थकस्याऽप्यनुपलम्भकालेऽसत्त्वेनोपयोगानतिरेकाऽऽश्रयणादन्ततो ज्ञानद्वैताय पर्यवसानाद्वा / न च ज्ञानाऽऽमकत्वोभयनयविषयसमावेशविरोधात्प्रत्येकमनयत्वमाशङ्कनीयम् , तादात्म्येनोभयरूपासमावेशेऽपि विषयत्वतादात्म्याभ्यां तदुभयसमावेशात्। विषयत्वमपि कथञ्चित्तादात्म्यमिति तु नयान्तराऽऽकृतम्, यदाश्रयेण ' अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः ' इति प्राचीनैर्गीयत इति दिग् // 66 // विवेचितः प्रस्यकदृष्टान्तः / नयो०। विशे० (20) वसतिदृष्टान्तःसे किं तं वसहिदिटुंतेणं? वसहिदिटुंतेणं से जहानामए केइ पुरिसे किंचि पुरिसं वएज्जा-कहिं भवं वससि ? अविसुद्धोणेगमो भणइ-लोगे वसामि। लोगे तिविहे पण्णत्ते / तं जहा-उडलोए, अहोलोए, तिरिअलोए / तेसु सव्वेसु भवं वससि ? विसुद्धो णेगमो भणइ-तिरिअलोए वसामि / तिरिअलोए जंबुद्दीवाऽऽइआ सयंभूरमणपज्जवसाणा असंखिज्जा दीवसमुद्दा पण्णत्ता, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-जंबु-द्दीवे वसामि / जंबुद्दीवे दस खेत्ता पण्णत्ता / तं जहा-भरहे, एरवए, हेमवए, एरण्णवए, हरिवस्से, रम्मगवस्से, देवकुरू, उत्तरकुरू, पुव्वविदेहे, अवरविदेहे। तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-भरहे वासे वसामि। भरहे वासे दुविहे पण्णत्ते / तं जहा-दाहिणड्ढभरहे, उत्तरडभरहे अ। तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-दाहिणड्ड-भरहे वसामि / दाहिणड्डभरहे अणेगाइंगामागरणगरखेडकव्व-डमडंवदोणमुहपट्टणासमसंवाहसण्णिवेसाई, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-पाडलिपुत्रे वसामि / पाडलिपुत्ते अणेगाई गिहाइं, तेसु सव्वेसु भवं वससि ? विसुद्धो णेगमो भणइ-गब्भघरे वसामि / एवं विसुद्धस्स णेगमस्स वस-माणो वसइ। एवमेव ववहारस्स वि। संगहस्स संथारसमारूढो वसइ। उज्जुसुअस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ। तिण्हं सद्दनयाणं आयभावे वसइ। सेत्तं वसहिदिटुंतेणं / (से किं तं वसहीत्यादि) वसतिर्निवासः, तदृष्टान्तेन नयविचार उच्यते / तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्राऽऽदौ वसन्तं कश्चित्पुरुष वदेत्-क्व भवान् वसति ? तत्राविशुद्धो नैगमो भवति-अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छतिलोके वसा-मि। तन्निवासक्षेत्रस्याऽपि चतुर्दशरज्ज्वात्मकलोकादनन्तरत्वात् / इत्यमपि च व्यवहारदर्शनाद् / विशुद्धनगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते / ततस्तिर्यग्लोके वसामीति संक्षिप्योत्तरं ददाति | विशुद्धतरस्त्विदम्। अथातिविशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते। ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह / एवं भारतवर्षदक्षिणार्द्धभरतपाटत्रिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम्। (एवं विसुद्धस्स णेगमस्स वसमाणो वसइ त्ति) एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन्नेव वसति, नान्यथा। इदमुक्तं भवति-यत्र गृहाऽऽदौ सर्वदा निवासत्वेनाऽसौ विवक्षितस्तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते / यदि पुनः कारणवसतोऽन्यत्र रथ्यादौ वर्तते, तदा तत्र विवक्षते गृहाऽऽदौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः / (एवमेवेत्यादि) लोकव्यवहारनिष्ठो हि व्यवहारनयः लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः / अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामाऽऽदौ वर्तमानेऽपि देवदत्ते पाटलिपुत्र एष वस-तीति व्यपदेशदर्शनादिति चेत्। नैतदेवम्। प्रोषिते देवदत्ते स इह वसति न वेति केनचित् पृष्टो, प्रोषितोऽसौ नेव वसतीत्यस्याऽपि लोकव्यवहारस्य दर्शनादिति / (संगहस्सेत्यादि) प्राक्तनाविशुद्धत्वात्संग्रहनयस्स गृहाऽऽदौ तिष्ठन्नपि संस्तारकाऽऽरूढ एव शयनक्रियावान वसतीत्युच्यते / इदमुक्तं भवति-संस्तारेऽवस्थानादन्यत्र निवासार्थ एव न घटते, चलनाऽऽदिक्रियावत्त्वान्मार्गाऽsदिप्रवृत्तवत्। संस्तारके च वसतो गृहाऽऽदौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्। तस्मात् क्वाऽसौ वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः। स च नानादेशाऽऽदिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति / ऋजुसूत्र-स्य तु पूर्वस्माद्विशुद्धत्वाद्येष्वाकाशप्रदेशेष्ववगाढः, तेष्वेव वसतीत्युच्यते, न संस्तारके; सर्वस्याऽपि वस्तुवृत्त्या नभस्ये - वावगाहात् / येषु प्रदेशेषु संस्तारको वर्तते, संस्तारकेणैवाऽऽक्रान्तस्ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते / स च वर्तमानकाले एवास्ति, अतीतानागतयोर्विनष्टानुत्पन्न-त्वेनैतन्मतेऽसत्वादिति। त्रयाणां शब्दनयानामात्मभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्याऽन्यत्र वृत्त्ययोगात् / तथाहि-अन्योऽन्यत्र वर्तमानः किं सर्वाऽऽत्मना वर्तते? देशाऽऽत्मना वा ? यद्याद्यः पक्षस्तर्हि तस्याऽऽधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः / यथाहिसंस्तारकाऽऽद्याधारस्य स्वरूपं सर्वाऽऽत्मना तत्र वृत्तं न तद्व्यतिरेके णोपलभ्यते, एवं देवदत्ताऽऽदिरपि सर्वाऽऽत्मना तत्राधीयमानस्त द्व्यतिरेकेण नोपलभ्यते। अथ द्वितीयो विकल्पः स्वीक्रियते, तर्हि तत्राऽपिदेशेऽनेन वर्तितव्यम्। ततः पुनरपि विकल्पद्वयम्- किं सर्वा-ऽऽत्मना वर्तते, देशाऽऽत्मना वेति ? सर्वाऽऽत्मपक्षे देशिनो देशरूपताऽऽपत्तिः। देशाऽऽत्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यं, ततः पुनरपि तदेव विकल्पद्वयमः तदेव दूषणमित्यनवस्था। तस्मात्सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य निःस्वभावताप्रसङ्गादित्यलं बहुभाषितया। "सेत्तं'' इत्यादि निगमनम् / अनु० / नयो० / ननु वसनं नाम वर्तनमुच्यते / तथा च-देवदत्तो गृहे वसती- ति। किमुक्तं भवति ? देवदत्तो गृहे वर्तते, तच वर्त्तनं सर्वस्याऽपि वस्तुनः स्वस्वरूप एव, नाऽन्यत्र, तथा प्रत्यक्षत उपलभ्यमानत्वात्। तथाहि-यघटगतं स्वरूपं तत्घटेएव वर्तते, नाऽन्यत्र भूतले पटाऽऽदौ वेति। प्रसिद्धमेतत्, देवद