________________ णय 1880- अभिधानराजेन्द्रः भाग - 4 णय प्रस्थकं निर्वर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात्स एव प्रस्थकः / इमां च तेऽत्र युक्तिमभिदधतिसर्व वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे वक्ष्यमाणयुक्त्या, एतन्मतेनाऽन्यस्याऽन्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयाऽऽत्मकं मानमुच्यते, निश्चयश्च ज्ञानम् , तत्कथं जडाऽऽत्मनि काष्ठभाजने वृत्तिमनुभविष्यति? चेतनाचेतनयोः सामानाधिकरण्याभावात् , तस्मात्प्रस्थकोपयुक्त एव प्रस्थकः।" से तं " इत्यादि निगमनम् / अनु० / प्रस्थकदृष्टान्तं विवेचयतिप्रस्थकार्थ व जामीति, वने गच्छन् ब्रवीति यत्। आदिमो [पचारोऽसौ, नैगमव्यवहारयोः।। 62 / / (प्रस्थकार्थमित्यादि) प्रस्थको मगधदेशप्रसिद्धो धान्यमानहेतुद्रव्यविशेषः, तदर्थ व्रजामीति वने गच्छन् यद् व्रवीति कश्चित्, असौ नैगमव्यवहारयोर्हि निश्चितमादिम उपचारः।। 62 / / नन्वत्र प्रस्थकार्थ वने गच्छतः प्रस्थकेच्छाया मुख्यार्थस्याबाधितत्वात्कथं प्रस्थकपदस्योपचार इति? अत्र आहअत्र प्रस्थकशब्देन, क्रियाऽऽविष्टवनकधीः। प्रस्थकेऽहं व्रजामीति, ह्युपचारोऽपि च स्फुटः॥६३ // (अत्रेति) अत्राधिकृतप्रयोगे क्वेत्यधिकरणाकाडया, प्रस्थकार्थमिति चतुर्थी, प्रकृतार्थेनैव निवृत्तेः प्रस्थकदलयोग्यवृक्षप्राप्ति-रूपक्रियाऽऽविष्टवनस्यैकाऽद्वितीया धीरिति, तत्रोपचार आवश्यक इत्यर्थः / ननु तथाऽपि सप्तम्यन्तप्रश्श्रे सप्तम्यन्तमेवोत्तरमुचितमित्यत आह-क्व भवान् गच्छतीति प्रश्ने प्रस्थकेऽहं व्रजामीति सप्तम्यन्तप्रस्थकपदस्योपचारोऽपि वने स्फुट एव दृश्यत इत्यर्थः / तथा च वनगमने प्रस्थकशब्देन वनाभिधानं नैगमव्यवहारयोः प्रथम उपचार इति सिद्धम् / / 63 / / छिनधि प्रस्थकं तक्ष्णो-म्युत्किराम्युल्लिखामि च। करोमि चेति तदनू-पचाराः शुद्धताभृतः।। 64 / / (छिनीति) किं भवान् छिनत्तीति प्रश्रे प्रस्थकं छिनमीत्युत्तरे प्रस्थकपदस्य च्छेदकयोग्ये काष्ठे उपचारः, स पूर्वस्मातशुद्धः / एवं क्रमेण किं भवान् तक्ष्णोति, उत्किरति, उल्लिखति, करोतीति प्रश्श्रेषु, प्रस्थकं तक्ष्णोमि, उत्किरामि, उल्लिखामि, करोमीत्युत्तरेषु प्रस्थकपदस्य तक्ष्णाऽऽदिक्रियायोग्यकाठेखूपचारायथोत्तरं भवन्तः क्रमेण शुद्धताभृतो भवन्ति / ननु सर्वत्र प्रस्थकपदस्य प्रस्थकयोग्यकाष्ठ एक एवोपचारः, तत्क्रियाविशेषितार्थधीश्च तत्तत्क्रियावाचकपदसमभिव्याहारादेव भविष्यतीति कथमेतावन्त उपचारा यथाक्रमशुद्धा उच्यन्त इति चेत् ? सत्यम्। दुग्धमायुर्दध्वायुर्घतमायुरित्यादौ दुग्धाऽऽदिकारणे आयुःकार्योपचारस्यातिशयविशेषेण तारतम्यवत् प्रकृतेऽपि छेदनाऽऽदिक्रियाव्यापाराऽऽवेशेन तज्जन्यावयवसंयोगाऽऽदिविशेषजन्यतया वा विलक्षणेषु काष्ठद्रव्येषु काष्ठप्रस्थकपर्यायोत्पत्तिव्यवधानाऽव्यवधानाभ्यां प्रस्थकपदोपचारतारतम्यस्यानुभवसिद्धत्वात्॥६४ // तमेतावतिशुद्धौ तू-त्कीर्णनामानमाहतुः / चितं मितं तथा मेया-रूढमेवाऽऽह संग्रहः।। 65 / / (तमिति) अतिशुद्धौ त्वेतौ नैगमव्यवहारनयौ तं प्रस्थकमुत्कीर्णनामानं प्रस्थकपर्यायवन्तं प्रस्थकमाहतुः, अनुत्कीर्णनाम्नोऽद्रव्यादविशेषादिति भावः / संग्रहनयस्तु चितमासादितं प्रस्थक-पर्यायं, मितमाकुट्टितनामानं, मेयं धान्यविशेषम् , आरूढं प्रस्थकमाह, मेयारूढपदेन तदनारूढस्यान्यद्रव्याविशिष्टस्यासंग्रहाद् नैग-मोपदर्शितार्थसंकोचकत्वेन स्वनाम्नोऽन्वर्थत्वसिद्धः / अयं हि विशुद्धत्वात् कारणे कार्योपचारं कार्यकारणकाले प्रस्थकं च नाड़ी-कुरुते / न च तदा तस्य घटाऽऽद्यात्मकत्वप्रसङ्गः, तदर्थक्रियां विना तत्त्वायोगात्। घटाऽऽदिशब्दार्थक्रिया यथा कथञ्चित्तत्रास्त्येवेति चेत्, साधारणतदर्थक्रियाकारित्वस्यैव तदात्मकत्यप्रयोजकत्वातत्, तथाऽपि प्रस्थकक्रियाविरहे नाऽयं प्रस्थको घटाऽऽधनात्म-कत्वाचनाप्रस्थक इत्यनुभयरूपः स्यान्न स्यात्, प्रतियोगिकोटौ स्वस्थाऽपि प्रवेशेन यावद्घटाऽऽद्यनात्मकत्वासिद्धेः। अर्थक्रिया-भावाभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति चेत् / न / नैगमनयोपगतार्थासकोचनाय कादाचित्कतयोपगमेऽपि सर्वत्र तथाऽभ्युपगमाभावेन तदननुप्रवेशात्, इत्थं चार्थक्रियाकारितदकारिप्रस्थकव्यक्तिभेदादर्थक्रियाजनकप्रस्थकव्यक्तौ प्रस्थकत्वसामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद्दोषः / वस्तुतो व्यावृत्तिविशेषाऽऽद्यतिरिक्तन नैयायिकाऽऽदिकल्पितसामान्येन क्वचिदपि निर्वाहः, तन्मते घटत्वाऽऽदिसामान्यस्याऽपि समर्थयितुमशक्यत्वात्। मृत्स्वर्णरजतपाषाणाऽऽदिघटेषु मृत्त्वस्वर्णत्वाऽऽदिना साङ्कर्येण तदसिद्धेः, अस्तु मृत्त्वे स्वर्णत्वाऽऽदिव्याप्यता, नैवं घटत्वम्। कुलालस्वर्णकारजन्यताऽऽद्यवच्छेदकतया तन्नानात्वस्याऽऽवश्यकत्वात्। न हि स्वर्णघटाऽऽदौ चक्राऽऽदिकं मृद्घटाऽऽदौ चलोहवर्तुलाऽऽदिकं हेतुः, अननुगतधीस्तु कथञ्चित् सौसादृश्यात्. घटपदं तुनानार्थकमित्यभ्युपगमे कथञ्चिदित्याद्यनिर्वचनेनै-वाशक्तिराविष्क्रियते / अननुगतानां जातीनामिव व्यक्तीनामपि सौ-सादृश्येनैवानुगमसंभवेन जात्युच्छेदाऽऽपत्तिः, घटपदस्य नानार्थत्वे स्पष्ट एव लौकिकव्यवहारवाधश्व, घटत्वाऽऽदिकर्मकत्ववृत्त्यैव मृत्त्वाऽऽदिकमेव वा, तथा कुम्भकारस्वर्णकाराऽऽदेविजातीय-कृतिमत्त्वेन चक्राऽऽदिवर्तुलाऽऽदेश्च कथञ्चिद्विजातीयध्यापारकत्वेन हेतुत्वमित्यादिनवीनकल्पना तु ? दोषादेकत्वाग्रहेऽपि घटत्वाऽऽदिग्रहादेकत्वस्यैकत्वात्प्रसिद्धरूपेण कार्यकारणभावोच्छेदे व्यवहारविलोपाच्चानुपपत्तेरिति नयविशेषेण तत्र तत्र व्यावृत्तिविशेषरूपसामान्याभ्युपगमं विना न निर्वाह इति प्रकृते कार्याकरणकाले व्यावृत्तिविशेषरूपप्रस्थकत्वसामान्याभावाभ्युपगमे न क्षतिरिति किमति प्रपञ्चितेन? // 65 // प्रस्थकश्चर्जुसूत्रस्य, मानं मेयमिति द्वयम्। न ज्ञकर्तृगताद्भावा-च्छब्दानां सोऽतिरिच्यते / / 66 / / (प्रस्थक श्चेति) ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव प्रस्थकस्वरूप, तन्मेयधान्यं च समवहित एव प्रस्थकव्यवहारादेकतरविनाशभावे तत्परिच्छेदासंभवात्। किञ्चमेयाऽऽरूढः प्रस्थकः प्रस्थकत्वेन व्यपदेश्य इति संग्रहनयमते मेयारूढः प्रस्थकः, प्रस्थकाऽऽरूढ मेयं वा, तथेत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकपदशक्तेासज्यवृत्तित्वं युक्तम् / कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोग एकोत्तरोभयवाचकपदेनैकस्यानुपस्थापनादिति चेत्। न। एतन्नयेन कथञ्चित्प्रस्थकपदशक्यताऽवच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात् करणरूपानुप्रवेशस्या